துர்வாசர் முனிவர் செய்த பாகவத அபசாரம்
ஸ்கந்தம் 9: அத்யாயம் 5
श्रीशुक उवाच
एवम् भगवता आदिष्टः दुर्वासा चक्र-तातितः।
अम्बरीषम् उपावृत्य तत्-पादौ दुःखितः अग्रहीत्॥ 1
तस्य सोद्यमनं वीक्ष्य पाद-स्पर्श-विलज्जितः।
अस्तावीत् तत् हरेः अस्त्रं कृपया पीडितः भृशम्॥ 2
अम्बरीष उवाच
त्वम् अग्निः भगवान् सूर्यः त्वम् सोमः ज्योतिषाम् पतिः।
त्वम् आपः त्वम् क्षितिः व्योम वायुः मात्र-इन्द्रियाणि च॥ 3
सुदर्शन नमः तुभ्यम् सहस्र-आरात् अच्युत-प्रिय।
सर्व-अस्त्र-घातिन् विप्राय स्वस्ति भूयात् इडस्पते॥ 4
त्वम् धर्मः त्वम् ऋतम् सत्यं त्वम् यज्ञः अखिल-यज्ञ-भुक्।
त्वम् लोक-पालः सर्व-आत्मा त्वम् तेजः पौरुषं परम्॥ 5
नमः सुनाभ अखिल-धर्म-सेतवे
हि अधर्म-शील-असुर-धूम-केतवे।
त्रैलोक्य-गोपाल विशुद्ध-वर्चसे
मनः-जवाय अद्भुत-कर्मणे गृणे॥ 6
त्वत्-तेजसा धर्म-मयेन संहृतं
तमः प्रकाशः च दृशः महा-आत्मनाम्।
दुरत्ययः ते महिमा गिरां पते
त्वत्-रूपम् एतत् सद्-असत् पर-आवरम्॥ 7
यदा विसृष्टः त्वम् अनञ्जनेन वै
बलं प्रविष्टः अजित दैत्य-दानवम्।
बाहु-उदर-उरु-अङ्घ्रि-शिरः-उदराणि
वृक्णन् अजस्रम् प्रधने विराजसे॥ 8
सः त्वं जगत्-त्राण खल-प्रहाणये
निरूपितः सर्व-सहः गदा-भृता।
विप्रस्य च अस्मत्-कुल-दैव-हेतवे
विधेहि भद्रं तत् अनुग्रहः हि नः॥ 9
यत् अस्ति दत्तम् इष्टं वा स्व-धर्मः वा स्व-अनुष्ठितः।
कुलं नः विप्र-दैवं चेत् द्विजः भवतु विज्वरः॥ 10
यदि नः भगवान् प्रीतः एकः सर्व-गुण-आश्रयः।
सर्व-भूत-आत्म-भावेन द्विजः भवतु विज्वरः॥ 11
श्रीशुक उवाच
इति संस्तुवतः राज्ञः विष्णु-चक्रम् सुदर्शनम्।
अशाम्यत् सर्वतः विप्रं प्रदहद् राज-याचनया॥ 12
सः मुक्तः अस्त्र-अग्नि-तापेन दुर्वासाः स्वस्ति-मान् ततः।
प्रशशंस तम् उर्वी-शं युञ्जानः परम-आशिषः॥ 13
दुर्वासा उवाच
अहो अनन्त-दासानाम् महत्त्वं दृष्टम् अद्य मे।
कृत-अगसः अपि यत् राजन् मङ्गलानि समीहसे॥ 14
दुष्करः कः नु साधूनाम् दुस्त्यजः वा महा-आत्मनाम्।
यैः संगृहीतः भगवान् सात्वताम् ऋषभः हरिः॥ 15
यत्-नाम-श्रुति-मात्रेण पुमान् भवति निर्मलः।
तस्य तीर्थ-पदः किम् वा दासानाम् अवशिष्यते॥ 16
राजन् अनुगृहीतः अहं त्वया अति-करुण-आत्मना।
मद्-अघं पृष्ठतः कृत्वा प्राणाः यत् मे अभिरक्षिताः॥ 17
राजा तम् अकृत-आहारः प्रत्यागमन-काङ्क्षया।
चरणौ उपसंगृह्य प्रसाद्य सम् अभोजयत्॥ 18
सः अशित्वा आदृतम् आनीतम् आतिथ्यं सार्व-कामिकम्।
तृप्त-आत्मा नृपतीम् प्राह भुज्यताम् इति स-आदरम्॥ 19
प्रीतः अस्मि अनुगृहीतः अस्मि तव भागवतस्य वै।
दर्शन-स्पर्शन-आलापैः आतिथ्येन आत्म-मेधसा॥ 20
कर्म-अवदातम् एतत् ते गायन्ति स्वः-स्त्रियः मुहुः।
कीर्तिम् परम-पुण्याम् च कीर्तयिष्यति भूः इयम् ॥ २१ ॥
श्री-शुकः उवाच।
एवम् संकीर्त्य राजानम् दुर्वासाः परितोषितः।
ययौ विहायसा आमंत्र्य ब्रह्म-लोकम् अहैतुकम् ॥ २२ ॥
संवत्सरः अति-अगात् तावत् यावता नागतः गतः।
मुनिः तत्-दर्शन-आकाङ्क्षः राजा अब्भक्षः बभूव ह ॥ २३ ॥
गते च दुर्वाससि सः अम्बरीषः
द्विज-उपयोग-अति-पवित्रम् आहरत्।
ऋषेः विमोक्षम् व्यसनम् च बुद्ध्वा
मेने स्व-वीर्यम् च पर-अनुभावम् ॥ २४ ॥
एवम्-विधान-एक-गुणः सः राजा
पर-आत्मनि ब्रह्मणि वासुदेवे।
क्रिया-कलापैः समुवाह भक्तिम्
यया आविरिञ्च्यान् निरयान् च अकार्षीत् ॥ २५ ॥
अथ अम्बरीषः तनयेषु राज्यम्
समान-शीलेषु विसृज्य धीरः।
वनम् विवेश आत्मनि वासुदेवे
मनः दधत् ध्वस्त-गुण-प्रवाहः ॥ २६ ॥
इति एतत् पुण्यम् आख्यानम् अम्बरीषस्य भूपतेः।
संकीर्तयन् अनुसंध्यायन् भक्तः भगवतः भवेत् ॥ २७ ॥
No comments:
Post a Comment