ரிஷபதேவரின் அரசாட்சி
ஸ்கந்தம் 5: அத்யாயம் 4
श्री-शुक उवाच –
अथ ह तम् उत्पत्ति-एव अभिव्यज्यमान-भगवत्-लक्षणं
साम्य-उपशम-वैराग्य-ऐश्वर्य-महा-विभूतिभिः
अनुदिनम् एधमान-अनुभावं प्रकृतयः प्रजा ब्राह्मणाः देवताः च
अवनि-तल-समवना-याति-तरां जगृधुः ॥ १ ॥
तस्य ह वा इत्थं वर्ष्मणा वरीयसा बृहद्-छ्लोकेन च
ओजसा बलेन श्रिया यशसा वीर्य-शौर्याभ्यां च
पिता ऋषभः इति इदं नाम चकार ॥ २ ॥
तस्य हि इन्द्रः स्पर्धमानः भगवान् वर्षे न ववर्ष
तत् अवधार्य भगवान् ऋषभदेवः योग-ईश्वरः
प्रहस्य आत्म-योग-मायया स्व-वर्षम् अजनाभं नाम अभ्यवर्षत् ॥ ३ ॥
नाभिः तु यथा-अभिलषितं सु-प्रजस्-त्वम् अवरुध्य
अति-प्रमोद-भर-विह्वलः गद्गद-अक्षरया गिरा
स्वैरं गृहीत-नर-लोक-सत्-धर्मं भगवन्तं पुराण-पुरुषं
माया-विलसित-मति: वत्स तात इति
सानुरागम् उपलालयन् परां निर्वृतिम् उपगतः ॥ ४ ॥
विदित-अनुरागम् आ-पुर-प्रकृति-जनपदः राजा नाभिः
आत्म-जं समय-सेतु-रक्षायाम् अभिषिच्य
ब्राह्मणेषु उपनिधाय सह मेरुदेव्या विशालायां
प्रसन्न-निपुणेन तपसा समाधि-योगेन
नर-नारायण-आख्यं भगवन्तं वासुदेवं
उपासीनः कालेन तत्-महिमानम् अवाप ॥ ५ ॥
यस्य ह पाण्डवेय श्लोकौ उदाहरन्ति –कः नु तत् कर्म
राज-ऋषेः नाभेः अनु आचरेत् पुमान्।
अपत्यताम् अगात् यस्य हरिः शुद्धेन कर्मणा ॥ ६ ॥
ब्रह्मण्यः अन्यः कुतः नाभेः विप्राः मङ्गल-पूजिताः।
यस्य बर्हिषि यज्ञ-ईशं दर्शयामासुः ओजसा ॥ ७ ॥
अथ ह भगवान् ऋषभदेवः स्व-वर्षं कर्म-क्षेत्रम् अनुमन्यमानः
प्रदर्शित-गुरु-कुल-वासः लब्ध-वरैः गुरुभिः अनुज्ञातः
गृह-मेधिनां धर्मान् अनुशिक्षमाणः जयन्त्याम् इन्द्र-दत्तायाम्
उभय-लक्षणं कर्म समाम्नाय-आम्नातम् अभियुञ्जन्
आत्म-जानाम् आत्म-समानानां शतं जनयामास ॥ ८ ॥
येषां खलु महा-योगी भरतः ज्येष्ठः श्रेष्ठ-गुणः आसीत्
येन इदं वर्षं भारतं इति व्यपदिशन्ति ॥ ९ ॥
तम् अनु कुशावर्तः इलावर्तः ब्रह्मावर्तः मलयः
केतुः भद्रसेनः इन्द्र-स्पृक् विदर्भः कीकटः
इति नव नवति प्रधानाः ॥ १० ॥
कविः हविः अन्तरिक्षः प्रबुद्धः पिप्पलायनः।
आविर्होत्रः अथ द्रुमिलः चमसः करभाजनः ॥ ११ ॥
इति भागवत-धर्म-दर्शनाः नव महा-भागवताः
तेषां सु-चरितं भगवत्-महिमा-उपबृंहितं
वसुदेव-नारद-संवादम् उपशमायनम्
उपरिष्टात् वर्णयिष्यामः ॥ १२ ॥
यवीयांसः एकाशीति: जायन्ते याः पितुः आदेश-कराः
महा-शालीनाः महा-श्रोत्रियाः यज्ञ-शीलाः
कर्म-विशुद्धाः ब्राह्मणाः बभूवुः ॥ १३ ॥
भगवान् ऋषभ-संज्ञः आत्म-तन्त्रः
स्वयं नित्य-निवृत्त-अनर्थ-परम्परः
केवल-आनन्द-अनुभवः ईश्वरः एव
विपरीत-वत् कर्माणि आरभमाणः
कालेन अनुगतं धर्मम् आचरणेन उपशिक्षयन्
अ-तद्-विदां समः उपशान्तः मैत्रः कारुणिकः
धर्म-अर्थ-यशः-प्रजा-आनन्द-अमृत-आवरोधेन
गृहेषु लोकं नियमयत् ॥ १४ ॥
यत् यत् शीर्षणि आचरितं तत् तत् अनुवर्तते लोकः ॥ १५ ॥
यत् अपि स्व-विदितं सकल-धर्मं ब्राह्मं गुह्यं
ब्राह्मणैः दर्शित-मार्गेण साम-आदिभिः उपायैः
जनताम् अनुशशास ॥ १६ ॥
द्रव्य-देश-काल-वयः-श्रद्धा-ऋत्विक् विविध-उद्देश-उपचितैः
सर्वैः अपि क्रतुभिः यथा-उपदेशं
शत-कृत्वः इयाज ॥ १७ ॥
भगवत् ऋषभेण परिरक्ष्यमाणे एतस्मिन् वर्षे
न कश्चन पुरुषः वाञ्छति अविद्यमानम् इव
आत्मनः अन्यस्मात् कथञ्चन किमपि
कर्हिचित् अवेक्षते भर्तरि अनु-सवनं
विजृम्भित-स्नेह-अतिशयम् अन्तरेण ॥ १८ ॥
सः कदाचित् अटमानः भगवान् ऋषभः
ब्रह्मावर्त-गतः ब्रह्म-ऋषि-प्रवर-सभायां
प्रजानां निशामयन्तीनाम् आत्म-जान् अवहित-आत्मनः
प्रश्रय-प्रणय-भर-सुयन्त्रितान् अपि उपशिक्षयन् इति होवाच ॥ १९ ॥
॥ इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायां पञ्चम-स्कन्धे चतुर्थः अध्यायः ॥ ४ ॥

No comments:
Post a Comment