தேவர்கள் விஷ்ணுவிடம் பிரார்த்தித்தனர்
ஸ்கந்தம் 8: அத்யாயம் 6
श्रीशुक उवाच
एवम् स्तुतः सुर-गणैः भगवान् हरिः ईश्वरः।
तेषाम् आविरभूत् राजन् सहस्र-अर्क-उदय-द्युतिः॥ १॥
तेन एव महसा सर्वे देवाः प्रतिहत-ईक्षणाः।
न अपश्यन् खम् दिशः क्षौणीम् आत्मानम् च कुतः विभुम्॥ २॥
विरिञ्चः भगवान् दृष्ट्वा सह शर्वेण ताम् तनुम्।
स्वच्छाम् मरकत-श्यामाम् कञ्ज-गर्भ-अरुण-ईक्षणाम्॥ ३॥
तप्त-हेम-अवदातेन लसत्-कौशेय-वाससा।
प्रसन्न-चारु-सर्व-अङ्गीम् सु-मुखीम् सुन्दर-भ्रुवम्॥ ४॥
महा-मणि-किरीटेन केयूराभ्याम् च भूषिताम्।
कर्ण-आभरण-निर्भात-कपोल-श्री-मुख-अम्बुजाम्॥ ५॥
काञ्ची-कलाप-वलय-हार-नूपुर-शोभिताम्।
कौस्तुभ-आभरणाम् लक्ष्मीं बिभ्रतीम् वन-मालिनीम्॥ ६॥
सुदर्शन-आदिभिः स्व-अस्त्रैः मूर्तिमद्भिः उपासिताम्।
तुष्टाव देव-प्रवरः स-शर्वः पुरुषम् परम्॥
सर्व-अमर-गणैः साकम् सर्व-अङ्गैः अवनिम् गतैः॥ ७॥
श्रीब्रह्मोवाच
अजात-जन्म-स्थिति-संयम-आय गुणाय निर्वाण-सुख-अर्णवाय।
अणोः अणिम्ने अपरिगण्य-धाम्ने महानुभावाय नमः नमः ते॥ ८॥
रूपम् तव एतत् पुरुष-ऋषभ-ईज्यम् श्रेयः-अर्थिभिः वैदिक-तान्त्रिकेण।
योगेन धातः सह नः त्रि-लोकान् पश्यामि अमुष्मिन् नु ह विश्व-मूर्तौ॥ ९॥
त्वयि अग्र आसीत् त्वयि मध्ये आसीत् त्वयि अन्ते आसीत् इदम् आत्म-तन्त्रे।
त्वम् आदि-ः अन्तः जगतः अस्य मध्यं घटस्य मृत्स्ना इव परः परस्मात्॥ १०॥
त्वम् मायया आत्म-आश्रयया स्वयम् इदम् निर्माय विश्वम् तत् अनुप्रविष्टः।
पश्यन्ति युक्ताः मनसा मनीषिणः गुण-व्यवाये अपि अगुणम् विपश्चितः॥ ११॥
यथा अग्नि-मेधसि अमृतम् च गोषु भुवि अन्नम् अम्बु उद्यमने च वृत्तिम्।
योगैः मनुष्याः अधियन्ति हि त्वाम् गुणेषु बुद्ध्या कवयः वदन्ति॥ १२॥
तम् त्वाम् वयम् नाथ समुज्जिहानम् सरोज-नाभ-अति-चिर-इप्सित-अर्थम्।
दृष्ट्वा गताः निर्वृतम् अद्य सर्वे गजा-द्व-अर्ताः इव गाङ्गम् अम्भः॥ १३॥
सः त्वम् विधत्स्व अखिल-लोक-पालाः वयम् यत्-अर्थः तव पाद-मूलम्।
समागताः ते बहिः अन्तर्-आत्मन् किम् वा अन्यम् विज्ञाप्यम् अशेष-साक्षिणः॥ १४॥
अहम् गिरित्रः च सुर-आदयः ये दक्ष-आदयः अग्नेः इव केतवः ते।
किम् वा विदाम ईश पृथक्-विभाताः विधत्स्व शं नः द्विज-देव-मंत्रम्॥ १५॥
श्रीशुक उवाच
एवम् विरिञ्च-आदिभिः ईडितः तत् विज्ञाय तेषाम् हृदयम् तथा एव।
जगाद जीमूत-गभीरया गिरा बद्ध-अञ्जलीन् संवृत-सर्व-कारकान्॥ १६॥
एकः एव ईश्वरः तस्मिन् सुर-कार्ये सुर-ईश्वरः।
विहर्तु-कामः तान् आह समुद्र-उन्मथन-आदिभिः॥ १७॥
श्रीभगवानुवाच
हन्त ब्रह्मन् अहः शम्भो हे देवा मम भाषितम्।
श्रुणुत अवहिताः सर्वे श्रेयः वः स्यात् यथा सुराः॥ १८॥
यात दानव-दैतेयैः तावत् सन्धिः विधीयताम्।
कालेन अनुगृहीतैः तैः यावत् वः भव आत्मनः॥ १९॥
अरयः अपि हि सन्धेयाः सति कार्य-अर्थ-गौरवे।
अहि-मूषिक-वत् देवा हि अर्थस्य पदवीं गतैः॥ २०॥
अमृत-उत्पादने यत्नः क्रियताम् अविलम्बितम्।
यस्य पीतस्य वै जन्तुः मृत्युः-ग्रस्तः अमरः भवेत्॥ २१॥
क्षिप्त्वा क्षीर-उदधौ सर्वाः वीरु-त्तृण-लता-औषधीः।
मन्थानम् मन्दरम् कृत्वा नेत्रम् कृत्वा तु वासुकिम्॥ २२॥
सहायेन मया देवाः निर्-मन्थध्वम् अ-तन्द्रिताः।
क्लेश-भाजः भविष्यन्ति दैत्याः यूयम् फल-ग्रहाः॥ २३॥
यूयम् तत् अनुमोदध्वम् यत् इच्छन्ति असुराः सुराः।
न सन्-रम्भेण सिध्यन्ति सर्वे अर्थाः सान्त्वया यथा॥ २४॥
न भेतव्यम् कालकूटात् विषात् जलधि-सम्भवात्।
लोभः कार्यः न वः जातु रोषः कामः तु वस्तुषु॥ २५॥
श्रीशुक उवाच
इति देवान् समादिश्य भगवान् पुरुष-उत्तमः।
तेषाम् अन्तर्-दधे राजन् स्वच्छन्द-गतिः ईश्वरः॥ २६॥
अथ तस्मै भगवते नमस्कृत्य पितामहः।
भवः च जग्मतुः स्वम् स्वम् धाम-उपेयूः बलिम् सुराः॥ २७॥
दृष्ट्वा अरीन् अपि अ-संयत्तान् जात-क्षोभान् स्व-नायकान्।
न्यषेधत् दैत्य-राट् श्लोक्यः सन्धि-विग्रह-काल-वित्॥ २८॥
ते वैरोचनिम् आसीनम् गुप्तम् च असुर-यूथ-पैः।
श्रिया परमया जुष्टम् जित-अशेषम् उपागमन्॥ २९॥
महेन्द्रः श्लक्ष्णया वाचा सान्त्वयित्वा महा-मतिः।
अभ्यभाषत तत् सर्वम् शिक्षितम् पुरुष-उत्तमात्॥ ३०॥
तत् अरोचत दैत्यस्य तत्र अन्ये ये असुर-आधिपाः।
शम्बरः अरिष्ट-नेमिः च ये च त्रिपुर-वासिनः॥ ३१॥
ततः देव-असुराः कृत्वा संविदम् कृत-सौहृदाः।
उद्यमम् परमम् चक्रुः अमृत-अर्थे परन्तप॥ ३२॥
ततः ते मन्दर-गिरिम् ओजसा उत्पाट्य दुर्मदाः।
नदन्तः उदधिम् निन्युः शक्ताः परिघ-बाहवः॥ ३३॥
दूर-भार-उद्वह-श्रान्ताः शक्र-वairoचना-आदयः।
अ-पारयन्तः तम् वोढुम् विवशाः विजहुः पथि॥ ३४॥
निपतन् गिरिः तत्र बहून् अमर-दानवान्।
चूर्णयामास महता भारेण कनक-आचलः॥ ३५॥
तान् तथा भग्न-मनसः भग्न-बाहु-ऊरु-कन्धरान्।
विज्ञाय भगवान् तत्र बभूव गरुड-ध्वजः॥ ३६॥
गिरि-पात-विनिष्पिष्टान् विलोक्य अमर-दानवान्।
ईक्षया जीवयामास निर्जरान् निर्व्रणान् यथा॥ ३७॥
गिरिम् च आरोप्य गरुडे हस्तेन एकेन लीलया।
आरुह्य प्रययौ अब्धिम् सुर-असुर-गणैः वृतः॥ ३८॥
अवरोप्य गिरिम् स्कन्धात् सुपर्णः पतताम् वरः।
ययौ जल-अन्तः उत्सृज्य हरिणा स विसर्जितः॥ ३९॥
No comments:
Post a Comment