சகர சக்கரவர்த்தி அம்சுமானிடம் ராஜ்யத்தை கொடுத்தார்
ஸ்கந்தம் 9: அத்யாயம் 8
श्रीशुक उवाच
हरितः रोहित-सुतः चम्पः तस्मात् विनिर्मिता।
चम्पा-पुरि सुदेवः अतः विजयः यस्य च आत्मजः॥ 1
भरुकः तत्-सुतः तस्मात् वृकः तस्य अपि बाहुकः।
सः अरिभिः हृत-भूमिः राजा स-भार्यः वनम् आविशत्॥ 2
वृद्धम् तम् पञ्चताम् प्राप्तम् महिषी अनु मरिष्यति।
और्वेण जानता आत्मानम् प्रजा-वन्तम् निवारिता॥ 3
आज्ञाय अस्यै सपत्निभिः गरः दत्तः अन्धसा सह।
सह तेन एव सञ्जातः सगर-अाख्यः महा-यशाः॥ 4
सगरः चक्रवर्ती आसीत् सागरः यत्-सुतैः कृतः।
यः ताल-जङ्घान् यवनान् शकान् हैहय-बर्बरान्॥ 5
न अवधीद् गुरु-वाक्येन चक्रे विकृत-वेषिणः।
मुण्डान् श्मश्रु-धरान् कांश्चित् मुक्त-केश-अर्ध-मुण्डितान्॥ 6
अनन्तर्-वासनः कांश्चित् बहिः-वासनः अपरान्।
सः अश्वमेधैः अयजत सर्व-वेद-सुर-आत्मकम्॥ 7
और्व-उपदिष्ट-योगेन हरिम् आत्मानम् ईश्वरम्।
तस्य उत्सृष्टम् पशुम् यज्ञे जहार अश्वम् पुरन्दरः॥ 8
सुमत्या-तनयाः दृप्ताः पितुः आदेश-कारिणः।
हयम् अन्वेषमाणाः ते समन्तात् न्यखनन् महीम्॥ 9
प्राक्-उदीच्याम् दिशि हयम् ददृशुः कपिल-अन्तिके।
एष वाजि-हरः चौरः आस्ते मीलित-लोचनः॥ 10
हन्यताम् हन्यताम् पापः इति षष्टि-सहस्रिणः।
उदायुधाः अभिययुः उन्मिमेष तदा मुनिः॥ 11
स्व-शरीर-अग्निना तावत् महेन्द्र-हृत-चेतसः।
महत्-व्यतिक्रम-हताः भस्म-सात् अभवन् क्षणात्॥ 12
न साधु-वदः मुनि-कोप-भर्जिताः
नृप-इन्द्र-पुत्राः इति सत्त्व-धामनि।
कथम् तमः रोष-मयं विभाव्यते
जगत्-पवित्र-आत्मनि खे रजः भुवः॥ 13
यस्य इरिता सांख्य-मयी दृढा इह नौः
यया मुमुक्षुः तरते दुरत्ययम्।
भव-अर्णवम् मृत्यु-पथम् विपश्चितः
पर-आत्म-भूतस्य कथम् पृथक् मतिः॥ 14
यो असमञ्जसः इति उक्तः सः केशिन्या नृप-आत्मजः।
तस्य पुत्रः अंशुमान् नाम पितृ-मह-हिते रतः॥ 15
असमञ्जसः आत्मानम् दर्शयन् असमञ्जसम्।
जाति-स्मरः पुरा सङ्गात् योगी योगात् विचालितः॥ 16
आचरन् गर्हितम् लोके ज्ञातीनाम् कर्म विप्रियम्।
सरय्वाम् क्रीडतः बालान् प्रास्यत् उद्वेजयन् जनम्॥ 17
एवं-वृत्तः परित्यक्तः पित्रा स्नेहम् अपोह्य वै।
योग-ऐश्वर्येण बालान् तान् दर्शयित्वा ततः ययौ॥ 18
अयोध्या-वासिनः सर्वे बालकान् पुनरागतान्।
दृष्ट्वा विसिस्मिरे राजन् राजा च अपि अन्वतप्यत॥ 19
अंशुमान् च उदितः राज्ञा तुरङ्ग-अन्वेषणे ययौ।
पितृव्य-खात-अनुपथम् भस्म-अन्ति ददृशे हयम्॥ 20
न पश्यति त्वाम् परम-आत्मनः अजनः
न बुध्यते अद्य अपि समाधि-युक्तिभिः।
कुतः अपरे तस्य मनः-शरीर-धी-
विसर्ग-सृष्टाः वयम् अप्रकाशाः॥ 22
ये देह-भाजः त्रि-गुण-प्रधानाः
गुणान् विपश्यन्ति उत वा तमः च।
यत् मायया मोहित-चेतसः ते
विदुः स्व-संस्थम् न बहिः-प्रकाशाः॥ 23
तम् त्वाम् अहम् ज्ञान-घनम् स्वभाव-
प्रध्वस्त-माया-गुण-भेद-मोहैः।
सनन्दन-आद्यैः मुनिभिः विभाव्यम्
कथम् हि मूढः परिभावयामि॥ 24
प्रशान्त-माया-गुण-कर्म-लिङ्ग-
मनाम-रूपम् सद्-असत्-विमुक्तम्।
ज्ञान-उपदेशाय गृहीत-देहम्
नमामहे त्वाम् पुरुषम् पुराणम्॥ 25
त्वत्-माया-रचिते लोके वस्तु-बुद्ध्या गृह-आदिषु।
भ्रमन्ति काम-लोभ-ईर्ष्या-मोह-विभ्रान्त-चेतसः॥ 26
अद्य नः सर्व-भूत-आत्मन् काम-कर्म-इन्द्रिय-आशयः।
मोह-पाशः दृढः छिन्नः भगवन् तव दर्शनात्॥ 27
श्रीशुक उवाच
इत्थम् गीत-अनुभावः तम् भगवान् कपिलः मुनिः।
अंशुमन्तम् उवाच इदम् अनुग्राह्य धिया नृप॥ 28
श्रीभगवान् उवाच
अश्वः अयम् नीयताम् वत्स पितामह-पशुः तव।
इमे च पितरः दग्धाः गङ्गा-अम्भः अर्हन्ति न इतरत्॥ 29
तम् परिक्रम्य शिरसा प्रसाद्य हयम् आनयत्।
सगरः तेन पशुना क्रतु-शेषम् समापयत्॥ 30
राज्यम् अंशुमते न्यस्य निःस्पृहः मुक्त-बन्धनः।
और्व-उपदिष्ट-मार्गेण लेभे गतिम् अनुत्तमाम्॥ 31
इति श्रीमद्-भागवते महा-पुराणे पारमहंस्याम् संहितायाम्
नवम-स्कन्धे सगर-उपाख्याने अष्टमोऽध्यायः ॥8॥
No comments:
Post a Comment