Followers

Search Here...

Sunday, 7 December 2025

ஸ்கந்தம் 6: அத்யாயம் 10 (தேவர்கள் வ்ருத்தாசுரன் யுத்தம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

தேவர்கள் வ்ருத்தாசுரன் யுத்தம்

ஸ்கந்தம் 6: அத்யாயம் 10

 

श्री-शुक उवाच –

इन्द्रमेवं समादिश्य भगवान् विश्व-भावनः।
पश्यताम् अनिमेषाणां तत्र एव अन्तर्दधे हरिः ॥ १ ॥

तथाभियाचितो देवैः ऋषिराथर्वणो महान्।
मोदमान उवाच एदं प्रहसन्निव भारत ॥ २ ॥

अपि वृन्दारका यूयं न जानीथ शरीरिणाम्।
संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतना-पहः ॥ ३ ॥

जिजीविषूणां जीवानामात्मा प्रेष्ठ इहेप्सितः।
कः उत्सहेतं तं दातुं भिक्षमाणाय विष्णवे ॥ ४ ॥

श्री-देवा ऊचुः –

किं नु तद् दुस्त्यजं ब्रह्मन् पुंसां भूतानु-कम्पिनाम्।
भवद्विधानां महतां पुण्य-श्लोके ड्यकर्मणाम् ॥ ५ ॥

ननु स्वार्थ-परो लोको न वेद परसङ्कटम्।
यदि वेद न याचेत नेति नाह यदीश्वरः ॥ ६ ॥

श्री-ऋषिर् उवाच –

धर्मं वः श्रोतुकामेन यूयं मे प्रत्युदाहृताः।
एष वः प्रियमात्मानं त्यजन्तं सन्त्यजाम्यहम् ॥ ७ ॥

योऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान्।
ईहेत भूतदयया स शोच्यः स्थावरैरपि ॥ ८ ॥

एतावान् अव्ययो धर्मः पुण्य-श्लोकैः उपासितः।
यो भूत-शोक-हर्षाभ्यामात्मा शोचति हृष्यति ॥ ९ ॥

अहो दैन्यमहो कष्टं पारक्यैः क्षण-भङ्गुरैः।
यन्नोपकुर्याद् स्वार्थैः मृत्यः स्व-जाती-विग्रहैः ॥ १० ॥

श्री-शुक उवाच –

एवं कृतव्य-व्यसितो दध्यङ्ग-आथर्वण-तनुम्।
परे भगवति ब्रह्मण्यात्मानं सन्नयन् जहौ ॥ ११ ॥

यत् अक्षासु मनो-बुद्धिस्तत्त्व-दृग् ध्वस्त-बन्धनः।
आस्थितः परमं योगं न देहं बुबुधे गतम् ॥ १२ ॥

अथ इन्द्रो वज्र-मुद्यम्य निर्मितं विश्वकर्मणा।
मुनेः शक्तिभिर् उत्सिक्तो भगवत्तेज-सान्वितः ॥ १३ ॥

वृतो देवगणैः सर्वैः गजेन्द्र-पर्यशोभत।
स्तूयमानो मुनिगणैः त्रैलोक्यं हर्षयन्निव ॥ १४ ॥

वृत्रम् अभ्यद्रवच्छेत्तु म असुर-नीक-यूथ-पैः।
पर्यस्तम् ओजसा राजन् क्रुद्धो रुद्र इवान्तकम् ॥ १५ ॥

ततः सुराणाम् असुरैः रणः परम-दारुणः।
त्रेतामुखे नर्मदायाम् अभवत् प्रथमे युगे ॥ १६ ॥

रुद्रैः वसुभिर् आदित्यैर् अश्विभ्यां पितृवह्निभिः।
मरुद्भिः ऋभुभिः साध्यैः विश्वेदेवैर् मरुत्पतिम् ॥ १७ ॥

दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया।
नामृष्यन् असुरा राजन् मृधे वृत्र-पुरः सराः ॥ १८ ॥

नमुचिः शम्बरोऽनर्वा द्विमूर्धा ऋषभोऽम्बरः।
हयग्रीवः शङ्कु-शिरा विप्र-चित्तिर-योमुखः ॥ १९ ॥

पुलोमा वृषपर्वा च प्रहेतिर्हेतिर् उत्कलः।
दैतेया दानवा यक्षा रक्षांसि च सहस्रशः ॥ २० ॥

श्री-शुक उवाच –

सुमालि-मालि-प्रमुखाः कार्त-स्वर-परिच्छदाः।
प्रतिषिध्येन्द्र-सेनाग्रं मृत्योरपि दुरासदम् ॥ २१ ॥

अभ्यर्दयन् न-सम्भ्रान्ताः सिंह-नादेन दुर्मदाः।
गदाभिः परिघैः बाणैः प्रास-मुद्-गरतोमरैः ॥ २२ ॥

शूलैः परश्वधैः खड्गैः शत-घ्नीभिः भुशुण्डिभिः।
सर्वतोऽवाकिरन् शस्त्रैर् अस्त्रैः च विवुध-र्षभान् ॥ २३ ॥

न ते अदृश्यन्त सञ्ज्छन्नाः शर-जालैः समन्ततः।
पुङ्खानु-पुङ्ख-पतितैर्ज्योतींषीव नभो-घनैः ॥ २४ ॥

न ते शस्त्रास्त्र-वर्ष-उघाः ह्याः एदुः सुर-सैनिकान्।
छिन्नाः सिद्ध-पथे देवैः लघु-हस्तैः सहस्रधा ॥ २५ ॥

अथ क्षीणास्त्र-शस्त्र-उघाः गिरि-श्रृङ्ग-द्रुम-उपलैः।
अभ्यवर्षन् सुरबलं च छिद्दुस्तांश्च पूर्ववत् ॥ २६ ॥

तान् अक्षितान् स्वस्तिमतो निशाम्य
शस्त्रास्त्र-पूगैरथ वृत्रनाथाः।
द्रुमैर्दृषद्भिर्विविधाद्रि-श्रृङ्गैः
अविक्षतांस्तत्र सुरिन्द्र-सैनिकान् ॥ २७ ॥

सर्वे प्रयासाः अभवन् विमोघाः
कृताः कृता देवगणेषु दैत्यैः।
कृष्णानु-कूलेषु यथा महत्सु
क्षुद्रैः प्रयुक्ता रुशती रूक्षवाचः ॥ २८ ॥

ते स्व-प्रयासं वितथं निरीक्ष्य
हरा-भक्ताः हत-युद्ध-दर्पाः।
पलायनाय अजिमुखे विसृज्य
पतिं मनस्ते दधुरात्तसाराः ॥ २९ ॥

वृत्रोऽसुरान् तान् अनुगान् मनस्वी
प्रधावतः प्रेक्ष्य बभाष एतत्।
पलायितं प्रेक्ष्य बलं च भग्नं
भयेन तीव्रेण विहस्य वीरः ॥ ३० ॥

कालोपपन्नां रुचिरां मनस्विना-
मुवाच वाचं पुरुष-प्रवीरः।
हे विप्रचित्ते नमुचे पुलोमन्
मयानर्वं चम्बर मे श्रृणुध्वम् ॥ ३१ ॥

जातस्य मृत्युर्ह्रुव एव सर्वतः
प्रतिक्रिया यस्य न चेह कृप्ता।
लोको यशश्चाथ ततो यदि ह्यम् उं
को नाम मृत्युं न वृणीत युक्तम् ॥ ३२ ॥

द्वौ सम्मताविह मृत्यू दुरापौ
यद् ब्रह्म-सन्धारणया जितासुः।
कलेवरं योग-रतो विजह्याद्
यद् अग्रणीर्वीर-शयेऽनिवृत्तः ॥ ३३ ॥

॥ इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठ-स्कन्धे इन्द्र-वृत्र-आसुर-युद्ध-वर्णनं नाम दशमोऽध्यायः ॥ १० ॥

No comments: