Followers

Search Here...

Showing posts with label sundara kandam. Show all posts
Showing posts with label sundara kandam. Show all posts

Sunday, 19 July 2026

சுந்தர காண்டம் – 46 - ஐந்து சேனைத் தலைவர்களையும் வதம் செய்கிறார்.

HOME          PREVIOUS               NEXT

हतान् मन्त्रि-सुतान् बुद्ध्वा वानरेण महा-आत्मना ।
रावणः संवृत-आकारः चकार मतिम् उत्तमाम् ॥ 1 ॥

सः विरूपाक्ष-यूपाक्षौ दुर्धरं च एव राक्षसम् ।
प्रघसं भास-कर्णं च पञ्च सेना-अग्र-नायकान् ॥ 2 ॥

सन्दिदेश दश-ग्रीवः वीरान् नय-विशारदान् ।
हनुमत्-ग्रहण-व्यग्रान् वायु-वेग-समान् युधि ॥ 3 ॥

यात सेना-अग्र-गाः सर्वे महा-बल-परिग्रहाः ।
स-वाजि-रथ-मातङ्गाः सः कपिः शास्यताम् इति ॥ 4 ॥

यत्नैः च खलु भाव्यं स्यात् तम् आसाद्य वन-आलयम् ।
कर्म च अपि समाधेयं देश-काल-अविरोधिनम् ॥ 5 ॥

न हि अहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् ।
सर्वथा तत् महत् भूतं महा-बल-परिग्रहम् ॥ 6 ॥

भवेत् इन्द्रेण वा सृष्टम् अस्मत्-अर्थं तपः-बलात् ।
स-नाग-यक्ष-गन्धर्वाः देव-असुर-महर्षयः ॥ 7 ॥

युष्माभिः सहितैः सर्वैः मया सह विनिर्जिताः ।
तैः अवश्यं विधातव्यं व्यलीकं किञ्चित् एव नः ॥ 8 ॥

तत् एव न अत्र सन्देहः प्रसह्य परिगृह्यताम् ।
न अवमान्यः भवद्भिः च हरिः धीर-पराक्रमः ॥ 9 ॥

दृष्टाः हि हरयः पूर्वं मया विपुल-विक्रमाः ।
वाली च सह सुग्रीवः जाम्बवान् च महा-बलः ॥ 10 ॥

नीलः सेना-पतिः च एव ये च अन्ये द्विविद-आदयः ।
न एवम् तेषां गतिः भीमा न तेजः न पराक्रमः ॥ 11 ॥

न मतिः न बल-उत्साहौ न रूप-परिकल्पनम् ।
महत्-सत्त्वम् इदं ज्ञेयं कपि-रूपं व्यवस्थितम् ॥ 12 ॥

प्रयत्नं महत् आस्थाय क्रियताम् अस्य निग्रहः ।
कामं लोकाः त्रयः स-इन्द्राः स-सुर-असुर-मानवाः ॥ 13 ॥

भवताम् अग्रतः स्थातुं न पर्याप्ताः रण-अजिरे ।
तथा अपि तु नय-ज्ञेन जयम् आकाङ्क्षता रणे ॥ 14 ॥

आत्मा रक्ष्यः प्रयत्नेन युद्ध-सिद्धिः हि चञ्चला ।
ते स्वामि-वचनं सर्वे प्रतिगृह्य महा-ओजसः ॥ 15 ॥

समुत्पेतुः महा-वेगाः हुताश-सम-तेजसः ।
रथैः मत्तैः च मातङ्गैः वाजिभिः च महा-जवैः ॥ 16 ॥

शस्त्रैः च विविधैः तीक्ष्णैः सर्वैः च उपचिताः बलैः ।
ततः तं ददृशुः वीराः दीप्यमानं महा-कपिम् ॥ 17 ॥

रश्मिमन्तम् इव उद्यन्तं स्व-तेजः-रश्मि-मालिनम् ।
तोरण-स्थं महा-उत्साहं महा-सत्त्वं महा-बलम् ॥ 18 ॥

महा-मतिं महा-वेगं महा-कायं महा-बलम् ।
तं समीक्ष्य एव ते सर्वे दिक्षु सर्वासु अवस्थिताः ॥ 19 ॥

तैः तैः प्रहरणैः भीमैः अभिपेतुः ततः ततः ।
तस्य पञ्च-अयसाः तीक्ष्णाः शिताः पीत-मुखाः शराः ॥ 20 ॥

शिरसि उत्पल-पत्र-आभाः दुर्धरेण निपातिताः ।
सः तैः पञ्चभिः आविद्धः शरैः शिरसि वानरः ॥ 21 ॥

उत्पपात नदन् व्योम्नि दिशः दश विनादयन् ।
ततः तु दुर्धरः वीरः स-रथः स-ज्य-कार्मुकः ॥ 22 ॥

किरन् शर-शतैः तीक्ष्णैः अभिपेदे महा-बलः ।
सः कपिः वारयामास तं व्योम्नि शर-वर्षिणम् ॥ 23 ॥

वृष्टिमन्तं पयोद-अन्ते पयोदम् इव मारुतः ।
अर्ध्यमानः ततः तेन दुर्धरेण अनिल-आत्मजः ॥ 24 ॥

चकार कदनं भूयः व्यवर्धत च वेगवान् ।
सः दूरं सहसा उत्पत्य दुर्धरस्य रथे हरिः ॥ 25 ॥

निपपात महा-वेगः विद्युत्-राशिः गिरौ इव ।
ततः सः मथित-अष्ट-अश्वं रथं भग्न-अक्ष-कूबरम् ॥ 26 ॥

विहाय न्यपतत् भूमौ दुर्धरः त्यक्त-जीवितः ।
तं विरूपाक्ष-यूपाक्षौ दृष्ट्वा निपतितं भुवि ॥ 27 ॥

सञ्जात-रोषौ दुर्धर्षौ उत्पेतुः अरि-दमौ ।
सः ताभ्यां सहसा उत्पत्य विष्ठितः विमले अम्बरे ॥ 28 ॥

मुद्गराभ्यां महा-बाहुः वक्षसि अभिहतः कपिः ।
तयोः वेगवतोः वेगं विनिहत्य महा-बलः ॥ 29 ॥

निपपात पुनः भूमौ सुपर्ण-सम-विक्रमः ।
सः साल-वृक्षम् आसाद्य तम् उत्पाट्य च वानरः ॥ 30 ॥

तौ उभौ राक्षसौ वीरौ जघान पवन-आत्मजः ।
ततः तान् त्रीन् हतान् ज्ञात्वा वानरेण तरस्विना ॥ 31 ॥

अभिपेदे महा-वेगः प्रसह्य प्रघसः हरिम् ।
भास-कर्णः च संक्रुद्धः शूलम् आदाय वीर्यवान् ॥ 32 ॥

एकतः कपि-शार्दूलं यशस्विनम् अवस्थितम् ।
पट्टिसेन शित-अग्रेण प्रघसः प्रत्ययोधयत् ॥ 33 ॥

भास-कर्णः च शूलेन राक्षसः कपि-सत्तमम् ।
सः ताभ्यां विक्षतैः गात्रैः असृक्-दिग्ध-तनू-रुहः ॥ 34 ॥

अभवत् वानरः क्रुद्धः बाल-सूर्य-सम-प्रभः ।
समुत्पाट्य गिरेः शृङ्गं स-मृग-व्याल-पादपम् ॥ 35 ॥

जघान हनुमान् वीरः राक्षसौ कपि-कुञ्जरः ।
ततः तेषु अवसन्नेषु सेना-पतिषु पञ्चसु ॥ 36 ॥

बलं तत् अवशेषं च नाशयामास वानरः ।
अश्वैः अश्वान् गजैः नागान् योधैः योधान् रथैः रथान् ॥ 37 ॥

सः कपिः नाशयामास सहस्र-अक्षः इव असुरान् ।
हतैः नागैः च तुरगैः भग्न-अक्षैः च महा-रथैः ॥ 38 ॥

हतैः च राक्षसैः भूमिः रुद्ध-मार्गा समन्ततः ।
ततः कपिः तान् ध्वजिनी-पतीन् रणे निहत्य वीरान् स-बलान् स-वाहनान् ।
समीक्ष्य वीरः परिगृह्य तोरणं कृत-क्षणः कालः इव प्रजा-क्षये ॥ 39 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे षट्-चत्वारिंशः सर्गः ॥

HOME          PREVIOUS               NEXT

சுந்தர காண்டம் – 45 - அமைச்சர்களின் ஏழு மகன்களைக் கொல்கிறார்.

HOME          PREVIOUS               NEXT

ततः ते राक्षस-इन्द्रेण चोदिताः मन्त्रिणः सुताः ।
निर्ययुः भवनात् तस्मात् सप्त सप्त-अर्चिः-वर्चसः ॥ 1 ॥

महा-बल-परिवाराः धनुष्मन्तः महा-बलाः ।
कृत-अस्त्राः अस्त्र-विदां श्रेष्ठाः परस्पर-जय-एषिणः ॥ 2 ॥

हेम-जाल-परिक्षिप्तैः ध्वजवत्भिः पताकिभिः ।
तोयद-स्वन-निर्घोषैः वाजि-युक्तैः महा-रथैः ॥ 3 ॥

तप्त-काञ्चन-चित्राणि चापानि अमित-विक्रमाः ।
विस्फारयन्तः संहृष्टाः तटित्-वन्तः इव अम्बुदाः ॥ 4 ॥

जनन्यः तु ततः तेषां विदित्वा किंकरान् हतान् ।
बभूवुः शोक-संभ्रान्ताः स-बान्धव-सुहृत्-जनाः ॥ 5 ॥

ते परस्पर-संघर्षात् तप्त-काञ्चन-भूषणाः ।
अभिपेतुः हनूमन्तं तोरण-स्थम् अवस्थितम् ॥ 6 ॥

सृजन्तः बाण-वृष्टिं ते रथ-गर्जित-निःस्वनाः ।
वृष्टिमन्तः इव अम्भोदाः विचेरुः नैऋत-अम्बुदाः ॥ 7 ॥

अवकीर्णः ततः ताभिः हनुमान् शर-वृष्टिभिः ।
अभवत् संवृत-आकारः शैल-राट् इव वृष्टिभिः ॥ 8 ॥

सः शरान् मोघयामास तेषाम् आशु-चरः कपिः ।
रथ-वेगं च वीराणां विचरन् विमले अम्बरे ॥ 9 ॥

सः तैः क्रीडन् धनुष्मद्भिः व्योम्नि वीरः प्रकाशते ।
धनुष्मद्भिः यथा मेघैः मारुतः प्रभुः अम्बरे ॥ 10 ॥

सः कृत्वा निनदं घोरं त्रासयन् तां महा-चमूम् ।
चकार हनुमान् वेगं तेषु रक्षःसु वीर्यवान् ॥ 11 ॥

तलेन अभ्यहनत् कांश्चित् पादैः कांश्चित् परंतपः ।
मुष्टिना अभ्यहनत् कांश्चित् नखैः कांश्चित् व्यदारयत् ॥ 12 ॥

प्रममाथ उरसा कांश्चित् ऊरुभ्याम् अपरान् कपिः ।
केचित् तस्य निनादेन तत्र एव पतिताः भुवि ॥ 13 ॥

ततः तेषु अवसन्नेषु भूमौ निपतितेषु च ।
तत् सैन्यम् अगमत् सर्वं दिशः दश भय-अर्दितम् ॥ 14 ॥

विनेदुः विस्वरं नागाः निपेतुः भुवि वाजिनः ।
भग्न-नीड-ध्वज-छत्रैः भूः च कीर्णा अभवत् रथैः ॥ 15 ॥

स्रवता रुधिरेण अथ स्रवन्त्यः दर्शिताः पथि ।
विविधैः च स्वरैः लङ्का ननाद विकृतं तदा ॥ 16 ॥

सः तान् प्रवृद्धान् विनिहत्य राक्षसान् महा-बलः चण्ड-पराक्रमः कपिः ।
युयुत्सुः अन्यैः पुनः एव राक्षसैः तम् एव वीरः अभिजगाम तोरणम् ॥ 17 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे पञ्च-चत्वारिंशः सर्गः ॥

HOME          PREVIOUS               NEXT

சுந்தர காண்டம் – 44 - பிரஹஸ்தனின் மகன் ஜம்புமாலியை வதம் செய்கிறார்.

HOME          PREVIOUS               NEXT

संदिष्टः राक्षस-इन्द्रेण प्रहस्तस्य सुतः बली ।
जम्बुमाली महा-दंष्ट्रः निर्जगाम धनुः-धरः ॥ 1 ॥

रक्त-माल्य-अम्बर-धरः स्रग्वी रुचिर-कुण्डलः ।
महान् विवृत्त-नयनः चण्डः समर-दुर्जयः ॥ 2 ॥

धनुः शक्र-धनुः-प्रख्यं महत् रुचिर-सायकम् ।
विष्फारयाणः वेगेन वज्र-अशनि-सम-स्वनम् ॥ 3 ॥

तस्य विष्फार-घोषेण धनुषः महता दिशः ।
प्रदिशः च नभः च एव सहसा समपूर्यत ॥ 4 ॥

रथेन खर-युक्तेन तम् आगतम् उदीक्ष्य सः ।
हनुमान् वेग-सम्पन्नः जहर्ष च ननाद च ॥ 5 ॥

तं तोरण-विटङ्क-स्थं हनुमन्तं महा-कपिम् ।
जम्बुमाली महा-बाहुः विव्याध निशितैः शरैः ॥ 6 ॥

अर्ध-चन्द्रेण वदने शिरसि एकेन कर्णिना ।
बाह्वोः विव्याध नाराचैः दशभिः तं कपि-ईश्वरम् ॥ 7 ॥

तस्य तत् शुशुभे ताम्रं शरेण अभिहतं मुखम् ।
शरदि इव अम्बुजं फुल्लं विद्धं भास्कर-रश्मिना ॥ 8 ॥

तत् तस्य रक्तं रक्तेन रञ्जितं शुशुभे मुखम् ।
यथा आकाशे महा-पद्मं सिक्तं चन्दन-बिन्दुभिः ॥ 9 ॥

चुकोप बाण-अभिहतः राक्षसस्य महा-कपिः ।
ततः पार्श्वे अति-विपुलां ददर्श महतीं शिलाम् ॥ 10 ॥

तरसा तां समुत्पाट्य चिक्षेप बलवत् बली ।
तां शरैः दशभिः क्रुद्धः ताडयामास राक्षसः ॥ 11 ॥

विपन्नं कर्म तत् दृष्ट्वा हनुमान् चण्ड-विक्रमः ।
सालं विपुलम् उत्पाट्य भ्रामयामास वीर्यवान् ॥ 12 ॥

भ्रामयन्तं कपिं दृष्ट्वा साल-वृक्षं महा-बलम् ।
चिक्षेप सु-बहून् बाणान् जम्बुमाली महा-बलः ॥ 13 ॥

सालं चतुर्भिः चिच्छेद वानरं पञ्चभिः भुजे ।
उरसि एकेन बाणेन दशभिः तु स्तन-अन्तरे ॥ 14 ॥

सः शरैः पूरित-तनुः क्रोधेन महता वृतः ।
तम् एव परिघं गृह्य भ्रामयामास वेगितः ॥ 15 ॥

अति-वेगः अति-वेगेन भ्रामयित्वा बल-उत्कटः ।
परिघं पातयामास जम्बुमालेः महा-उरसि ॥ 16 ॥

तस्य च एव शिरः न अस्ति न बाहू न च जानुनी ।
न धनुः न रथः न अश्वाः तत्र अदृश्यन्त न इषवः ॥ 17 ॥

सः हतः सहसा तेन जम्बुमाली महा-बलः ।
पपात निहतः भूमौ चूर्णित-अङ्ग-विभूषणः ॥ 18 ॥

जम्बुमालिं च निहतं किंकरान् च महा-बलान् ।
चुक्रोध रावणः श्रुत्वा कोप-संरक्त-लोचनः ॥ 19 ॥

सः रोष-संवर्तित-ताम्र-लोचनः प्रहस्त-पुत्रे निहते महा-बले ।
अमात्य-पुत्रान् अति-वीर्य-विक्रमान् समादिदेश आशु निशाचर-ईश्वरः ॥ 20 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे चतुः-चत्वारिंशः सर्गः ॥

HOME          PREVIOUS               NEXT

சுந்தர காண்டம் – 43 - ஆலயத்தையும் அதன் காவலர்களையும் அழிக்கிறார்.

HOME          PREVIOUS               NEXT

ततः सः किंकरान् हत्वा हनुमान् ध्यानम् आस्थितः ।
वनं भग्नं मया चैत्य-प्रासादः न विनाशितः ॥ 1 ॥

तस्मात् प्रासादम् अपि एवं भीमं विध्वंसयामि अहम् ।
इति सञ्चिन्त्य मनसा हनुमान् दर्शयन् बलम् ॥ 2 ॥

चैत्य-प्रासादम् आप्लुत्य मेरु-शृङ्गम् इव उन्नतम् ।
आरुरोह कपि-श्रेष्ठः हनुमान् मारुत-आत्मजः ॥ 3 ॥

आरुह्य गिरि-सङ्काशं प्रासादं हरि-यूथपः ।
बभौ सः सु-महा-तेजाः प्रति-सूर्यः इव उदितः ॥ 4 ॥

सम्प्रधृष्य च दुर्धर्षं चैत्य-प्रासादम् उत्तमम् ।
हनुमान् प्रज्वलन् लक्ष्म्या पारियात्र-उपमः अभवत् ॥ 5 ॥

सः भूत्वा सु-महा-कायः प्रभावात् मारुत-आत्मजः ।
धृष्टम् आस्फोटयामास लङ्कां शब्देन पूरयन् ॥ 6 ॥

तस्य आस्फोटित-शब्देन महता श्रोत्र-घातिना ।
पेतुः विहङ्गमाः तत्र चैत्य-पालाः च मोहिताः ॥ 7 ॥

अस्त्र-वित् जयताम् रामः लक्ष्मणः च महा-बलः ।
राजा जयति सुग्रीवः राघवेण अभिपालितः ॥ 8 ॥

दासः अहं कोसल-इन्द्रस्य रामस्य अक्लिष्ट-कर्मणः ।
हनुमान् शत्रु-सैन्यानां निहन्ता मारुत-आत्मजः ॥ 9 ॥

न रावण-सहस्रं मे युद्धे प्रति-बलं भवेत् ।
शिलाभिः तु प्रहरतः पादपैः च सहस्रशः ॥ 10 ॥

अर्दयित्वा पुरीं लङ्काम् अभिवाद्य च मैथिलीम् ।
समृद्ध-अर्थः गमिष्यामि मिषतां सर्व-रक्षसाम् ॥ 11 ॥

एवम् उक्त्वा विमान-स्थः चैत्य-स्थान् हरि-यूथपः ।
ननाद भीम-निर्ह्रादः रक्षसां जनयन् भयम् ॥ 12 ॥

तेन शब्देन महता चैत्य-पालाः शतं ययुः ।
गृहीत्वा विविधान् अस्त्रान् प्रासान् खड्गान् परश्वथान् ॥ 13 ॥

विसृजन्तः महा-कायाः मारुतिं पर्यवारयन् ।
ते गदाभिः विचित्राभिः परिघैः काञ्चन-अङ्गदैः ।
आजघ्नुः वानर-श्रेष्ठं बाणैः च आदित्य-सन्निभैः ॥ 14 ॥

आवर्तः इव गङ्गायाः तोयस्य विपुलः महान् ।
परिक्षिप्य हरि-श्रेष्ठं सः बभौ रक्षसां गणः ॥ 15 ॥

ततः वात-आत्मजः क्रुद्धः भीम-रूपं समास्थितः ॥ 16 ॥

प्रासादस्य महतः तस्य स्तम्भं हेम-परिष्कृतम् ।
उत्पाटयित्वा वेगेन हनुमान् पवन-आत्मजः ॥ 17 ॥

ततः तं भ्रामयामास शत-धारं महा-बलः ।
तत्र च अग्निः समभवत् प्रासादः च अपि अदह्यत ॥ 18 ॥

दह्यमानं ततः दृष्ट्वा प्रासादं हरि-यूथपः ।
सः राक्षस-शतं हत्वा वज्रेण इन्द्रः इव असुरान् ॥ 19 ॥

अन्तरिक्षे स्थितः श्रीमान् इदं वचनम् अब्रवीत् ।
मादृशानां सहस्राणि विसृष्टानि महा-आत्मनाम् ॥ 20 ॥

बलिनां वानर-इन्द्राणां सुग्रीव-वश-वर्तिनाम् ।
अटन्ति वसुधां कृत्स्नां वयम् अन्ये च वानराः ॥ 21 ॥

दश-नाग-बलाः केचित् केचित् दश-गुण-उत्तराः ।
केचित् नाग-सहस्रस्य बभूवुः तुल्य-विक्रमाः ॥ 22 ॥

सन्ति च ओघ-बलाः केचित् केचित् वायु-बल-उपमाः ।
अप्रमेय-बलाः च अन्ये तत्र आसन् हरि-यूथपाः ॥ 23 ॥

ईदृक्-विधैः तु हरिभिः वृतः दन्त-नख-आयुधैः ।
शतैः शत-सहस्रैः च कोटीभिः अयुतैः अपि ॥ 24 ॥

आगमिष्यति सुग्रीवः सर्वेषां वः निषूदनः ।
न इयम् अस्ति पुरी लङ्का न यूयं न च रावणः ॥ 25 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे त्रि-चत्वारिंशः सर्गः ॥

HOME          PREVIOUS               NEXT

சுந்தர காண்டம் – 42 - இராவணன் அனுப்பிய எண்பதாயிரம் கிங்கரர்களை வதம் செய்கிறார்.

HOME          PREVIOUS               NEXT

ततः पक्षि-निनादेन वृक्ष-भङ्ग-स्वनेन च ।
बभूवुः त्रास-संभ्रान्ताः सर्वे लङ्का-निवासिनः ॥ 1 ॥

विद्रुताः च भय-त्रस्ताः विनेदुः मृग-पक्षिणः ।
रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ॥ 2 ॥

ततः गतायां निद्रायां राक्षस्यः विकृत-आननाः ।
तत् वनं ददृशुः भग्नं तं च वीरं महा-कपिम् ॥ 3 ॥

सः ताः दृष्ट्वा महा-बाहुः महा-सत्त्वः महा-बलः ।
चकार सु-महत्-रूपं राक्षसीनां भय-आवहम् ॥ 4 ॥

ततः तं गिरि-सङ्काशम् अति-कायं महा-बलम् ।
राक्षस्यः वानरं दृष्ट्वा पप्रच्छुः जनक-आत्मजाम् ॥ 5 ॥

कः अयम् कस्य कुतः वा अयं किं निमित्तम् इह आगतः ।
कथं त्वया सह अनेन संवादः कृतः इति उत ॥ 6 ॥

आचक्ष्व नः विशाल-अक्षि मा भूत् ते सुभगे भयम् ।
संवादम् असित-अपाङ्गे त्वया किं कृतवान् अयम् ॥ 7 ॥

अथ अब्रवीत् महा-साध्वी सीता सर्व-अङ्ग-सुन्दरी ।
रक्षसां भीम-रूपाणां विज्ञाने मम का गतिः ॥ 8 ॥

यूयम् एव अभिजानीत यः अयं यत् वा करिष्यति ।
अहिः एव हि अहेः पादान् विजानाति न संशयः ॥ 9 ॥

अहम् अपि अस्य भीता अस्मि न एनं जानामि कः नु अयम् ।
वेद्मि राक्षसम् एव एनं काम-रूपिणम् आगतम् ॥ 10 ॥

वैदेह्याः वचनं श्रुत्वा राक्षस्यः विद्रुताः दिशः ।
स्थिताः काश्चित् गताः काश्चित् रावणाय निवेदितुम् ॥ 11 ॥

रावणस्य समीपे तु राक्षस्यः विकृत-आननाः ।
विरूपं वानरं भीमम् आख्यातुम् उपचक्रमुः ॥ 12 ॥

अशोक-वनिका-मध्ये राजन् भीम-वपुः कपिः ।
सीतया कृत-संवादः तिष्ठति अमित-विक्रमः ॥ 13 ॥

न च तं जानकी सीता हरिं हरिण-लोचना ।
अस्माभिः बहुधा पृष्टा निवेदयितुम् इच्छति ॥ 14 ॥

वासवस्य भवेत् दूतः दूतः वैश्रवणस्य वा ।
प्रेषितः वा अपि रामेण सीता-अन्वेषण-काङ्क्षया ॥ 15 ॥

तेन तत् भूत-रूपेण यत् तत् तव मनोहरम् ।
नाना-मृग-गण-आकीर्णं प्रमृष्टं प्रमदा-वनम् ॥ 16 ॥

न तत्र कश्चित् उद्देशः यः तेन न विनाशितः ।
यत्र सा जानकी सीता सः तेन न विनाशितः ॥ 17 ॥

जानकी-रक्षण-अर्थं वा श्रमात् वा न उपलभ्यते ।
अथवा कः श्रमः तस्य सा एव तेन अभिरक्षिता ॥ 18 ॥

चारु-पल्लव-पुष्प-आढ्यं यं सीता स्वयम् आस्थिता ।
प्रवृद्धः शिंशुपा-वृक्षः सः च तेन अभिरक्षितः ॥ 19 ॥

तस्य उग्र-रूपस्य उग्र त्वं दण्डम् आज्ञातुम् अर्हसि ।
सीता संभाषिता येन तत् वनं च विनाशितम् ॥ 20 ॥

मनः-परिगृहीतां तां तव रक्षः-गण-ईश्वर ।
कः सीताम् अभिभाषेत यः न स्यात् त्यक्त-जीवितः ॥ 21 ॥

राक्षसीनां वचः श्रुत्वा रावणः राक्षस-ईश्वरः ।
हुत-अग्निः इव जज्वाल कोप-संवर्तित-ईक्षणः ॥ 22 ॥

तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन् अश्रु-बिन्दवः ।
दीप्ताभ्याम् इव दीपाभ्यां स-अर्चिषः स्नेह-बिन्दवः ॥ 23 ॥

आत्मनः सदृशान् शूरान् किंकरान् नाम राक्षसान् ।
व्यादिदेश महा-तेजाः निग्रह-अर्थं हनूमतः ॥ 24 ॥

तेषाम् अशीति-साहस्रं किंकराणां तरस्विनाम् ।
निर्ययुः भवनात् तस्मात् कूट-मुद्गर-पाणयः ॥ 25 ॥

महा-उदराः महा-दंष्ट्राः घोर-रूपाः महा-बलाः ।
युद्ध-अभिमनसः सर्वे हनुमत्-ग्रहण-उद्यताः ॥ 26 ॥

ते कपि-इन्द्रं समासाद्य तोरण-स्थम् अवस्थितम् ।
अभिपेतुः महा-वेगाः पतङ्गाः इव पावकम् ॥ 27 ॥

ते गदाभिः विचित्राभिः परिघैः काञ्चन-अङ्गदैः ।
आजघ्नुः वानर-श्रेष्ठं शरैः च आदित्य-सन्निभैः ॥ 28 ॥

मुद्गरैः पट्टिशैः शूलैः प्रास-तोमर-शक्तिभिः ।
परिवार्य हनूमन्तं सहसा तस्थुः अग्रतः ॥ 29 ॥

हनुमान् अपि तेजस्वी श्रीमान् पर्वत-सन्निभः ।
क्षितौ आविध्य लाङ्गूलं ननाद च महा-स्वनम् ॥ 30 ॥

सः भूत्वा सु-महा-कायः हनुमान् मारुत-आत्मजः ।
धृष्टम् आस्फोटयामास लङ्कां शब्देन पूरयन् ॥ 31 ॥

तस्य आस्फोटित-शब्देन महता स-अनुनादिना ।
पेतुः विहङ्गाः गगनात् उच्चैः च इदम् अघोषयत् ॥ 32 ॥

जयति अति-बलः रामः लक्ष्मणः च महा-बलः ।
राजा जयति सुग्रीवः राघवेण अभिपालितः ॥ 33 ॥

दासः अहं कोसल-इन्द्रस्य रामस्य अक्लिष्ट-कर्मणः ।
हनुमान् शत्रु-सैन्यानां निहन्ता मारुत-आत्मजः ॥ 34 ॥

न रावण-सहस्रं मे युद्धे प्रति-बलं भवेत् ।
शिलाभिः तु प्रहरतः पादपैः च सहस्रशः ॥ 35 ॥

अर्दयित्वा पुरीं लङ्काम् अभिवाद्य च मैथिलीम् ।
समृद्ध-अर्थः गमिष्यामि मिषतां सर्व-रक्षसाम् ॥ 36 ॥

तस्य सन्नाद-शब्देन ते अभवन् भय-शङ्किताः ।
ददृशुः च हनूमन्तं सन्ध्या-मेघम् इव उन्नतम् ॥ 37 ॥

स्वामि-सन्देश-निःशङ्काः ततः ते राक्षसाः कपिम् ।
चित्रैः प्रहरणैः भीमैः अभिपेतुः ततः ततः ॥ 38 ॥

सः तैः परिवृतः शूरैः सर्वतः सु-महा-बलः ।
आससाद अयसं भीमं परिघं तोरण-आश्रितम् ॥ 39 ॥

सः तं परिघम् आदाय जघान रजनी-चरान् ।
सः पन्नगम् इव आदाय स्फुरन्तं विनता-सुतः ॥ 40 ॥

विचचार अम्बरे वीरः परिगृह्य च मारुतिः ।
सः हत्वा राक्षसान् वीरान् किंकरान् मारुत-आत्मजः ॥ 41 ॥

युद्ध-आकाङ्क्षी पुनः वीरः तोरणं समुपाश्रितः ।
ततः तस्मात् भयात् मुक्ताः कतिचित् तत्र राक्षसाः ॥ 42 ॥

निहतान् किंकरान् सर्वान् रावणाय न्यवेदयन् ।
सः राक्षसानां निहतं महत् बलं निशम्य राजा परिवृत्त-लोचनः ।
समादिदेश अप्रतिमं पराक्रमे प्रहस्त-पुत्रं समरे सु-दुर्जयम् ॥ 43 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे द्वि-चत्वारिंशः सर्गः ॥

HOME          PREVIOUS               NEXT

சுந்தர காண்டம் – 41 - அனுமன் அசோக வனத்தை அழிக்கிறார்.

HOME          PREVIOUS               NEXT

सः च वाग्भिः प्रशस्ताभिः गमिष्यन् पूजितः तया ।
तस्मात् देशात् अपक्रम्य चिन्तयामास वानरः ॥ 1 ॥

अल्प-शेषम् इदं कार्यं दृष्टा इयम् असित-ईक्षणा ।
त्रीन् उपायान् अतिक्रम्य चतुर्थः इह विद्यते ॥ 2 ॥

न साम रक्षस्सु गुणाय कल्पते न दानम् अर्थ-उपचितेषु युज्यते ।
न भेद-साध्याः बल-दर्पिताः जनाः पराक्रमः तु एव मम इह रोचते ॥ 3 ॥

न च अस्य कार्यस्य पराक्रमात् ऋते विनिश्चयः कश्चित् इह उपपद्यते ।
हत-प्रवीराः हि रणे हि राक्षसाः कथंचित् ईयुः यत् इह अद्य मार्दवम् ॥ 4 ॥

कार्ये कर्मणि निर्दिष्टे यः बहूनि अपि साधयेत् ।
पूर्व-कार्य-अविरोधेन सः कार्यं कर्तुम् अर्हति ॥ 5 ॥

न हि एकः साधकः हेतुः स्वल्पस्य अपि इह कर्मणः ।
यः हि अर्थं बहुधा वेद सः समर्थः अर्थ-साधने ॥ 6 ॥

इह एव तावत् कृत-निश्चयः हि अहं यदि व्रजेयं प्लवग-ईश्वर-आलयम् ।
पर-आत्म-सम्मर्द-विशेष-तत्त्व-वित् ततः कृतं स्यात् मम भर्तृ-शासनम् ॥ 7 ॥

कथं नु खलु अद्य भवेत् सुख-आगतं प्रसह्य युद्धं मम राक्षसैः सह ।
तथा एव खलु आत्म-बलं च सारवत् सम्मानयेत् मां च रणे दश-आननः ॥ 8 ॥

ततः समासाद्य रणे दश-आननं स-मन्त्रि-वर्गं स-बल-प्रयायिनम् ।
हृदि स्थितं तस्य मतं बलं च वै सुखेन मत्वा अहम् इतः पुनः व्रजे ॥ 9 ॥

इदम् अस्य नृशंसस्य नन्दन-उपमम् उत्तमम् ।
वनं नेत्र-मनः-कान्तं नाना-द्रुम-लता-युतम् ॥ 10 ॥

इदं विध्वंसयिष्यामि शुष्कं वनम् इव अनलः ।
अस्मिन् भग्ने ततः कोपं करिष्यति दश-आननः ॥ 11 ॥

ततः महत् स-अश्व-महा-रथ-द्विपं बलं समादेक्ष्यति राक्षस-अधिपः ।
त्रिशूल-काल-अयस-पट्टिस-आयुधं ततः महत् युद्धम् इदं भविष्यति ॥ 12 ॥

अहं तु तैः संयति चण्ड-विक्रमैः समेत्य रक्षोभिः असह्य-विक्रमः ।
निहत्य तत् रावण-चोदितं बलं सुखं गमिष्यामि कपि-ईश्वर-आलयम् ॥ 13 ॥

ततः मारुतवत् क्रुद्धः मारुतिः भीम-विक्रमः ।
ऊरु-वेगेन महता द्रुमान् क्षेप्तुम् अथ आरभत ॥ 14 ॥

ततः तु हनूमान् वीरः बभञ्ज प्रमदा-वनम् ।
मत्त-द्विज-समाघुष्टं नाना-द्रुम-लता-युतम् ॥ 15 ॥

तत् वनं मथितैः वृक्षैः भिन्नैः च सलिल-आशयैः ।
चूर्णितैः पर्वत-अग्रैः च बभूव अप्रिय-दर्शनम् ॥ 16 ॥

नाना-शकुन्त-विरुतैः प्रभिन्नैः सलिल-आशयैः ।
ताम्रैः किसलयैः क्लान्तैः क्लान्त-द्रुम-लता-युतम् ॥ 17 ॥

न बभौ तत् वनं तत्र दाव-अनल-हतं यथा ।
व्याकुल-आवरणाः रेजुः विह्वलाः इव ताः लताः ॥ 18 ॥

लता-गृहैः चित्र-गृहैः च नाशितैः महा-उरगैः व्याल-मृगैः च निर्धुतैः ।
शिला-गृहैः उन्मथितैः तथा गृहैः प्रणष्ट-रूपं तत् अभूत् महत् वनम् ॥ 19 ॥

सा विह्वला अशोक-लता-प्रताना वन-स्थली शोक-लता-प्रताना ।
जाता दशास्य-प्रमदा-वनस्य कपेः बलात् हि प्रमदा-वनस्य ॥ 20 ॥

सः तस्य कृत्वा अर्थ-पतेः महा-कपिः महत् व्यलीकं मनसः महा-आत्मनः ।
युयुत्सुः एकः बहुभिः महा-बलैः श्रिया ज्वलन् तोरणम् आस्थितः कपिः ॥ 21 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे एक-चत्वारिंशः सर्गः ॥

HOME          PREVIOUS               NEXT

சுந்தர காண்டம் – 40 - சீதை அனுமனுக்கு நன்றி கூறி, இராமனுக்கான செய்திகளை ஒப்படைக்கிறாள்.

HOME          PREVIOUS               NEXT

श्रुत्वा तु वचनं तस्य वायु-सूनोः महा-आत्मनः ।
उवाच आत्म-हितं वाक्यं सीता सुर-सुता-उपमा ॥ 1 ॥

त्वां दृष्ट्वा प्रिय-वक्तारं संप्रहृष्यामि वानर ।
अर्ध-संजात-सस्या इव वृष्टिं प्राप्य वसुंधरा ॥ 2 ॥

यथा तं पुरुष-व्याघ्रं गात्रैः शोक-अभिकर्शितैः ।
संस्पृशेयं स-कामा अहं तथा कुरु दयां मयि ॥ 3 ॥

अभिज्ञानं च रामस्य दद्याः हरि-गण-उत्तम ।
क्षिप्ताम् इषीकां काकस्य कोपात् एक-अक्षि-शातनीम् ॥ 4 ॥

मनः-शिलायाः तिलकः गण्ड-पार्श्वे निवेशितः ।
त्वया प्रणष्टे तिलके तं किल स्मर्तुम् अर्हसि ॥ 5 ॥

सः वीर्यवान् कथं सीतां हृतां समनुमन्यसे ।
वसन्तीं रक्षसां मध्ये महेन्द्र-वरुण-उपमः ॥ 6 ॥

एषः चूडामणिः दिव्यः मया सु-परिरक्षितः ।
एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वाम् इव अनघ ॥ 7 ॥

एषः निर्यातितः श्रीमान् मया ते वारि-संभवः ।
अतः परं न शक्ष्यामि जीवितुं शोक-लालसा ॥ 8 ॥

असह्यानि च दुःखानि वाचः च हृदय-च्छिदः ।
राक्षसीनां सु-घोराणां त्वत्-कृते मर्षयामि अहम् ॥ 9 ॥

धारयिष्यामि मासं तु जीवितं शत्रु-सूदन ।
ऊर्ध्वं मासात् न जीविष्ये त्वया हीना नृप-आत्मज ॥ 10 ॥

घोरः राक्षस-राजः अयं दृष्टिः च न सुखा मयि ।
त्वां च श्रुत्वा विपद्यन्तं न जीवेयम् अहं क्षणम् ॥ 11 ॥

वैदेह्याः वचनं श्रुत्वा करुणं स-अश्रु-भाषितम् ।
अथ अब्रवीत् महा-तेजाः हनूमान् मारुत-आत्मजः ॥ 12 ॥

त्वत्-शोक-विमुखः रामः देवि सत्येन ते शपे ।
रामे दुःख-अभिभूते तु लक्ष्मणः परितप्यते ॥ 13 ॥

कथंचित् भवती दृष्टा न कालः परिशोचितुम् ।
इमं मुहूर्तं दुःखानाम् अन्तं द्रक्ष्यसि भामिनि ॥ 14 ॥

तौ उभौ पुरुष-व्याघ्रौ राज-पुत्रौ अरि-दमौ ।
त्वत्-दर्शन-कृत-उत्साहौ लङ्कां भस्मी-करिष्यतः ॥ 15 ॥

हत्वा च समरे क्रूरं रावणं सह-बान्धवम् ।
राघवौ त्वां विशाल-अक्षि स्वां पुरीं प्रापयिष्यतः ॥ 16 ॥

यत् तु रामः विजानीयात् अभिज्ञानम् अनिन्दिते ।
प्रीति-संजननं तस्य भूयः त्वं दातुम् अर्हसि ॥ 17 ॥

सा अब्रवीत् दत्तम् एव इति मया अभिज्ञानम् उत्तमम् ।
एतत् एव हि रामस्य दृष्ट्वा मत्-केश-भूषणम् ॥ 18 ॥

श्रद्धेयं हनुमन् वाक्यं तव वीर भविष्यति ।
सः तं मणि-वरं गृहीत्वा श्रीमान् प्लवग-सत्तमः ॥ 19 ॥

प्रणम्य शिरसा देवीं गमनाय उपचक्रमे ।
तम् उत्पात-कृत-उत्साहम् अवेक्ष्य हरि-पुङ्गवम् ॥ 20 ॥

वर्धमानं महा-वेगम् उवाच जनक-आत्मजा ।
अश्रु-पूर्ण-मुखी दीना बाष्प-गद्गदया गिरा ॥ 21 ॥

हनुमन् सिंह-संकाशौ भ्रातरौ राम-लक्ष्मणौ ।
सुग्रीवं च सह-अमात्यं सर्वान् ब्रूयाः हि अनामयम् ॥ 22 ॥

यथा च सः महा-बाहुः मां तारयति राघवः ।
अस्मात् दुःख-अम्बु-सम्रोधात् त्वं समाधातुम् अर्हसि ॥ 23 ॥

इमं च तीव्रं मम शोक-वेगं रक्षोभिः एभिः परिभर्त्सनं च ।
ब्रूयाः तु रामस्य गतः समीपं शिवः च ते अध्वा अस्तु हरि-प्रवीर ॥ 24 ॥

सः राज-पुत्र्या अप्रतिवेदित-अर्थः कपिः कृत-अर्थः परिहृष्ट-चेताः ।
अल्प-अवशेषं प्रसमीक्ष्य कार्यं दिशं हि उदीचीं मनसा जगाम ॥ 25 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे चत्वारिंशः सर्गः ॥ 

HOME          PREVIOUS               NEXT

சுந்தர காண்டம் – 39 - இராமன், இலட்சுமணன் மற்றும் வானரர்கள் விரைவில் வந்து இலங்கையை அழித்து தன்னை மீட்பார்கள் என்று அனுமன் உறுதியளிக்கிறார்.

HOME          PREVIOUS               NEXT

मणिं दत्त्वा ततः सीता हनूमन्तम् अथ अब्रवीत् ।
अभिज्ञानम् अभिज्ञातम् एतत् रामस्य तत्त्वतः ॥ 1 ॥

मणिं तु दृष्ट्वा रामः वै त्रयाणां संस्मरिष्यति ।
वीरः जनन्याः मम च राज्ञः दशरथस्य च ॥ 2 ॥

सः भूयः त्वं समुत्साहे चोदितः हरि-सत्तम ।
अस्मिन् कार्य-समारम्भे प्रचिन्तय यत् उत्तरम् ॥ 3 ॥

त्वम् अस्मिन् कार्य-निर्योगे प्रमाणं हरि-सत्तम ।
हनुमन् यत्नम् आस्थाय दुःख-क्षय-करः भव ॥ 4 ॥

तस्य चिन्तयतः यत्नः दुःख-क्षय-करः भवेत् ।
सः तथा इति प्रतिज्ञाय मारुतिः भीम-विक्रमः ॥ 5 ॥

शिरसा वन्द्य वैदेहीं गमनाय उपचक्रमे ।
ज्ञात्वा संप्रस्थितं देवी वानरं मारुत-आत्मजम् ॥ 6 ॥

बाष्प-गद्गदया वाचा मैथिली वाक्यम् अब्रवीत् ।
कुशलं हनुमन् ब्रूयाः सहितौ राम-लक्ष्मणौ ॥ 7 ॥

सुग्रीवं च सह-अमात्यं वृद्धान् सर्वान् च वानरान् ।
ब्रूयाः त्वं वानर-श्रेष्ठ कुशलं धर्म-संहितम् ॥ 8 ॥

यथा सः च महा-बाहुः मां तारयति राघवः ।
अस्मात् दुःख-अम्बु-संरोधात् त्वं समाधातुम् अर्हसि ॥ 9 ॥

जीवन्तीम् मां यथा रामः संभावयति कीर्तिमान् ।
तत् तथा हनुमन् वाच्यं वाचा धर्मम् अवाप्नुहि ॥ 10 ॥

नित्यम् उत्साह-युक्ताः च वाचः श्रुत्वा त्वया ईरिताः ।
वर्धिष्यते दाशरथेः पौरुषं मद्-अवाप्तये ॥ 11 ॥

मत्-सन्देश-युताः वाचः त्वत्तः श्रुत्वा च राघवः ।
पराक्रम-विधिं वीरः विधिवत् संविधास्यति ॥ 12 ॥

सीतायाः वचनं श्रुत्वा हनूमान् मारुत-आत्मजः ।
शिरसि अञ्जलिम् आधाय वाक्यम् उत्तरम् अब्रवीत् ॥ 13 ॥

क्षिप्रम् एष्यति काकुत्स्थः हरि-ऋक्ष-प्रवरैः वृतः ।
यः ते युधि विजित्य अरीन् शोकं व्यपनयिष्यति ॥ 14 ॥

न हि पश्यामि मर्त्येषु न असुरेषु सुरेषु वा ।
यः तस्य क्षिपतः बाणान् स्थातुम् उत्सहते अग्रतः ॥ 15 ॥

अपि अर्कम् अपि पर्जन्यम् अपि वैवस्वतं यमम् ।
सः हि सोढुं रणे शक्तः तव हेतोः विशेषतः ॥ 16 ॥

सः हि सागर-पर्यन्तां महीम् शासितुम् ईहति ।
त्वत्-निमित्तः हि रामस्य जयः जनक-नन्दिनि ॥ 17 ॥

तस्य तत् वचनं श्रुत्वा सम्यक् सत्यं सुभाषितम् ।
जानकी बहु मेने अथ वचनं च इदम् अब्रवीत् ॥ 18 ॥

ततः तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।
भर्तृ-स्नेह-अन्वितं वाक्यं सौहार्दात् अनुमन्यत ॥ 19 ॥

यदि वा मन्यसे वीर वस एक-अहम् अरि-दम ।
कस्मिन् चित् संवृते देशे विश्रान्तः श्वः गमिष्यसि ॥ 20 ॥

मम चेत् अल्प-भाग्यायाः सान्निध्यात् तव वानर ।
अस्य शोकस्य महतः मुहूर्तं मोक्षणं भवेत् ॥ 21 ॥

गते हि हरि-शार्दूल पुनः आगमनाय तु ।
प्राणानाम् अपि सन्देहः मम स्यात् न अत्र संशयः ॥ 22 ॥

तव अदर्शन-जः शोकः भूयः मां परितापयेत् ।
दुःखात् दुःख-परामृष्टां दीपयन् इव वानर ॥ 23 ॥

अयं च वीर सन्देहः तिष्ठति इव मम अग्रतः ।
सु-महान् त्वत्-सहायेषु हरि-ऋक्षेषु हरि-ईश्वर ॥ 24 ॥

कथं नु खलु दुष्पारं तरिष्यन्ति महा-उदधिम् ।
तानि हरि-ऋक्ष-सैन्यानि तौ वा नर-वर-आत्मजौ ॥ 25 ॥

त्रयाणाम् एव भूतानां सागरस्य अस्य लङ्घने ।
शक्तिः स्यात् वैनतेयस्य तव वा मारुतस्य वा ॥ 26 ॥

तत् अस्मिन् कार्य-निर्योगे वीर एवं दुरतिक्रमे ।
किं पश्यसि समाधानं त्वं हि कार्य-विदां वरः ॥ 27 ॥

कामम् अस्य त्वम् एव एकः कार्यस्य परिसाधने ।
पर्याप्तः पर-वीर-घ्न यशस्यः ते फल-उदयः ॥ 28 ॥

बलैः समग्रैः यदि मां रावणं जित्य संयुगे ।
विजयी स्व-पुरं यायात् तत् तस्य सदृशं भवेत् ॥ 29 ॥

शरैः तु सङ्कुलां कृत्वा लङ्कां पर-बल-अर्दनः ।
मां नयेत् यदि काकुत्स्थः तत् तस्य सदृशं भवेत् ॥ 30 ॥

तत् यथा तस्य विक्रान्तम् अनुरूपं महा-आत्मनः ।
भवेत् आहव-शूरस्य तथा त्वम् उपपादय ॥ 31 ॥

तत्-अर्थ-उपहितं वाक्यं प्रश्रितं हेतु-संहितम् ।
निशम्य हनूमान् शेषं वाक्यम् उत्तरम् अब्रवीत् ॥ 32 ॥

देवि हरि-ऋक्ष-सैन्यानाम् ईश्वरः प्लवतां वरः ।
सुग्रीवः सत्त्व-संपन्नः तव अर्थे कृत-निश्चयः ॥ 33 ॥

सः वानर-सहस्राणां कोटीभिः अभिसंवृतः ।
क्षिप्रम् एष्यति वैदेहि राक्षसानां निबर्हणः ॥ 34 ॥

तस्य विक्रम-संपन्नाः सत्त्ववन्तः महा-बलाः ।
मनः-सङ्कल्प-संपाताः निदेशे हरयः स्थिताः ॥ 35 ॥

येषां न उपरि न अधस्तात् न तिर्यक् सज्जते गतिः ।
न च कर्मसु सीदन्ति महत्सु अमित-तेजसः ॥ 36 ॥

असकृत् तैः महा-उत्साहैः स-सागर-धरा-अधरा ।
प्रदक्षिणी-कृता भूमिः वायु-मार्ग-अनुसारिभिः ॥ 37 ॥

मत्-विशिष्टाः च तुल्याः च सन्ति तत्र वन-ओकसः ।
मत्तः प्रत्यवरः कश्चित् न अस्ति सुग्रीव-सन्निधौ ॥ 38 ॥

अहं तावत् इह प्राप्तः किं पुनः ते महा-बलाः ।
न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हि इतरे जनाः ॥ 39 ॥

तत् अलं परितापेन देवि शोकः व्यपैतु ते ।
एक-उत्पातेन ते लङ्काम् एष्यन्ति हरि-यूथपाः ॥ 40 ॥

मम पृष्ठ-गतौ तौ च चन्द्र-सूर्यौ इव उदितौ ।
त्वत्-सकाशं महा-सत्त्वौ नृ-सिंहौ आगमिष्यतः ॥ 41 ॥

ततः वीरौ नर-वरौ सहितौ राम-लक्ष्मणौ ।
आगम्य नगरीं लङ्कां सायकैः विधमिष्यतः ॥ 42 ॥

स-गणं रावणं हत्वा राघवः रघु-नन्दनः ।
त्वाम् आदाय वर-आरोहे स्व-पुरीं प्रतियास्यति ॥ 43 ॥

तत् आश्वसिहि भद्रं ते भव त्वं काल-काङ्क्षिणी ।
न चिरात् द्रक्ष्यसे रामं प्रज्वलन्तम् इव अनलम् ॥ 44 ॥

निहते राक्षस-इन्द्रे अस्मिन् स-पुत्र-अमात्य-बान्धवे ।
त्वं समेष्यसि रामेण शशाङ्केन इव रोहिणी ॥ 45 ॥

क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि ।
रावणं च एव रामेण निहतं द्रक्ष्यसे अचिरात् ॥ 46 ॥

एवम् आश्वास्य वैदेहीं हनूमान् मारुत-आत्मजः ।
गमनाय मतिं कृत्वा वैदेहीं पुनः अब्रवीत् ॥ 47 ॥

तम् अरि-घ्नं कृत-आत्मानं क्षिप्रं द्रक्ष्यसि राघवम् ।
लक्ष्मणं च धनुः-पाणिं लङ्का-द्वारम् उपागतम् ॥ 48 ॥

नख-दंष्ट्रा-आयुधान् वीरान् सिंह-शार्दूल-विक्रमान् ।
वानरान् वारण-इन्द्र-आभान् क्षिप्रं द्रक्ष्यसि संगतान् ॥ 49 ॥

शैल-अम्बुद-निकाशानां लङ्का-मलय-सानुषु ।
नर्दतां कपि-मुख्यानाम् आर्ये यूथानि अनेकशः ॥ 50 ॥

सः तु मर्मणि घोरेण ताडितः मन्मथ-इषुणा ।
न शर्म लभते रामः सिंह-अर्धितः इव द्विपः ॥ 51 ॥

मा रुदः देवि शोकेन मा भूत् ते मनसः अप्रियम् ।
शची इव पत्या शक्रेण भर्त्रा नाथ-वती हि असि ॥ 52 ॥

रामात् विशिष्टः कः अन्यः अस्ति कश्चित् सौमित्रिणा समः ।
अग्नि-मारुत-कल्पौ तौ भ्रातरौ तव संश्रयौ ॥ 53 ॥

न अस्मिन् चिरं वत्स्यसि देवि देशे रक्षः-गणैः अध्यु्षिते अति-रौद्रे ।
न ते चिरात् आगमनं प्रियस्य क्षमस्व मत्-सङ्गम-काल-मात्रम् ॥ 54 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे एकोन-चत्वारिंशः सर्गः ॥

HOME          PREVIOUS               NEXT

சுந்தர காண்டம் – 38 - காகாசுரன் சம்பவத்தைச் சீதை அனுமனிடம் கூறி, சூடாமணியை அவரிடம் கொடுக்கிறாள்.

HOME          PREVIOUS               NEXT

ततः सः कपि-शार्दूलः तेन वाक्येन तोषितः ।
सीताम् उवाच तत् श्रुत्वा वाक्यं वाक्य-विशारदः ॥ 1 ॥

युक्त-रूपं त्वया देवि भाषितं शुभ-दर्शने ।
सदृशं स्त्री-स्वभावस्य साध्वीनां विनयस्य च ॥ 2 ॥

स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम् ।
माम् अधिष्ठाय विस्तीर्णं शत-योजनम् आयतम् ॥ 3 ॥

द्वितीयं कारणं यत् च ब्रवीषि विनय-अन्विते ।
रामात् अन्यस्य न अर्हामि संस्पर्शम् इति जानकि ॥ 4 ॥

एतत् ते सदृशं देवि पत्न्याः तस्य महा-आत्मनः ।
का हि अन्या त्वाम् ऋते देवि ब्रूयात् वचनम् ईदृशम् ॥ 5 ॥

श्रोष्यते च एव काकुत्स्थः सर्वं निरवशेषतः ।
चेष्टितं यत् त्वया देवि भाषितं मम च अग्रतः ॥ 6 ॥

कारणैः बहुभिः देवि राम-प्रिय-चिकीर्षया ।
स्नेह-प्रस्कन्न-मनसा मया एतत् समुदीरितम् ॥ 7 ॥

लङ्कायाः दुष्प्रवेशत्वात् दुस्तरत्वात् महा-उदधेः ।
सामर्थ्यात् आत्मनः च एव मया एतत् समुदीरितम् ॥ 8 ॥

इच्छामि त्वां समानेतुं अद्य एव रघु-बन्धुना ।
गुरु-स्नेहेन भक्त्या च न अन्यथा एतत् उदाहृतम् ॥ 9 ॥

यदि न उत्सहसे यातुं मया सार्धम् अनिन्दिते ।
अभिज्ञानं प्रयच्छ त्वं जानीयात् राघवः हि यत् ॥ 10 ॥

एवम् उक्ता हनुमता सीता सुर-सुता-उपमा ।
उवाच वचनं मन्दं बाष्प-प्रग्रथित-अक्षरम् ॥ 11 ॥

इदं श्रेष्ठम् अभिज्ञानं ब्रूयाः त्वं तु मम प्रियम् ।
शैलस्य चित्र-कूटस्य पादे पूर्व-उत्तरे पुरा ॥ 12 ॥

तापस-आश्रम-वासिन्याः प्राज्य-मूल-फल-उदके ।
तस्मिन् सिद्ध-आश्रमे देशे मन्दाकिन्याः विदूरतः ॥ 13 ॥

तस्य उपवन-षण्डेषु नाना-पुष्प-सुगन्धिषु ।
विहृत्य सलिले क्लिन्ना मम अङ्के समुपाविशम् ॥ 14 ॥

ततः मांस-समायुक्तः वायसः पर्यतुंडयत् ।
तम् अहं लोष्टम् उद्यम्य वारयामि स्म वायसम् ॥ 15 ॥

दारयन् सः च मां काकः तत् त्र एव परिलीयते ।
न च अपि उपारमत् मांसात् भक्ष-अर्थी बलि-भोजनः ॥ 16 ॥

उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणि ।
स्रस्यमाने च वसने ततः दृष्टा त्वया हि अहम् ॥ 17 ॥

त्वया अपहसिता च अहं क्रुद्धा संलज्जिता तदा ।
भक्ष-गृध्नेन काकेन दारिता त्वाम् उपागता ॥ 18 ॥

आसीनस्य च ते श्रान्ता पुनः उत्सङ्गम् आविशम् ।
क्रुध्यन्ती च प्रहृष्टेन त्वया अहं परिसान्त्विता ॥ 19 ॥

बाष्प-पूर्ण-मुखी मन्दं चक्षुषी परिमार्जती ।
लक्षिता अहं त्वया नाथ वायसेन प्रकोपिता ॥ 20 ॥

परिश्रमात् प्रसुप्ता च राघव-अङ्के अपि अहं चिरम् ।
पर्यायेण प्रसुप्तः च मम अङ्के भरत-अग्रजः ॥ 21 ॥

सः तत्र पुनः एव अथ वायसः समुपागमत् ।
ततः सुप्त-प्रबुद्धां मां रामस्य अङ्कात् समुत्थिताम् ॥ 22 ॥

वायसः सहसा आगम्य विददार स्तन-अन्तरे ।
पुनः पुनः अथ उत्पत्य विददार सः मां भृशम् ॥ 23 ॥

ततः समुक्षितः रामः मुक्तैः शोणित-बिन्दुभिः ।
वायसेन ततः तेन बलवत् क्लिश्यमानया ॥ 24 ॥

सः मया बोधितः श्रीमान् सुख-सुप्तः परन्तपः ।
सः मां दृष्ट्वा महा-बाहुः वितुन्नां स्तनयोः तदा ॥ 25 ॥

आशी-विषः इव क्रुद्धः श्वसन् वाक्यम् अभाषत ।
केन ते नाग-नास-ऊरु विक्षतं वै स्तन-अन्तरम् ॥ 26 ॥

कः क्रीडति स-रोषेण पञ्च-वक्त्रेण भोगिना ।
वीक्षमाणः ततः तं वै वायसं समुदैक्षत ॥ 27 ॥

नखैः स-रुधिरैः तीक्ष्णैः माम् एव अभिमुखं स्थितम् ।
पुत्रः किल सः शक्रस्य वायसः पततां वरः ॥ 28 ॥

धर-अन्तर-गतः शीघ्रं पवनस्य गतौ समः ।
ततः तस्मिन् महा-बाहुः कोप-संवर्तित-ईक्षणः ॥ 29 ॥

वायसे कृतवान् क्रूरां मतिं मतिमतां वरः ।
सः दर्भं संस्तरात् गृहीत्वा ब्राह्मेण अस्त्रेण योजयत् ॥ 30 ॥

सः दीप्तः इव काल-अग्निः जज्वाल अभिमुखः द्विजम् ।
सः तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति ॥ 31 ॥

ततः तं वायसं दर्भः अम्बरे अनुजगाम ह ।
अनुसृष्टः तदा काकः जगाम विविधां गतिम् ॥ 32 ॥

लोक-कामः इमं लोकं सर्वं वै विचचार ह ।
सः पित्रा च परित्यक्तः सुरैः च सम-महर्षिभिः ॥ 33 ॥

त्रीन् लोकान् संपरिक्रम्य तम् एव शरणं गतः ।
सः तं निपतितं भूमौ शरण्यः शरण-आगतम् ॥ 34 ॥

वध-अर्हम् अपि काकुत्स्थः कृपया पर्यपालयत् ।
परिद्यूनं विषण्णं च सः तम् आयान्तम् अब्रवीत् ॥ 35 ॥

मोघं कर्तुं न शक्यं तु ब्राह्मम् अस्त्रं तत् उच्यताम् ।
हिनस्तु दक्षिण-अक्षि त्वत्-शरः इति अथ सः अब्रवीत् ॥ 36 ॥

ततः तस्य अक्षि काकस्य हिनस्ति स्म सः दक्षिणम् ।
दत्त्वा सः दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः ॥ 37 ॥

सः रामाय नमस्कृत्य राज्ञे दशरथाय च ।
विसृष्टः तेन वीरेण प्रतिपेदे स्वम् आलयम् ॥ 38 ॥

मत्-कृते काक-मात्रे तु ब्रह्म-अस्त्रं समुदीरितम् ।
कस्मात् यः मां हरेत् त्वत्तः क्षमसे तं मही-पते ॥ 39 ॥

सः कुरुष्व महा-उत्साहः कृपां मयि नर-ऋषभ ।
त्वया नाथ-वती नाथ हि अनाथा इव दृश्यते ॥ 40 ॥

आनृशंस्यं परः धर्मः तव तत् च एव मया श्रुतः ।
जानामि त्वां महा-वीर्यं महा-उत्साहं महा-बलम् ॥ 41 ॥

अपार-पारम् अक्षोभ्यं गाम्भीर्यात् सागर-उपमम् ।
भर्तारं स-समुद्रायाः धरण्याः वासव-उपमम् ॥ 42 ॥

एवम् अस्त्र-विदां श्रेष्ठः सत्यवान् बलवान् अपि ।
किमर्थम् अस्त्रं रक्षस्सु न योजयसि राघव ॥ 43 ॥

न नागाः न अपि गन्धर्वाः न असुराः न मरुत्-गणाः ।
रामस्य समरे वेगं शक्ताः प्रतिसमाधितुम् ॥ 44 ॥

तस्य वीर्य-वतः कश्चित् यदि अस्ति मयि संभ्रमः ।
किमर्थं न शरैः तीक्ष्णैः क्षयं नयति राक्षसान् ॥ 45 ॥

भ्रातुः आदेशम् आदाय लक्ष्मणः वा परन्तपः ।
कस्य हेतोः न मां वीरः परित्राति महा-बलः ॥ 46 ॥

यदि तौ पुरुष-व्याघ्रौ वायु-अग्नि-सम-तेजसौ ।
सुराणाम् अपि दुर्धर्षौ किमर्थं माम् उपेक्षतः ॥ 47 ॥

मम एव दुष्कृतं किञ्चित् महत् अस्ति न संशयः ।
समर्थौ अपि तौ यत् मां न अवेक्षेते परन्तपौ ॥ 48 ॥

वैदेह्याः वचनं श्रुत्वा करुणं स-अश्रु-भाषितम् ।
अथ अब्रवीत् महा-तेजाः हनूमान् मारुत-आत्मजः ॥ 49 ॥

त्वत्-शोक-विमुखः रामः देवि सत्येन ते शपे ।
रामे दुःख-अभिपन्ने च लक्ष्मणः परितप्यते ॥ 50 ॥

कथंचित् भवती दृष्टा न कालः परिदेवितुम् ।
इमं मुहूर्तं दुःखानां द्रक्ष्यसि अन्तम् अनिन्दिते ॥ 51 ॥

तौ उभौ पुरुष-व्याघ्रौ राज-पुत्रौ महा-बलौ ।
त्वत्-दर्शन-कृत-उत्साहौ लङ्कां भस्मी-करिष्यतः ॥ 52 ॥

हत्वा च समरे क्रूरं रावणं सह-बान्धवम् ।
राघवः त्वां विशाल-अक्षि नेष्यति स्वां पुरीं प्रति ॥ 53 ॥

ब्रूहि यत् राघवः वाच्यः लक्ष्मणः च महा-बलः ।
सुग्रीवः वा अपि तेजस्वी हरयः अपि समागताः ॥ 54 ॥

इति उक्तवति तस्मिन् तु सीता सुर-सुता-उपमा ।
उवाच शोक-संतप्ता हनूमन्तं प्लवङ्गमम् ॥ 55 ॥

कौसल्या लोक-भर्तारं सुषुवे यं मनस्विनी ।
तं मम अर्थे सुखं पृच्छ शिरसा च अभिवादय ॥ 56 ॥

स्रजः च सर्व-रत्नानि प्रियाः याः च वर-अङ्गनाः ।
ऐश्वर्यं च विशालायां पृथिव्याम् अपि दुर्लभम् ॥ 57 ॥

पितरं मातरं च एव सम्मान्य अभिप्रसाद्य च ।
अनुप्रव्रजितः रामं सुमित्रा येन सुप्रजाः ॥ 58 ॥

आनुकूल्येन धर्म-आत्मा त्यक्त्वा सुखम् अनुत्तमम् ।
अनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने ॥ 59 ॥

सिंह-स्कन्धः महा-बाहुः मनस्वी प्रिय-दर्शनः ।
पितृवत् वर्तते रामे मातृवत् मां समाचरन् ॥ 60 ॥

ह्रियमाणां तदा वीरः न तु मां वेद लक्ष्मणः ।
वृद्ध-उपसेवी लक्ष्मीवान् शक्तः न बहु-भाषिता ॥ 61 ॥

राज-पुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे ।
मम प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः ॥ 62 ॥

नियुक्तः धुरि यस्यां तु ताम् उद्वहति वीर्यवान् ।
यं दृष्ट्वा राघवः न एव वृत्तम् आर्यम् अनुस्मरेत् ॥ 63 ॥

सः मम अर्थाय कुशलं वक्तव्यः वचनात् मम ।
मृदुः नित्यं शुचिः दक्षः प्रियः रामस्य लक्ष्मणः ॥ 64 ॥

यथा हि वानर-श्रेष्ठ दुःख-क्षय-करः भवेत् ।
त्वम् अस्मिन् कार्य-निर्योगे प्रमाणं हरि-सत्तम ॥ 65 ॥

राघवः त्वत्-समारम्भात् मयि यत्न-परः भवेत् ।
इदं ब्रूयाः च मे नाथं शूरं रामं पुनः पुनः ॥ 66 ॥

जीवितं धारयिष्यामि मासं दशरथ-आत्मज ।
ऊर्ध्वं मासात् न जीवेयं सत्येन अहं ब्रवीमि ते ॥ 67 ॥

रावणेन उपरुद्धां मां निकृत्य पाप-कर्मणा ।
त्रातुम् अर्हसि वीर त्वं पातालात् इव कौशिकीम् ॥ 68 ॥

ततः वस्त्र-गतं मुक्त्वा दिव्यं चूडामणिं शुभम् ।
प्रदेयः राघवाय इति सीता हनुमते ददौ ॥ 69 ॥

प्रतिगृह्य ततः वीरः मणि-रत्नम् अनुत्तमम् ।
अङ्गुल्या योजयामास न हि अस्य प्राभवत् भुजः ॥ 70 ॥

मणि-रत्नं कपि-वरः प्रतिगृह्य अभिवाद्य च ।
सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः ॥ 71 ॥

हर्षेण महता युक्तः सीता-दर्शन-जेन सः ।
हृदयेन गतः रामं शरीरेण तु विष्ठितः ॥ 72 ॥

मणि-वरम् उपगृह्य तं महा-अर्हं जनक-नृप-आत्मजया धृतं प्रभावात् ।
गिरिः इव पवन-अवधूत-मुक्तः सुखित-मनाः प्रतिसंक्रमं प्रपेदे ॥ 73 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे अष्ट-त्रिंशः सर्गः ॥ 73 ॥

HOME          PREVIOUS               NEXT

சுந்தர காண்டம் – 37 - தன்னைத் தோளில் ஏற்றி இராமனிடம் அழைத்துச் செல்வதாக அனுமன் கூறுகிறார்; ஆனால், தன்னை மீட்பது இராமனின் உரிமை என்று சீதை மறுக்கிறாள்

HOME          PREVIOUS               NEXT

सीता तत् वचनं श्रुत्वा पूर्ण-चन्द्र-निभ-आनना ।
हनूमन्तम् उवाच इदं धर्म-अर्थ-सहितं वचः ॥ 1 ॥

अमृतं विष-संसृष्टं त्वया वानर भाषितम् ।
यत् च न अन्य-मनाः रामः यत् च शोक-परायणः ॥ 2 ॥

ऐश्वर्ये वा सु-विस्तीर्णे व्यसने वा सु-दारुणे ।
रज्जुः इव पुरुषं बद्ध्वा कृत-अन्तः परिकर्षति ॥ 3 ॥

विधिः नूनम् असंहार्यः प्राणिनां प्लवग-उत्तम ।
सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ॥ 4 ॥

शोकस्य अस्य कदा पारं राघवः अधिगमिष्यति ।
प्लवमानः परिश्रान्तः हत-नौः सागरे यथा ॥ 5 ॥

राक्षसानां वधं कृत्वा सूदयित्वा च रावणम् ।
लङ्काम् उन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः ॥ 6 ॥

सः वाच्यः सन्त्वरस्व इति यावत् एव न पूर्यते ।
अयं संवत्सरः कालः तावत् हि मम जीवितम् ॥ 7 ॥

वर्तते दशमः मासः द्वौ तु शेषौ प्लवङ्गम ।
रावणेन नृशंसेन समयः यः कृतः मम ॥ 8 ॥

विभीषणेन च भ्रात्रा मम निर्यातनं प्रति ।
अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम् ॥ 9 ॥

मम प्रतिप्रदानं हि रावणस्य न रोचते ।
रावणं मार्गते संख्ये मृत्युः काल-वशं गतम् ॥ 10 ॥

ज्येष्ठा कन्या नला नाम विभीषण-सुता कपे ।
तया मम इदम् आख्यातं मात्रा प्रहितया स्वयम् ॥ 11 ॥

असंशयं हरि-श्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः ।
अन्तर-आत्मा च मे शुद्धः तस्मिन् च बहवः गुणाः ॥ 12 ॥

उत्साहः पौरुषं सत्त्वम् आनृशंस्यं कृतज्ञता ।
विक्रमः च प्रभावः च सन्ति वानर राघवे ॥ 13 ॥

चतुर्दश-सहस्राणि राक्षसानां जघान यः ।
जनस्थाने विना भ्रात्रा शत्रुः कः तस्य न उद्विजेत् ॥ 14 ॥

न सः शक्यः तुलयितुं व्यसनैः पुरुष-ऋषभः ।
अहं तस्य प्रभाव-ज्ञा शक्रस्य इव पुलोमजा ॥ 15 ॥

शर-जाल-अंशुमान् शूरः कपे राम-दिवाकरः ।
शत्रु-रक्षः-मयं तोयम् उपशोषं नयिष्यति ॥ 16 ॥

इति संजल्पमानां तां राम-अर्थे शोक-कर्शिताम् ।
आश्रु-संपूर्ण-नयनाम् उवाच वचनं कपिः ॥ 17 ॥

श्रुत्वा एव तु वचः मह्यं क्षिप्रम् एष्यति राघवः ।
चमूं प्रकर्षन् महतीं हरि-ऋक्ष-गण-सङ्कुलाम् ॥ 18 ॥

अथवा मोचयिष्यामि त्वाम् अद्य एव वर-आनने ।
अस्मात् दुःखात् उपारोह मम पृष्ठम् अनिन्दिते ॥ 19 ॥

त्वां हि पृष्ठ-गतां कृत्वा संतरिष्यामि सागरम् ।
शक्तिः अस्ति हि मे वोढुं लङ्काम् अपि स-रावणाम् ॥ 20 ॥

अहं प्रस्रवण-स्थाय राघवाय अद्य मैथिलि ।
प्रापयिष्यामि शक्राय हव्यं हुतम् इव अनलः ॥ 21 ॥

द्रक्ष्यसि अद्य एव वैदेहि राघवं सह-लक्ष्मणम् ।
व्यवसाय-समायुक्तं विष्णुं दैत्य-वधे यथा ॥ 22 ॥

त्वत्-दर्शन-कृत-उत्साहम् आश्रम-स्थं महा-बलम् ।
पुरन्दरम् इव आसीनं नाग-राजस्य मूर्धनि ॥ 23 ॥

पृष्ठम् आरोह मे देवि मा विकाङ्क्षस्व शोभने ।
योगम् अन्विच्छ रामेण शशाङ्केन इव रोहिणी ॥ 24 ॥

कथयन्ती इव चन्द्रेण सूर्येण च महा-अर्चिषा ।
मत्-पृष्ठम् अधिरुह्य त्वं तर आकाश-महा-अर्णवौ ॥ 25 ॥

न हि मे संप्रयातस्य त्वाम् इतः नयतः अङ्गने ।
अनुगन्तुं गतिं शक्ताः सर्वे लङ्का-निवासिनः ॥ 26 ॥

यथा एव अहम् इह प्राप्तः तथा एव अहम् असंशयः ।
यास्यामि पश्य वैदेहि त्वाम् उद्यम्य विहायसम् ॥ 27 ॥

मैथिली तु हरि-श्रेष्ठात् श्रुत्वा वचनम् अद्भुतम् ।
हर्ष-विस्मित-सर्व-अङ्गी हनूमन्तम् अथ अब्रवीत् ॥ 28 ॥

हनुमन् दूरम् अध्वानं कथं मां वोढुम् इच्छसि ।
तत् एव खलु ते मन्ये कपित्वं हरि-यूथप ॥ 29 ॥

कथं वा अल्प-शरीरः त्वं माम् इतः नेतुम् इच्छसि ।
सकाशं मानवेन्द्रस्य भर्तुः मे प्लवग-ऋषभ ॥ 30 ॥

सीतायाः वचनं श्रुत्वा हनूमान् मारुत-आत्मजः ।
चिन्तयामास लक्ष्मीवान् नवं परिभवं कृतम् ॥ 31 ॥

न मे जानाति सत्त्वं वा प्रभावं वा असित-ईक्षणा ।
तस्मात् पश्यतु वैदेही यत्-रूपं मम कामतः ॥ 32 ॥

इति सञ्चिन्त्य हनुमान् तदा प्लवग-सत्तमः ।
दर्शयामास वैदेह्याः स्वरूपम् अरि-मर्दनः ॥ 33 ॥

सः तस्मात् पादपात् धीमान् आप्लुत्य प्लवग-ऋषभः ।
ततः वर्धितुम् आरभे सीता-प्रत्यय-कारणात् ॥ 34 ॥

मेरु-मन्दर-सङ्काशः बभौ दीप्त-अनल-प्रभः ।
अग्रतः व्यवतस्थे च सीतायाः वानर-उत्तमः ॥ 35 ॥

हरिः पर्वत-सङ्काशः ताम्र-वक्त्रः महा-बलः ।
वज्र-दंष्ट्र-नखः भीमः वैदेहीम् इदम् अब्रवीत् ॥ 36 ॥

स-पर्वत-वन-उद्देशां स-अट्ट-प्राकार-तोरणाम् ।
लङ्काम् इमां सनाथां वा नयितुं शक्तिः अस्ति मे ॥ 37 ॥

तत् अवस्थाप्यतां बुद्धिः अलं देवि विकाङ्क्षया ।
विशोकं कुरु वैदेहि राघवं सह-लक्ष्मणम् ॥ 38 ॥

तं दृष्ट्वा भीम-सङ्काशम् उवाच जनक-आत्मजा ।
पद्म-पत्र-विशाल-अक्षी मारुतस्य औरसं सुतम् ॥ 39 ॥

तव सत्त्वं बलं च एव विजानामि महा-कपे ।
वायोः इव गतिं च एव तेजः च अग्नेः इव अद्भुतम् ॥ 40 ॥

प्राकृतः अन्यः कथं च इमां भूमिम् आगन्तुम् अर्हति ।
उदधेः अप्रमेयस्य पारं वानर-पुङ्गव ॥ 41 ॥

जानामि गमने शक्तिं नयने च अपि ते मम ।
अवश्यं संप्रधार्य आशु कार्य-सिद्धिः महा-आत्मनः ॥ 42 ॥

अयुक्तं तु कपि-श्रेष्ठ मम गन्तुं त्वया अनघ ।
वायु-वेग-सवेगस्य वेगः मां मोहयेत् तव ॥ 43 ॥

अहम् आकाशम् आपन्ना हि उपरि-उपरि सागरम् ।
प्रपतेयं हि ते पृष्ठात् भयात् वेगेन गच्छतः ॥ 44 ॥

पतिता सागरे च अहं तिमि-नक्र-झष-आकुले ।
भवेयम् आशु विवशा यादसाम् अन्नम् उत्तमम् ॥ 45 ॥

न च शक्ष्ये त्वया सार्धं गन्तुं शत्रु-विनाशन ।
कलत्र-वति सन्देहः त्वयि अपि स्यात् असंशयः ॥ 46 ॥

ह्रियमाणां तु मां दृष्ट्वा राक्षसाः भीम-विक्रमाः ।
अनुगच्छेयुः आदिष्टाः रावणेन दुरात्मना ॥ 47 ॥

तैः त्वं परिवृतः शूरैः शूल-मुद्गर-पाणिभिः ।
भवेत् त्वं संशयं प्राप्तः मया वीर कलत्रवान् ॥ 48 ॥

स-आयुधाः बहवः व्योम्नि राक्षसाः त्वं निरायुधः ।
कथं शक्ष्यसि संयातुं मां च एव परिरक्षितुम् ॥ 49 ॥

युध्यमानस्य रक्षोभिः तव तैः क्रूर-कर्मभिः ।
प्रपतेयं हि ते पृष्ठात् भय-आर्ता कपि-सत्तम ॥ 50 ॥

अथ रक्षांसि भीमानि महान्ति बलवन्ति च ।
कथंचित् सांपराये त्वां जयेयुः कपि-सत्तम ॥ 51 ॥

अथवा युध्यमानस्य पतेयं विमुखस्य ते ।
पतितां च गृहीत्वा मां नयेयुः पाप-राक्षसाः ॥ 52 ॥

मां वा हरेयुः त्वत्-हस्तात् विशसेयुः अथ अपि वा ।
अव्यवस्थौ हि दृश्येते युद्धे जय-पराजयौ ॥ 53 ॥

अहं वा अपि विपद्येयं रक्षोभिः अभितर्जिता ।
त्वत्-प्रयत्नः हरि-श्रेष्ठ भवेत् निष्फलः एव तु ॥ 54 ॥

कामं त्वम् असि पर्याप्तः निहन्तुं सर्व-राक्षसान् ।
राघवस्य यशः हीयेत् त्वया शस्तैः तु राक्षसैः ॥ 55 ॥

अथवा आदाय रक्षांसि न्यसेयुः संवृते हि माम् ।
यत्र ते न अभिजानीयुः हरयः न अपि राघवौ ॥ 56 ॥

आरम्भः तु मद्-अर्थः अयं ततः तव निरर्थकः ।
त्वया हि सह रामस्य महान् आगमने गुणः ॥ 57 ॥

मयि जीवितम् आयत्तं राघवस्य महा-आत्मनः ।
भ्रातॄणां च महा-बाहो तव राज-कुलस्य च ॥ 58 ॥

तौ निराशौ मद्-अर्थं तु शोक-सन्ताप-कर्शितौ ।
सह सर्व-ऋक्ष-हरिभिः त्यक्ष्यतः प्राण-संग्रहम् ॥ 59 ॥

भर्तुः भक्तिं पुरस्कृत्य रामात् अन्यस्य वानर ।
न स्पृशामि शरीरं तु पुंसः वानर-पुङ्गव ॥ 60 ॥

यत् अहं गात्र-संस्पर्शं रावणस्य बलात् गता ।
अनीशा किं करिष्यामि विना-था विवशा सती ॥ 61 ॥

यदि रामः दश-ग्रीवम् इह हत्वा स-बान्धवम् ।
माम् इतः गृह्य गच्छेत् तत् तस्य सदृशं भवेत् ॥ 62 ॥

श्रुताः हि दृष्टाः च मया पराक्रमाः महा-आत्मनः तस्य रण-अवमर्दिनः ।
न देव-गन्धर्व-भुजङ्ग-राक्षसाः भवन्ति रामेण समाः हि संयुगे ॥ 63 ॥

समीक्ष्य तं संयति चित्र-कार्मुकं महा-बलं वासव-तुल्य-विक्रमम् ।
स-लक्ष्मणं कः विषहेत् राघवं हुत-अशनं दीप्तम् इव अनिल-ईरितम् ॥ 64 ॥

स-लक्ष्मणं राघवम् आजि-मर्दनं दिग्-गजं मत्तम् इव व्यवस्थितम् ।
सहेत कः वानर-मुख्य संयुगे युग-अन्त-सूर्य-प्रतिमं शर-अर्चिषम् ॥ 65 ॥

सः मे हरि-श्रेष्ठ स-लक्ष्मणं पतिं स-यूथपं क्षिप्रम् इह उपपादय ।
चिराय रामं प्रति शोक-कर्शितां कुरुष्व मां वानर-मुख्य हर्षिताम् ॥ 66 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे सप्त-त्रिंशः सर्गः ॥

HOME          PREVIOUS               NEXT

சுந்தர காண்டம் – 36 - அடையாளமாக இராமனின் மோதிரத்தை சீதையிடம் அளிக்கிறார்.

HOME          PREVIOUS               NEXT

भूयः एव महा-तेजाः हनूमान् पवन-आत्मजः ।
अब्रवीत् प्रश्रितं वाक्यं सीता-प्रत्यय-कारणात् ॥ 1 ॥

वानरः अहं महा-भागे दूतः रामस्य धीमतः ।
राम-नाम-अङ्कितं च इदं पश्य देवि अङ्गुलीयकम् ॥ 2 ॥

प्रत्यय-अर्थं तव आनीतं तेन दत्तं महा-आत्मना ।
समाश्वसिहि भद्रं ते क्षीण-दुःख-फला हि असि ॥ 3 ॥

गृहीत्वा प्रेक्षमाणा सा भर्तुः कर-विभूषणम् ।
भर्तारम् इव संप्राप्ता जानकी मुदिता अभवत् ॥ 4 ॥

चारु तत् वदनं तस्याः ताम्र-शुक्ल-आयत-ईक्षणम् ।
अशोभत विशाल-अक्ष्याः राहु-मुक्तः इव उडु-राट् ॥ 5 ॥

ततः सा ह्रीमती बाला भर्तृ-सन्देश-हर्षिता ।
परितुष्टा प्रियं कृत्वा प्रशशंस महा-कपिम् ॥ 6 ॥

विक्रान्तः त्वं समर्थः त्वं प्राज्ञः त्वं वानर-उत्तम ।
येन इदं राक्षस-पदं त्वया एकेन प्रधर्षितम् ॥ 7 ॥

शत-योजन-विस्तीर्णः सागरः मकर-आलयः ।
विक्रम-श्लाघनीयेन क्रमता गोष्पदी-कृतः ॥ 8 ॥

न हि त्वां प्राकृतं मन्ये वानरं वानर-ऋषभ ।
यस्य ते न अस्ति सन्त्रासः रावणात् न अपि संभ्रमः ॥ 9 ॥

अर्हसे च कपि-श्रेष्ठ मया समभिभाषितुम् ।
यदि असि प्रेषितः तेन रामेण विदित-आत्मना ॥ 10 ॥

प्रेषयिष्यति दुर्धर्षः रामः न हि अपरीक्षितम् ।
पराक्रमम् अविज्ञाय मत्-सकाशं विशेषतः ॥ 11 ॥

दिष्ट्या च कुशली रामः धर्म-आत्मा सत्य-सङ्गरः ।
लक्ष्मणः च महा-तेजाः सुमित्रा-आनन्द-वर्धनः ॥ 12 ॥

कुशली यदि काकुत्स्थः किम् नु सागर-मेखलाम् ।
महीं दहति कोपेन युग-अन्त-अग्निः इव उत्थितः ॥ 13 ॥

अथवा शक्ति-मन्तौ तौ सुराणाम् अपि निग्रहे ।
मम एव तु न दुःखानाम् अस्ति मन्ये विपर्ययः ॥ 14 ॥

कच्चित् न व्यथितः रामः कच्चित् न परितप्यते ।
उत्तराणि च कार्याणि कुरुते पुरुष-उत्तमः ॥ 15 ॥

कच्चित् न दीनः संभ्रान्तः कार्येषु न च मुह्यति ।
कच्चित् पुरुष-कार्याणि कुरुते नृपतेः सुतः ॥ 16 ॥

द्विविधं त्रिविध-उपायम् उपायम् अपि सेवते ।
विजिगीषुः सुहृत् कच्चित् मित्रेषु च परन्तपः ॥ 17 ॥

कच्चित् मित्राणि लभते मित्रैः च अपि अभिगम्यते ।
कच्चित् कल्याण-मित्रः च मित्रैः च अपि पुरस्कृतः ॥ 18 ॥

कच्चित् आशास्ति देवानां प्रसादं पार्थिव-आत्मजः ।
कच्चित् पुरुष-कारं च दैवं च प्रतिपद्यते ॥ 19 ॥

कच्चित् न विगत-स्नेहः प्रवासात् मयि राघवः ।
कच्चित् मां व्यसनात् अस्मात् मोक्षयिष्यति वानर ॥ 20 ॥

सुखानाम् उचितः नित्यं असुखानाम् अनौचितः ।
दुःखम् उत्तरम् आसाद्य कच्चित् रामः न सीदति ॥ 21 ॥

कौसल्यायाः तथा कच्चित् सुमित्रायाः तथा एव च ।
अभीक्ष्णं श्रूयते कच्चित् कुशलं भरतस्य च ॥ 22 ॥

मत्-निमित्तेन मान-अर्हः कच्चित् शोकेन राघवः ।
कच्चित् न अन्य-मनाः रामः कच्चित् मां तारयिष्यति ॥ 23 ॥

कच्चित् अक्षौहिणीं भीमां भरतः भ्रातृ-वत्सलः ।
ध्वजिनीं मन्त्रिभिः गुप्तां प्रेषयिष्यति मत्-कृते ॥ 24 ॥

वानर-अधिपतिः श्रीमान् सुग्रीवः कच्चित् एष्यति ।
मत्-कृते हरिभिः वीरैः वृतः दन्त-नख-आयुधैः ॥ 25 ॥

कच्चित् च लक्ष्मणः शूरः सुमित्रा-आनन्द-वर्धनः ।
अस्त्र-वित् शर-जालेन राक्षसान् विधमिष्यति ॥ 26 ॥

रौद्रेण कच्चित् अस्त्रेण ज्वलता निहतं रणे ।
द्रक्ष्यामि अल्पेन कालेन रावणं स-सुहृत्-जनम् ॥ 27 ॥

कच्चित् न तत् हेम-समान-वर्णं तस्य आननं पद्म-समान-गन्धि ।
मया विना शुष्यति शोक-दीनं जल-क्षये पद्मम् इव आतपेन ॥ 28 ॥

धर्म-अपदेशात् त्यजतः च राज्यं मां च अपि अरण्यं नयतः पदातिम् ।
न आसीत् व्यथा यस्य न भीः न शोकः कच्चित् सः धैर्यं हृदये करोति ॥ 29 ॥

न च अस्य माता न पिता च न अन्यः स्नेहात् विशिष्टः अस्ति मया समः वा ।
तावत् तु अहं दूत जिजीविषेयं यावत् प्रवृत्तिं शृणुयां प्रियस्य ॥ 30 ॥

इति एव देवी वचनं महा-अर्थं तं वानर-इन्द्रं मधुर-अर्थम् उक्त्वा ।
श्रोतुं पुनः तस्य वचः अभिरामं राम-अर्थ-युक्तं विरराम रामा ॥ 31 ॥

सीतायाः वचनं श्रुत्वा मारुतिः भीम-विक्रमः ।
शिरसि अञ्जलिम् आधाय वाक्यम् उत्तरम् अब्रवीत् ॥ 32 ॥

न त्वाम् इह-स्थां जानीते रामः कमल-लोचने ।
तेन त्वां न आनयति आशु शचीम् इव पुरन्दरः ॥ 33 ॥

श्रुत्वा एव तु वचः मह्यं क्षिप्रम् एष्यति राघवः ।
चमूं प्रकर्षन् महतीं हरि-ऋक्ष-गण-सङ्कुलाम् ॥ 34 ॥

विष्टम्भयित्वा बाण-ओघैः अक्षोभ्यं वरुण-आलयम् ।
करिष्यति पुरीं लङ्कां काकुत्स्थः शान्त-राक्षसाम् ॥ 35 ॥

तत्र यदि अन्तरा मृत्युः यदि देवाः सह असुराः ।
स्थास्यन्ति पथि रामस्य सः तान् अपि वधिष्यति ॥ 36 ॥

तव अदर्शन-जेन आर्ये शोकेन सः परिप्लुतः ।
न शर्म लभते रामः सिंह-अर्दितः इव द्विपः ॥ 37 ॥

मलयेन च विन्ध्येन मेरुणा मन्दरेण च ।
दर्दुरेण च ते देवि शपे मूल-फलेन च ॥ 38 ॥

यथा सु-नयनं वल्गु बिम्ब-ओष्ठं चारु-कुण्डलम् ।
मुखं द्रक्ष्यसि रामस्य पूर्ण-चन्द्रम् इव उदितम् ॥ 39 ॥

क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ ।
शत-क्रतुम् इव आसीनं नाग-राजस्य मूर्धनि ॥ 40 ॥

न मांसं राघवः भुङ्क्ते न च अपि मधु सेवते ।
वन्यं सु-विहितं नित्यं भक्तम् अश्नाति पञ्चमम् ॥ 41 ॥

न एव दंशान् न मशकान् न कीटान् न सरीसृपान् ।
राघवः अपनयेत् गात्रात् त्वत्-गतेन अन्तर-आत्मना ॥ 42 ॥

नित्यं ध्यान-परः रामः नित्यं शोक-परायणः ।
न अन्यत् चिन्तयते किञ्चित् सः तु काम-वशं गतः ॥ 43 ॥

अनिद्रः सततं रामः सुप्तः अपि च नर-उत्तमः ।
सीते इति मधुरां वाणीं व्याहरन् प्रतिबुध्यते ॥ 44 ॥

दृष्ट्वा फलं वा पुष्पं वा यत् वा अन्यत् सु-मनोहरम् ।
बहुशः हा प्रिये इति एवं श्वसन् त्वाम् अभिभाषते ॥ 45 ॥

सः देवि नित्यं परितप्यमानः त्वाम् एव सीते इति अभिभाषमाणः ।
धृत-व्रतः राज-सुतः महा-आत्मा तव एव लाभाय कृत-प्रयत्नः ॥ 46 ॥

सा राम-संकीर्तन-वीत-शोका रामस्य शोकेन समान-शोका ।
शरत्-मुखे स-अम्बुद-शेष-चन्द्रा निशा इव वैदेह-सुता बभूव ॥ 47 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे षट्-त्रिंशः सर्गः ॥

HOME          PREVIOUS               NEXT

சுந்தர காண்டம் – 35 - இராமனின் அடையாள இலக்கணங்களை அனுமன் விவரிக்கிறார்.

HOME          PREVIOUS               NEXT

तां तु राम-कथां श्रुत्वा वैदेही वानर-ऋषभात् ।
उवाच वचनं सान्त्वम् इदं मधुरया गिरा ॥ 1 ॥

क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् ।
वानराणां नराणां च कथम् आसीत् समागमः ॥ 2 ॥

यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर ।
तानि भूयः समाचक्ष्व न मां शोकः समाविशेत् ॥ 3 ॥

कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् ।
कथम् ऊरू कथं बाहू लक्ष्मणस्य च शंस मे ॥ 4 ॥

एवम् उक्तः तु वैदेह्या हनुमान् मारुत-आत्मजः ।
ततः रामं यथा-तत्त्वम् आख्यातुम् उपचक्रमे ॥ 5 ॥

जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि ।
भर्तुः कमल-पत्र-अक्षि संस्थानं लक्ष्मणस्य च ॥ 6 ॥

यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै ।
लक्षितानि विशाल-अक्षि वदतः शृणु तानि मे ॥ 7 ॥

रामः कमल-पत्र-अक्षः सर्व-सत्त्व-मनोहरः ।
रूप-दाक्षिण्य-सम्पन्नः प्रसूतः जनक-आत्मजे ॥ 8 ॥

तेजसा आदित्य-सङ्काशः क्षमया पृथिवी-समः ।
बृहस्पति-समः बुद्ध्या यशसा वासव-उपमः ॥ 9 ॥

रक्षिता जीव-लोकस्य स्व-जनस्य अभिरक्षिता ।
रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः ॥ 10 ॥

रामः भामिनि लोकस्य चातुर्-वर्ण्यस्य रक्षिता ।
मर्यादानां च लोकस्य कर्ता कारयिता च सः ॥ 11 ॥

अर्चिष्मान् अर्चितः अत्यर्थं ब्रह्मचर्य-व्रते स्थितः ।
साधूनाम् उपकार-ज्ञः प्रचार-ज्ञः च कर्मणाम् ॥ 12 ॥

राज-विद्या-विनीतः च ब्राह्मणानाम् उपासिता ।
श्रुतवान् शील-सम्पन्नः विनीतः च परन्तपः ॥ 13 ॥

यजुः-वेद-विनीतः च वेद-विद्भिः सु-पूजितः ।
धनुः-वेदे च वेदेषु वेद-अङ्गेषु च निष्ठितः ॥ 14 ॥

विपुल-अंसः महा-बाहुः कम्बु-ग्रीवः शुभ-आननः ।
गूढ-जत्रुः सु-ताम्र-अक्षः रामः देवि जनैः श्रुतः ॥ 15 ॥

दुन्दुभि-स्वन-निर्घोषः स्निग्ध-वर्णः प्रतापवान् ।
समः सम-विभक्त-अङ्गः वर्णं श्यामं समाश्रितः ॥ 16 ॥

त्रि-स्थिरः त्रि-प्रलम्बः च त्रि-समः त्रिषु च उन्नतः ।
त्रि-ताम्रः त्रिषु च स्निग्धः गम्भीरः त्रिषु नित्यशः ॥ 17 ॥

त्रि-वलीवान् त्रि-अवनतः चतुर्-व्यङ्गः त्रि-शीर्षवान् ।
चतुः-कलः चतुर्-लेखः चतुः-किष्कुः चतुः-समः ॥ 18 ॥

चतुर्दश-सम-द्वन्द्वः चतुर्-दंष्ट्रः चतुर्-गतिः ।
महा-ओष्ठ-हनु-नासः च पञ्च-स्निग्धः अष्ट-वंशवान् ॥ 19 ॥

दश-पद्मः दश-बृहत् त्रिभिः व्याप्तः द्वि-शुक्लवान् ।
षट्-उन्नतः नव-तनुः त्रिभिः व्याप्नोति राघवः ॥ 20 ॥

सत्य-धर्म-परः श्रीमान् संग्रह-अनुग्रहे रतः ।
देश-काल-विभाग-ज्ञः सर्व-लोक-प्रियं-वदः ॥ 21 ॥

भ्राता तस्य च द्वै-मात्रः सौमित्रिः अपराजितः ।
अनुरागेण रूपेण गुणैः च एव तथा-विधः ॥ 22 ॥

तौ उभौ नर-शार्दूलौ त्वत्-दर्शन-समुत्सुकौ ।
विचिन्वन्तौ महीं कृत्स्नाम् अस्माभिः अभिसंगतौ ॥ 23 ॥

त्वाम् एव मार्गमाणौ तौ विचरन्तौ वसुन्धराम् ।
ददर्शतुः मृग-पतिं पूर्वजेन अवरोपितम् ॥ 24 ॥

ऋश्यमूकस्य पृष्ठे तु बहु-पादप-सङ्कुले ।
भ्रातुः भय-आर्तम् आसीनं सुग्रीवं प्रिय-दर्शनम् ॥ 25 ॥

वयं तु हरि-राजं तं सुग्रीवं सत्य-सङ्गरम् ।
परिचर्यामहे राज्यात् पूर्वजेन अवरोपितम् ॥ 26 ॥

ततः तौ चीर-वसनौ धनुः-प्रवर-पाणिनौ ।
ऋश्यमूकस्य शैलस्य रम्यं देशम् उपागतौ ॥ 27 ॥

सः तौ दृष्ट्वा नर-व्याघ्रौ धन्विनौ वानर-ऋषभः ।
अवप्लुतः गिरेः तस्य शिखरं भय-मोहितः ॥ 28 ॥

ततः सः शिखरे तस्मिन् वानर-इन्द्रः व्यवस्थितः ।
तयोः समीपं माम् एव प्रेषयामास सत्वरम् ॥ 29 ॥

तौ अहं पुरुष-व्याघ्रौ सुग्रीव-वचनात् प्रभू ।
रूप-लक्षण-सम्पन्नौ कृत-अञ्जलिः उपस्थितः ॥ 30 ॥

तौ परिज्ञात-तत्त्व-अर्थौ मया प्रीति-समन्वितौ ।
पृष्ठम् आरोप्य तं देशं प्रापितौ पुरुष-ऋषभौ ॥ 31 ॥

निवेदितौ च तत्त्वेन सुग्रीवाय महा-आत्मने ।
तयोः अन्योन्य-सल्लापात् भृशं प्रीतिः अजायत ॥ 32 ॥

ततः तौ प्रीति-सम्पन्नौ हरि-ईश्वर-नर-ईश्वरौ ।
परस्पर-कृत-आश्वासौ कथया पूर्व-वृत्तया ॥ 33 ॥

ततः सः सान्त्वयामास सुग्रीवं लक्ष्मण-अग्रजः ।
स्त्री-हेतोः वालिना भ्रात्रा निरस्तम् उरु-तेजसा ॥ 34 ॥

ततः त्वत्-नाश-जं शोकं रामस्य अक्लिष्ट-कर्मणः ।
लक्ष्मणः वानर-इन्द्राय सुग्रीवाय न्यवेदयत् ॥ 35 ॥

सः श्रुत्वा वानर-इन्द्रः तु लक्ष्मणेन ईरितं वचः ।
तदा आसीत् निष्प्रभः अत्यर्थं ग्रह-ग्रस्तः इव अंशुमान् ॥ 36 ॥

ततः त्वत्-गात्र-शोभीनि रक्षसा ह्रियमाणया ।
यानि आभरण-जालानि पातितानि मही-तले ॥ 37 ॥

तानि सर्वाणि रामाय आनीय हरि-यूथपाः ।
संहृष्टाः दर्शयामासुः गतिं तु न विदुः तव ॥ 38 ॥

तानि रामाय दत्तानि मया एव उपहृतानि च ।
स्वनवन्ति अवकीर्णानि तस्मिन् विगत-चेतसि ॥ 39 ॥

तानि अङ्के दर्शनीयानि कृत्वा बहु-विधं तव ।
तेन देव-प्रकाशेन देवेन परिदेवितम् ॥ 40 ॥

पश्यतः तानि रुदतः ताम्यतः च पुनः पुनः ।
प्रादीपयन् दाशरथेः तानि शोक-हुताशनम् ॥ 41 ॥

शयितं च चिरं तेन दुःख-आर्तेन महा-आत्मना ।
मया अपि विविधैः वाक्यैः कृच्छ्रात् उत्थापितः पुनः ॥ 42 ॥

तानि दृष्ट्वा महा-बाहुः दर्शयित्वा मुहुः मुहुः ।
राघवः सह सौमित्रिः सुग्रीवे सः न्यवेदयत् ॥ 43 ॥

सः तव अदर्शनात् आर्ये राघवः परितप्यते ।
महता ज्वलता नित्यम् अग्निना इव अग्नि-पर्वतः ॥ 44 ॥

त्वत्-कृते तम् अनिद्रा च शोकः चिन्ता च राघवम् ।
तापयन्ति महा-आत्मानम् अग्नि-आगारम् इव अग्नयः ॥ 45 ॥

तव अदर्शन-शोकेन राघवः प्रविचाल्यते ।
महता भूमि-कम्पेन महान् इव शिल-उच्चयः ॥ 46 ॥

काननानि सु-रम्याणि नदीः प्रस्रवणानि च ।
चरन् न रतिम् आप्नोति त्वाम् अपश्यन् नृप-आत्मजे ॥ 47 ॥

सः त्वां मनुज-शार्दूलः क्षिप्रं प्राप्स्यति राघवः ।
स-मित्र-बान्धवं हत्वा रावणं जनक-आत्मजे ॥ 48 ॥

सहितौ राम-सुग्रीवौ उभौ अकुरुताम् तदा ।
समयं वालिनं हन्तुं तव च अन्वेषणं तथा ॥ 49 ॥

ततः ताभ्यां कुमाराभ्यां वीराभ्यां सः हरि-ईश्वरः ।
किष्किन्धां समुपागम्य वाली युद्धे निपातितः ॥ 50 ॥

ततः निहत्य तरसा रामः वालिनम् आहवे ।
सर्व-ऋक्ष-हरि-संघानां सुग्रीवम् अकरोत् पतिम् ॥ 51 ॥

राम-सुग्रीवयोः ऐक्यं देवि एवं समजायत ।
हनुमन्तं च मां विद्धि तयोः दूतम् इह आगतम् ॥ 52 ॥

स्व-राज्यं प्राप्य सुग्रीवः समानीय हरि-ईश्वरान् ।
त्वत्-अर्थं प्रेषयामास दिशः दश महा-बलान् ॥ 53 ॥

आदिष्टाः वानर-इन्द्रेण सुग्रीवेण महा-ओजसा ।
अद्रि-राज-प्रतीकाशाः सर्वतः प्रस्थिताः महीम् ॥ 54 ॥

ततः ते मार्गमाणाः वै सुग्रीव-वचन-आतुराः ।
चरन्ति वसुधां कृत्स्नां वयम् अन्ये च वानराः ॥ 55 ॥

अङ्गदः नाम लक्ष्मीवान् वालि-सूनुः महा-बलः ।
प्रस्थितः कपि-शार्दूलः त्रि-भाग-बल-संवृतः ॥ 56 ॥

तेषां नः विप्रणष्टानां विन्ध्ये पर्वत-सत्तमे ।
भृशं शोक-परीतानाम् अहो-रात्र-गणाः गताः ॥ 57 ॥

ते वयं कार्य-नैराश्यात् कालस्य अतिक्रमेण च ।
भयात् च कपि-राजस्य प्राणान् त्यक्तुं व्यवस्थिताः ॥ 58 ॥

विचित्य वन-दुर्गाणि गिरि-प्रस्रवणानि च ।
अनासाद्य पदं देव्याः प्राणान् त्यक्तुं समुद्यताः ॥ 59 ॥

दृष्ट्वा प्राय-उपविष्टान् च सर्वान् वानर-पुङ्गवान् ।
भृशं शोक-अर्णवे मग्नः पर्यदेवयत् अङ्गदः ॥ 60 ॥

तव नाशं च वैदेहि वालिनः च वधं तथा ।
प्राय-उपवेशम् अस्माकं मरणं च जटायुषः ॥ 61 ॥

तेषां नः स्वामि-सन्देशात् निराशानां मुमूर्षताम् ।
कार्य-हेतोः इव आयातः शकुनिः वीर्यवान् महान् ॥ 62 ॥

गृध्र-राजस्य सोदर्यः सम्पातिः नाम गृध्र-राट् ।
श्रुत्वा भ्रातृ-वधं कोपात् इदं वचनम् अब्रवीत् ॥ 63 ॥

यवीयान् केन मे भ्राता हतः क्व च निपातितः ।
एतत् आख्यातुम् इच्छामि भवद्भिः वानर-उत्तमाः ॥ 64 ॥

अङ्गदः अकथयत् तस्य जनस्थाने महत् वधम् ।
रक्षसा भीम-रूपेण त्वाम् उद्दिश्य यथा-तथम् ॥ 65 ॥

जटायुषः वधं श्रुत्वा दुःखितः सः अरुण-आत्मजः ।
त्वां शशंस वर-आरोहे वसन्तीं रावण-आलये ॥ 66 ॥

तस्य तत् वचनं श्रुत्वा सम्पातेः प्रीति-वर्धनम् ।
अङ्गद-प्रमुखाः तूर्णं ततः संप्रस्थिताः वयम् ॥ 67 ॥

विन्ध्यात् उत्थाय संप्राप्ताः सागरस्य अन्तम् उत्तरम् ।
त्वत्-दर्शन-कृत-उत्साहाः हृष्टाः तुष्टाः प्लवङ्गमाः ॥ 68 ॥

अङ्गद-प्रमुखाः सर्वे वेला-उपान्तम् उपस्थिताः ।
चिन्तां जग्मुः पुनः भीताः त्वत्-दर्शन-समुत्सुकाः ॥ 69 ॥

अथ अहं हरि-सैन्यस्य सागरं प्रेक्ष्य सीदतः ।
व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः ॥ 70 ॥

लङ्का च अपि मया रात्रौ प्रविष्टा राक्षस-आकुला ।
रावणः च मया दृष्टः त्वं च शोक-परिप्लुता ॥ 71 ॥

एतत् ते सर्वम् आख्यातं यथा-वृत्तम् अनिन्दिते ।
अभिभाषस्व मां देवि दूतः दाशरथेः अहम् ॥ 72 ॥

तं मां राम-कृत-उद्योगं त्वत्-निमित्तम् इह आगतम् ।
सुग्रीव-सचिवं देवि बुद्ध्यस्व पवन-आत्मजम् ॥ 73 ॥

कुशली तव काकुत्स्थः सर्व-शस्त्र-भृतां वरः ।
गुरोः आराधने युक्तः लक्ष्मणः च सु-लक्षणः ॥ 74 ॥

तस्य वीर्य-वतः देवि भर्तुः तव हिते रतः ।
अहम् एकः तु संप्राप्तः सुग्रीव-वचनात् इह ॥ 75 ॥

मया इयम् असहायेन चरता काम-रूपिणा ।
दक्षिणा दिक् अनुक्रान्ता त्वत्-मार्ग-विचय-ऐषिणा ॥ 76 ॥

दिष्ट्या अहं हरि-सैन्यानां त्वत्-नाशम् अनुशोचताम् ।
अपनेष्यामि सन्तापं तव अभिगम-शंसनात् ॥ 77 ॥

दिष्ट्या हि मम न व्यर्थं देवि सागर-लङ्घनम् ।
प्राप्स्यामि अहम् इदं दिष्ट्या त्वत्-दर्शन-कृतं यशः ॥ 78 ॥

राघवः च महा-वीर्यः क्षिप्रं त्वाम् अभिपत्स्यते ।
स-मित्र-बान्धवं हत्वा रावणं राक्षस-अधिपम् ॥ 79 ॥

माल्यवान् नाम वैदेहि गिरीणाम् उत्तमः गिरिः ।
ततः गच्छति गोकर्णं पर्वतं केसरी हरिः ॥ 80 ॥

सः च देव-ऋषिभिः दृष्टः पिता मम महा-कपिः ।
तीर्थे नदी-पतेः पुण्ये शम्ब-सादनम् उद्धरत् ॥ 81 ॥

तस्य अहं हरिणः क्षेत्रे जातः वातेन मैथिलि ।
हनुमान् इति विख्यातः लोके स्वेन एव कर्मणा ॥ 82 ॥

विश्वास-अर्थं तु वैदेहि भर्तुः उक्ताः मया गुणाः ।
अचिरात् राघवः देवि त्वाम् इतः नयिता अनघे ॥ 83 ॥

एवं विश्वासिता सीता हेतु-भिः शोक-कर्शिता ।
उपपन्नैः अभिज्ञानैः दूतं तम् अवगच्छति ॥ 84 ॥

अतुलं च गता हर्षं प्रहर्षेण च जानकी ।
नेत्राभ्यां वक्र-पक्ष्माभ्यां मुमोच आनन्द-जं जलम् ॥ 85 ॥

चारु तत् वदनं तस्याः ताम्र-शुक्ल-आयत-ईक्षणम् ।
अशोभत विशाल-अक्ष्याः राहु-मुक्तः इव उडु-राट् ॥ 86 ॥

हनुमन्तं कपिं व्यक्तं मन्यते न अन्यथा इति सा ।
अथ उवाच हनूमान् ताम् उत्तरं प्रिय-दर्शनाम् ॥ 87 ॥

एतत् ते सर्वम् आख्यातं समाश्वसिहि मैथिलि ।
किं करोमि कथं वा ते रोचते प्रतियामि अहम् ॥ 88 ॥

हते असुरे संयति शम्ब-सादने कपि-प्रवीरेण महर्षि-चोदनात् ।
ततः अस्मि वायु-प्रभवः हि मैथिलि प्रभावतः तत्-प्रतिमः च वानरः ॥ 89 ॥

इति आर्षे श्रीमद्-रामायणे वाल्मीकीय-आदि-काव्ये सुन्दर-काण्डे पञ्च-त्रिंशः सर्गः ॥

HOME          PREVIOUS               NEXT