Followers

Search Here...

Friday, 18 July 2025

ஸ்கந்தம் 9: அத்யாயம் 16 (பரசுராமர் 21 தலைமுறை க்ஷத்ரியர்களை ஒழித்தார்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

பரசுராமர் 21 தலைமுறை க்ஷத்ரியர்களை ஒழித்தார்

ஸ்கந்தம் 9: அத்யாயம் 16

श्री-शुक उवाच
पितृ-उपशिक्षितः रामः तथा इति कुरु-नन्दन।
संवत्सरम् तीर्थ-यात्राम् चरित्वा आश्रमम् आव्रजत् ॥ १ ॥

कदाचित् रेणुका याता गङ्गायाम् पद्म-मालिनम्।
गन्धर्व-राजम् क्रीडन्तम् अप्सरोभिः अपश्यत ॥ २ ॥

विलोकयन्ती क्रीडन्तम् उदक-अर्थम् नदीम् गता।
होम-वेलाम् न सस्मार किञ्चित् चित्र-रथ-स्पृहा ॥ ३ ॥

काल-अत्ययम् तम् विलोक्य मुनिः शाप-विशङ्किता।
आगत्य कलशम् तस्थौ पुरः धाय कृत-अञ्जलिः ॥ ४ ॥

व्यभिचारम् मुनिः ज्ञात्वा पत्न्याः प्रकुपितः अब्रवीत्।
घ्नत एनाम् पुत्रकाः पापाम् इति उक्ताः ते न चक्रिरे ॥ ५ ॥

रामः सञ्चोदितः पित्रा भ्रातॄन् मात्रा सह अवधीत्।
प्रभाव-ज्ञः मुनेः सम्यक् समाधेः तपसः च सः ॥ ६ ॥

वरेण अछन्दयामास प्रीतः सत्यवती-सुतः।
वव्रे हतानाम् रामः अपि जीवितम् च अस्मृतिम् वधे ॥ ७ ॥

उत्तस्थुः ते कुशलिनः निद्रा-अपायात् इव अञ्जसा।
पितुः विद्वान् तपः-वीर्यम् रामः चक्रे सुहृत्-वधम् ॥ ८ ॥

ये अर्जुनस्य सुता राजन् स्मरन्तः स्व-पितुः वधम्।
राम-वीर्य-पराभूताः लेभिरे शर्म न क्वचित् ॥ ९ ॥

एकदा आश्रमतः रामे स-भ्रातरि वनम् गते।
वैरम् सिसाधयिषवः लब्ध-छिद्राः उपागमन् ॥ १० ॥

दृष्ट्वा अग्नि-आगार-आसीनम् आवेशित-धियम् मुनिम्।
भगवति उत्तम-श्लोके जघ्नुः ते पाप-निश्चयाः ॥ ११ ॥

याच्यमानाः कृपणया राम-मात्रा अति-दारुणाः।
प्रसह्य शिरः उत्कृत्य निन्युः ते क्षत्र-बन्धवः ॥ १२ ॥

रेणुका दुःख-शोक-आर्ता निघ्नन्ती आत्मानम् आत्मना।
राम राम इहि तात इति विचुक्रोश उच्छकैः सती ॥ १३ ॥

तत् उपश्रुत्य दूर-स्था हा राम इति आर्त-वत्-स्वनम्।
त्वरया आश्रमम् आसाद्य ददृशे पितरम् हतम् ॥ १४ ॥

तत् दुःख-रोष-अमर्ष-आर्ति-शोक-वेग-विमोहितः।
हा तात साधो धर्मिष्ठ त्यक्त्वा अस्मान् स्वर्गतः भवान् ॥ १५ ॥

विलप्य एवम् पितुः देहम् निधाय भ्रातृषु स्वयम्।
प्रगृह्य परशुम् रामः क्षत्र-अन्ताय मनः दधे ॥ १६ ॥

गत्वा माहिष्मतीम् रामः ब्रह्म-घ्न-विहत-श्रियम्।
तेषाम् सः शीर्ष-भी राजन् मध्ये चक्रे महा-गिरिम् ॥ १७ ॥

तत् रक्तेन नदीम् घोराम् अब्रह्मण्य-अभय-आवहाम्।
हेतुम् कृत्वा पितृ-वधम् क्षत्रे अमङ्गल-कारिणि ॥ १८ ॥

त्रिः-सप्त-कृत्वः पृथिवीम् कृत्वा निः-क्षत्रियाम् प्रभुः।
समन्त-पञ्चके चक्रे शोणित-उदान् ह्रदान् नृप ॥ १९ ॥

पितुः कायेन सन्धाय शिरः आदाय बर्हिषि।
सर्व-देव-मयम् देवं आत्मानम् अयजत् मखैः ॥ २० ॥

ददौ प्राचीम् दिशम् होत्रे ब्रह्मणे दक्षिणाम् दिशम्।
अध्वर्यवे प्रतीचीम् वै उद्गात्रे उत्तराम् दिशम् ॥ २१ ॥

अन्येभ्यः आवान्तर-दिशः कश्यपाय च मध्यतः।
आर्यावर्तम् उपद्रष्ट्रे सदस्येभ्यः ततः परम् ॥ २२ ॥

ततः च अवभृथ-स्नानम् विधूत-अशेष-किल्बिषः।
सरस्वत्याम् ब्रह्म-नद्याम् रेजे व्यभ्रः इव अंशुमान् ॥ २३ ॥

स्व-देहम् जमदग्निः तु लब्ध्वा संज्ञान-लक्षणम्।
ऋषीणाम् मण्डले सः अभूत् सप्तमः राम-पूजितः ॥ २४ ॥

जामदग्न्यः अपि भगवान् रामः कमल-लोचनः।
आगामिनि अन्तरे राजन् वर्तयिष्यति वै बृहत् ॥ २५ ॥

आस्ते अद्य अपि महेन्द्र-अद्रौ न्यस्त-दण्डः प्रशान्त-धीः।
उपगीयमान-चरितः सिद्ध-गन्धर्व-चारणैः ॥ २६ ॥

एवम् भृगुषु विश्व-आत्मा भगवान् हरिः ईश्वरः।
अवतीर्य परम् भारम् भुवः अहन् बहुशः नृपान् ॥ २७ ॥

गाधेः अभूत् महा-तेजाः समिद्धः इव पावकः।
तपसा क्षात्रम् उत्सृज्य यः लेभे ब्रह्म-वर्चसम् ॥ २८ ॥

विश्वामित्रस्य च एव आसन् पुत्राः एक-शतम् नृप।
मध्यमः तु मधुच्छन्दा मधुच्छन्दसः एव ते ॥ २९ ॥

पुत्रम् कृत्वा शुनः-शेपम् देवरातम् च भार्गवम्।
आजीगर्तम् सुतान् आह ज्येष्ठः एषः प्रकल्प्यताम् ॥ ३० ॥

यः वै हरिश्चन्द्र-मखे विक्रीतः पुरुषः पशुः।
स्तुत्वा देवान् प्रजेश-आदीन् मुमुचे पाश-बन्धनात् ॥ ३१ ॥

यः रातः देव-यजने देवैः गाधिषु तापसः।
देवरातः इति ख्यातः शुनः-शेपः सः भार्गवः ॥ ३२ ॥

ये मधुच्छन्दसः ज्येष्ठाः कुशलम् मेनिरे न तत्।
अशपत् तान् मुनिः क्रुद्धः म्लेच्छाः भवत दुर्जनाः ॥ ३३ ॥

सः होवाच मधुच्छन्दाः सार्धम् पञ्चाशता ततः।
यत् नः भवान् संजानीते तस्मिन् तिष्ठामहे वयम् ॥ ३४ ॥

ज्येष्ठम् मन्त्र-दृशम् चक्रुः त्वाम् अन्वञ्चः वयम् स्म हि।
विश्वामित्रः सुतान् आह वीर-वन्तः भविष्यथ।**
ये मानम् मे अनुगृह्णन्तः वीर-वन्तम् अकर्त माम् ॥ ३५ ॥

एषः वः कुशिका वीरः देवरातः तम् अन्वितः।
अन्ये च अष्टक-हारीत-जय-क्रतु-मद-आदयः ॥ ३६ ॥

एवम् कौशिक-गोत्रम् तु विश्वामित्रैः पृथक्-विदम्।
प्रवर-अन्तरम् आपन्नम् तत् हि च एवम् प्रकल्पितम् ॥ ३७ ॥

इति श्रीमद्भागवते महा-पुराणे पारमहंस्याम्
संहितायाम् नवम-स्कन्धे षोडशः अध्यायः ॥ १६ ॥

No comments:

Post a Comment