Followers

Search Here...

Sunday, 20 July 2025

ஸ்கந்தம் 8: அத்யாயம் 10 (தேவ அசுர யுத்தம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

தேவ அசுர யுத்தம்

ஸ்கந்தம் 8: அத்யாயம் 10

श्री-शुक उवाच
इति दानव-दैतेयाः न अविन्दन् अमृतम् नृप।
युक्ताः कर्मणि यत् ताः च वासुदेव-पराङ्मुखाः॥ 1॥


साधयित्वा अमृतम् राजन् पाययित्वा स्वकान् सुरान्।
पश्यतां सर्व-भूतानां ययौ गरुड-वाहनः॥ 2॥


सपत्नानां परा-अमृद्धिम् दृष्ट्वा ते दिति-नन्दनाः।
अमृष्यमाणाः उत्पेतुः देवान् प्रत्युद्यत-आयुधाः॥ 3॥


ततः सुर-गणाः सर्वे सुधया पीतया इधिताः।
प्रतिसंयुयुधुः शस्त्रैः नारायण-पद-आश्रयाः॥ 4॥


तत्र दैत्य-असुरः नाम रणः परम-दारुणः।
रोधसि उदन्वतः राजन् तुमुलः रोम-हर्षणः॥ 5॥


तत्र अन्योन्यम् सपत्नाः ते संरब्ध-मनसः रणे।
समासाद्य असिभिः बाणैः निजघ्नुः विविध-आयुधैः॥ 6॥


शङ्ख-तूर्य-मृदङ्गानां भेरी-डमरिणां महान्।
हस्ति-अश्व-रथ-पत्तीनां नदतां निःस्वनः अभवत्॥ 7॥


रथिनः रथिभिः तत्र पत्तिभिः सह पत्तयः।
हयाः हयैः इभाः च इभैः समसज्जन्त संयुगे॥ 8॥


उष्ट्रैः केचित् इभैः केचित् अपरे युयुधुः खरैः।
केचित् गौर-मृगैः ऋक्षैः द्वीपिभिः हरिभिः भटाः॥ 9॥


गृध्रैः कङ्कैः बकैः अन्ये श्येन-भासैः तिमिङ्गिलैः।
शरभैः महिषैः खड्गैः गो-वृषैः गवय-अरुणैः॥ 10॥


शिवाभिः आखुभिः केचित् कृकलासैः शशैः नरैः।
बस्तैः एके कृष्ण-सारैः हंसैः अन्ये च सूकरैः॥ 11॥


अन्ये जल-स्थल-खगैः सत्त्वैः विकृत-विग्रहैः।
सेनयोः उभयोः राजन् विविशुः ते अग्रतः-अग्रतः॥ 12॥


चित्र-ध्वज-पटैः राजन् आतपत्रैः सित-अमलैः।
महाधनैः वज्र-दण्डैः व्यजनैः बार्ह-चामरैः॥ 13॥


वात-उद्धूत-उत्तरोष्णीषैः अर्चिभिः वर्म-भूषणैः।
स्फुरद्भिः विशदैः शस्त्रैः सुतरां सूर्य-रश्मिभिः॥ 14॥


देव-दानव-वीराणां ध्वजिन्यौ पाण्डु-नन्दन।
रेजतुर्वीर-मालाभिः यादसाम् इव सागरौ॥ 15॥


वैरोचनः बलिः सङ्ख्ये सः असुराणां चमू-पतिः।
यानम् वैहायसम् नाम कामगम् मय-निर्मितम्॥ 16॥


सर्व-साङ्ग्रामिक-उपेतम् सर्व-आश्चर्य-मयं प्रभो।
अप्रतर्क्यम् अनिर्देश्यं दृश्यमानम् अदर्शनम्॥ 17॥


आस्थितः तत् विमान-अग्र्यम् सर्व-अनीक-अधिपैः वृतः।
वाल-व्यजन-छत्र-अग्र्यैः रेजे चन्द्रः इव उदये॥ 18॥


तस्य आसन् सर्वतः यानैः यूथानां पतयः असुराः।
नमुचिः शम्बरः बाणः विप्रचित्तिः अयःमुखः॥ 19॥


द्वि-मूर्धा काल-नाभः अथ प्रहेतिः हेति-रिल्वलः।
शकुनिः भूत-सन्तापः वज्र-दंष्ट्रः विरोचनः॥ 20॥

हयग्रीवः शङ्कु-शिराः कपिलः मेघ-दुन्दुभिः।
तारकः चक्र-दृक् शुम्भः निशुम्भः जम्भः उत्कलः॥ 21॥


अरिष्टः अरिष्ट-नेमिः च मयः च त्रिपुर-आधिपः।
अन्ये पौलोम-कालेयाः निवात-कवच-आदयः॥ 22॥


अलब्ध-भागाः सोमस्य केवलम् क्लेश-भागिनः।
सर्वे एते रण-मुखे बहुशः निर्जित-अमराः॥ 23॥


सिंहनादान् विमुञ्चन्तः शङ्खान् दध्मुः महा-रवान्।
दृष्ट्वा सपत्नान् उत्सिक्तान् बल-भित् कुपितः भृशम्॥ 24॥


ऐरावतं दिक्-करिणम् आरूढः शुशुभे स्व-राट्।
यथा स्रवत्-प्रस्रवणम् उदय-अद्रि-महः-पतिः॥ 25॥


तस्य आसन् सर्वतः देवा नाना-वाह-ध्वज-आयुधाः।
लोक-पालाः सह गणैः वायु-अग्नि-वरुण-आदयः॥ 26॥


ते अन्योन्यम् अभि-संसृत्य क्षिपन्तः मर्मभिः मिथः।
आह्वयन्तः विशन्तः अग्रे युयुधुः द्वन्द्व-योधिनः॥ 27॥


युयोध बलिः इन्द्रेण तारकेण गुहः अस्यत।
वरुणः हेतिना आयुध्यन् मित्रः राजन् प्रहेतिना॥ 28॥


यमः तु काल-नाभेन विश्वकर्मा मयेन वै।
शम्बरः युयुधे त्वष्ट्रा सवित्रा तु विरोचनः॥ 29॥


अपराजितेन नमुचिः अश्विनौ वृष-पर्वणा।
सूर्यः बलि-सुतैः देवः बाण-ज्येष्ठैः शतेन च॥ 30॥


राहुणा च तथा सोमः पुलोम्ना युयुधे अनिलः।
निशुम्भ-शुम्भयोः देवि भद्र-काली तरस्विनी॥ 31॥


वृषाकपिः तु जम्भेन महिषेण विभावसुः।
इल्वलः सह वातापिः ब्रह्म-पुत्रैः अरिन्दम॥ 32॥


काम-देवेन दुर्मर्षः उत्कलः मातृभिः सह।
बृहस्पतिः च उशनसा नरकेण शनैश्चरः॥ 33॥


मरुतः निवात-कवचैः कालेयैः वसवः अमराः।
विश्वे-देवाः तु पौलोमै रुद्राः क्रोध-वशैः सह॥ 34॥


ते एवम् आजौ असुराः सुरेन्द्राः
द्वन्द्वेन संहत्य च युध्यमानाः।
अन्योन्यम् आसाद्य निजघ्नुः ओजसा
जिगीषवः तीक्ष्ण-शर-असितोमरैः॥ 35॥


भुशुण्डिभिः चक्र-गद-ऋष्टि-पट्टिशैः
शक्ति-उल्मुकैः प्रास-परश्वधैः अपि।
निस्त्रिंश-भल्लैः परिघैः समुद्गरैः
सभिन्दि-पालैः च शिरांसि चिच्छिदुः॥ 36॥


गजाः तुरङ्गाः सरथाः पदातयः
सारोह-वाहाः विविधाः विखण्डिताः।
निकृत्त-बाहु-ऊरु-शिरः-उदर-अङ्घ्रयः
छिन्न-ध्वज-ईषु-आस-तनु-त्र-भूषणाः॥ 37॥


तेषां पदा-आघात-रथ-अङ्ग-चूर्णिता-
दायोधनात् उल्बणः उत्थितः तदा।
रेणुः दिशः खं द्युमणिं च छादयन्
न्यवर्तत आसृक्-स्रुतिभिः परिप्लुतात्॥ 38॥


शिरोभिः उद्धूत-किरीट-कुण्डलैः
संरम्भ-दृग्भिः परिदष्ट-दच्छदैः।
महाभुजैः सा-भरणैः सह-आयुधैः
सा प्रास्तृता भूः करभोरुभिः बभौ॥ 39॥


कबन्धाः तत्र च उत्पेतुः पतित-स्व-शिरः-अक्षिभिः।
उद्यत-आयुध-दोर्दण्डैः आघावन्तः भटान् मृधे॥ 40॥

बलिः महेन्द्रं दशभिः त्रिभिः ऐरावतं शरैः।
चतुर्भिः चतुरः वाहान् एकेन आरोहम् आर्च्छयत्॥ 41॥

स तान् आपततः शक्रः तावद्भिः शीघ्र-विक्रमः।
चिच्छेद निशितैः भल्लैः असम्प्राप्तान् हसन्निव॥ 42॥

तस्य कर्म-उत्तमं वीक्ष्य दुर्मर्षः शक्तिम् आददे।
तां ज्वलन्तीं महा-उल्का-आभां हस्त-स्थाम् अछिनत् हरिः॥ 43॥

ततः शूलं ततः प्रासं ततः तोमरम् ऋष्टयः।
यत् यत् शस्त्रं समादद्यत् सर्वं तत् अछिनद् विभुः॥ 44॥

ससर्ज अथ आसुरीं मायाम् अन्तर्धान-गतः असुरः।
ततः प्रादुरभूत् शैलः सुर-आनीक-उपरी प्रभो॥ 45॥

ततः निपेतुः तरवः दह्यमानाः दव-अग्निना।
शिलाः स-टङ्क-शिखराः चूर्णयन्त्यः द्विषद्-बलम्॥ 46॥

महा-उरगाः समुत्पेतुः दन्दशूकाः स-वृश्चिकाः।
सिंह-व्याघ्र-वराहाः च मर्दयन्तः महा-गजान्॥ 47॥

यातुधान्यः च शतशः शूल-हस्ताः विवाससः।
"छिन्धि भिन्धि" इति वादिन्यः तथा रक्षः-गणाः प्रभो॥ 48॥

ततः महा-घनाः व्योम्नि गम्भीर-परुष-स्वनाः।
अङ्गारान् मुमुचुः वातैः आहताः स्तनयित्नवः॥ 49॥

सृष्टः दैत्येन सुमहान् वह्निः श्वसन-सारथिः।
सांवर्तकः इव अत्युग्रः विबुध-ध्वजिनीम् अदह्क्॥ 50॥

ततः समुद्रः उद्वेलः सर्वतः प्रत्यदृश्यत।
प्रचण्ड-वातैः उद्दूत-तरङ्ग-आवर्त-भीषणः॥ 51॥

एवं दैत्यैः महा-मायैः अलक्ष्य-गतिभिः भीषणैः।
सृज्यमानासु मायासु विषेदुः सुर-सैनिकाः॥ 52॥

न तत् प्रतिविधिं यत्र विदुः इन्द्र-आदयः नृप।
ध्यातः प्रादुरभूत् तत्र भगवान् विश्व-भावनः॥ 53॥

ततः सुपर्ण-अंस-कृत-अङ्घ्रि-पल्लवः
पिशङ्ग-वासा नव-कञ्ज-लोचनः।
अदृश्यत अष्ट-आयुध-बाहुः उल्लसत्
श्री-कौस्तुभ-अनर्घ्य-किरीट-कुण्डलः॥ 54॥

तस्मिन् प्रविष्टे असुर-कूट-कर्मजा
माया विनेशुः महिना महीयसः।
स्वप्नः यथा हि प्रति-बोधे आगते
हरि-स्मृतिः सर्व-विपद्-विमोक्षणम्॥ 55॥

दृष्ट्वा मृधे गरुड-वाहम् इभ-अरि-वाहः
आविध्य शूलम् अहिनोत् अथ काल-नेमिः।
तत् लीलया गरुड-मूर्ध्नि पतत् गृहीत्वा
तेन आहनत् नृप स-वाहम् अरिं त्रि-अधीशः॥ 56॥

माली सुमाली अति-बलौ युधि पेततुḥ यत्
चक्रेण कृत-शिरसौ अथ माल्यवान् तम्।
आहत्य तिग्म-गदया अहनत् अण्ड-ज-इन्द्रम्
तावत् शिरः अछिनत् अरेः नदतः अरिणा आद्यः॥ 57॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे देवासुरसङ्ग्रामे दशमोऽध्यायः ॥ 10 ॥

 

No comments:

Post a Comment