பார்வதி சித்ரகேதுவை சபித்தல்
ஸ்கந்தம் 6: அத்யாயம் 17
श्री-शुक उवाच
यतः-च अन्तः-हितः अनन्तः तस्यै कृत्वा दिशे नमः।
विद्याधरः चित्रकेतुः च चर गगन-चरः ॥ १ ॥
स लक्षं वर्ष-लक्षाणाम् अव्याहत-बलेन्द्रियः।
स्तूयमानः महा-योगी मुनि-भिः सिद्ध-चारणैः ॥ २ ॥
कुलाचलेन्द्र-द्रोणीषु नाना-सङ्कल्प-सिद्धिषु।
रेमे विद्याधरः स्त्री-भिः गापयन् हरि-ईश्वरम् ॥ ३ ॥
एकदा स विमानेन विष्णु-दत्तेन भास्वतः।
गिरि-शं ददृशे गच्छन् परीतं सिद्ध-चारणैः ॥ ४ ॥
आलिङ्ग्य अङ्कीकृतां देवीं बाहुना मुनि-संसदि।
उवाच देव्याः श्रृण्वन्त्या जहासोच्चैः तद् अन्तिके ॥ ५ ॥
चित्रकेतुः उवाच
एष लोक-गुरुः साक्षात् धर्मं वक्ता शरीरि-नाम्।
आस्ते मुख्यः सभायां वै मिथुनी-भूय भार्यया ॥ ६ ॥
जटाधरः तीव्रतपा ब्रह्म-वादी सभापतिः।
अङ्कीकृत्य स्त्रियं च आस्ते गत-ह्रीः प्राकृतो यथा ॥ ७ ॥
प्रायशः प्राकृताः चापि स्त्रियं रहसि बिभ्रति।
अयं महा-व्रत-धरो बिभर्ति सदसि स्त्रियम् ॥ ८ ॥
श्री-शुक उवाच
भगवान् अपि तच्छ्रुत्वा प्रहस्य अगाधधीर् नृप।
तूष्णीं बभूव सदसि सभ्याः च तद् अनु-व्रताः ॥ ९ ॥
इति अत् वीर्य-विदुषि ब्रुवाणे बहु-शोभनम्।
रुषाऽऽह देवी धृष्टाय निर्जित-आत्मा-अभिमानिने ॥ १० ॥
श्री-पार्वति उवाच
अयं किम् अधुना लोके शास्ता दण्ड-धरः प्रभुः।
अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्र-कृत् ॥ ११ ॥
न वेद धर्मं किल पद्म-योनिः
न ब्रह्म-पुत्रा भृगु-नारदा आद्याः।
न वै कुमारः कपिलः मनुः च
ये नो निषेधन्ति अति-वर्तिनं हरम् ॥ १२ ॥
एषाम् अनु-ध्येय-पदाब्ज-युग्मं
जगत्-गुरुं मङ्गल-मङ्गलं स्वयम्।
यः क्षत्र-बन्धुः परि-भूय सूरीन्
प्रशास्ति धृष्टः तदयं हि दण्ड्यः ॥ १३ ॥
नायम् अर्हति वैकुण्ठ-पाद-मूल-उपसर्पणम्।
सम्भावित-मतिः स्तब्धः साधु-भिः परि-उपासितम् ॥ १४ ॥
अतः पापीयसीं योनि-आसुरीं याहि दुर्मते।
यथेह भूयो महतां न कर्ता पुत्र किल्बिषम् ॥ १५ ॥
श्री-शुक उवाच
एवं शप्तः चित्रकेतुः विमानात् अवरुह्य सः।
प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत ॥ १६ ॥
चित्रकेतुः उवाच
प्रतिगृह्णामि ते शापम् आत्मनोऽञ्जलि-नांबिके।
देवैः मर्त्याय यत् प्रोक्तं पूर्व-दिष्टं हि तस्य तत् ॥ १७ ॥
संसार-चक्र एतस्मिन् जंतुर्ज्ञान-मोहितः।
भ्राम्यन् सुखं च दुःखं च भुङ्क्ते सर्वत्र सर्वदा ॥ १८ ॥
न एव आत्मा न परश्चापि कर्ता स्यात् सुख-दुःखयोः।
कर्तारं मन्यतेऽ प्राज्ञ आत्मानं परम एव च ॥ १९ ॥
गुण-प्रवाह एतस्मिन् कः शापः को न वानुग्रहः।
कः स्वर्गो नरकः को वा किं सुखं दुःखं एव वा ॥ २० ॥
एकः सृजति भूतानि भगवान्-आत्म-मायया।
एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः ॥ २१ ॥
न तस्य कश्चिद् दयितः प्रतीपो
न ज्ञाति बन्धुः न परः न च स्वः।
समस्य सर्वत्र निरञ्जनस्य
सुखे न रागः कुत एव रोषः ॥ २२ ॥
तथापि तत्-शक्ति-विसर्ग एषां
सुखाय दुःखाय हित-आहिताय।
बन्धाय मोक्षाय च मृत्यु-जन्मनोः
शरीरिणां संसृतये अवकल्पते ॥ २३ ॥
अथ प्रसादये न त्वां शाप-मोक्षाय भामिनि।
यन्मन्यसे असाधूक्तं मम तत् क्षम्यतां सति ॥ २४ ॥
श्री-शुक उवाच
इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम।
जगाम स्व-विमानेन पश्यतः स्मयतोस्तयोः ॥ २५ ॥
ततस्तु भगवान् रुद्रो रुद्राणीमिदम् अभ्रवीत।
देवर्षि-दैत्य-सिद्धानां पार्षद-नाम् च श्रृण्वताम् ॥ २६ ॥
श्री-रुद्र उवाच
दृष्टवत्यसि सु-श्रौनि हरेर अद्भुत-कर्मणः।
माहात्म्यं भृत्य-भृत्यानां निःस्पृहाणां महात्मनाम् ॥ २७ ॥
नारायण-पराः सर्वे न कुतश्चन बिभ्यति।
स्वर्ग-अपवर्ग-नरकेषु अपि तुल्य-र्थ-दर्शिनः ॥ २८ ॥
देहिनां देह-संयोगाद् द्वन्द्वान् ईश्वर-लीलया।
सुखं दुःखं मृतिर्जन्म शापोऽनुग्रह एव च ॥ २९ ॥
अविवेककृतः पुंसो ह्यर्थभेद इव आत्मनि।
गुण-दोष-विकल्पः च भिदेव स्रजिवत् कृतः ॥ ३० ॥
वासुदेवे भगवति भक्तिम् उद्वहतां नृणाम्।
ज्ञान-वैराग्य-वीर्याणां नेह कश्चिद् व्यपाश्रयः ॥ ३१ ॥
न अहं विरिञ्चो न कुमार-नारदौ
न ब्रह्म-पुत्रा मुनयः सुरेशाः।
विदाम् यस्ये हितम् अंश-कांशका
न तत् स्वरूपं पृथक् ईश-मानिनः ॥ ३२ ॥
न ह्यस्यास्ति प्रियः कश्चिन् न अप्रियः स्वः परोऽपि वा।
आत्मत्वात् सर्व-भूतानां सर्व-भूत-प्रियो हरिः ॥ ३३ ॥
तस्य चायं महा-भागः चित्रकेतुः प्रियोऽनुगः।
सर्वत्र सम-दृक् शान्तो ह्यहं चैव अच्युत-प्रियः ॥ ३४ ॥
तस्मात् न विस्मयः कार्यः पुरुषेषु महात्मसु।
महा-पुरुष-भक्तेषु शान्तेषु सम-दर्शिषु ॥ ३५ ॥
श्री-शुक उवाच
इति श्रुत्वा भगवतः शिवस्य ओमाभि-भाषितम्।
बभूव शान्त-धी राजन् देवी विगत-विस्मया ॥ ३६ ॥
इति भागवतो देव्याः प्रतिशप्तुम् अलन्तमः।
मूर्ध्ना सञ्जगृहे शापम् एतावत् साधु-लक्षणम् ॥ ३७ ॥
जज्ञे त् वष्टुर् दक्षि-णा-ग्नौ दान्वीम् योनि-आश्रितः।
वृत्र इति अभिविख्यातः ज्ञान-विज्ञान-संयुतः ॥ ३८ ॥
एतत् ते सर्वम् आख्यातं यन्मां त्वं परि-पृच्छसि।
वृत्रस्य असुर-जातेष्च कारणं भगवन्-मतेः ॥ ३९ ॥
इतिहासम् इमं पुण्यं चित्रकेतोः महा-ात्मनः।
माहात्म्यं विष्णु-भक्तानां श्रुत्वा बन्धाद् विमुच्यते ॥ ४० ॥
य एतत् प्रातः उत्थाय श्रद्धया वाग्यतः पठेत्।
इतिहासं हरिं स्मृत्वा स याति परमां गतिम् ॥ ४१ ॥
इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायां
षष्ठ-स्कन्धे चित्रकेतु-शापो नाम सप्तदशोऽध्याय़ः ॥ १७ ॥

No comments:
Post a Comment