விஷத்தை குடித்தும் அமரன் என்று காண்பித்தார் சிவபெருமான்
ஸ்கந்தம் 8: அத்யாயம் 7
श्रीशुक उवाच
ते नाग-राजम् आमन्त्र्य फल-भागेन वासुकिम्।
परिवीय गिरौ तस्मिन् नेत्रम् अब्धिम् मुदान्विताः॥ १॥
आरेभिरे सु-संयत्ताः अमृत-अर्थम् कुरु-उद्वह।
हरिः पुरः-स्तात् जगृहे पूर्वम् देवाः ततः अभवन्॥ २॥
तत् न ऐच्छन् दैत्य-पतयः महा-पुरुष-चेष्टितम्।
न गृह्णीमः वयम् पुच्छम् अहेः अङ्गम् अमङ्गलम्॥ ३॥
स्वाध्याय-श्रुत-सम्पन्नाः प्रख्याताः जन्म-कर्मभिः।
इति तूष्णीम् स्थितान् दैत्यान् विलोक्य पुरुष-उत्तमः॥
स्मयमानः विसृज्य अग्रं पुच्छम् जग्राह सामरः॥ ४॥
कृत-स्थान-विभागाः ते एवम् कश्यप-नन्दनाः।
ममन्थुः परम् आयत्ताः अमृत-अर्थम् पयः-निधिम्॥ ५॥
मथ्यमाने अर्णवे सः अद्रिः अनाधारः हि अपः अविशत्।
ध्रियमाणः अपि बलिभिः गौरवात् पाण्डु-नन्दन॥ ६॥
ते सु-निर्विण्ण-मनसः परि-mlāna-मुख-श्रियः।
आसन् स्व-पौरुषे नष्टे दैवेन अति-बलीयसा॥ ७॥
विलोक्य विघ्न-ईश-विधिम् तदा ईश्वरः
दुरन्त-वीर्यः अवितथ-अभिसन्धिः।
कृत्वा वपुः कच्छपम् अद्भुतम् महत्
प्रविश्य तोयम् गिरिम् उद्धहार॥ ८॥
तम् उत्थितम् वीक्ष्य कुल-अचलम् पुनः
समुत्थिताः निर्-मथितुम् सुर-असुराः।
दधार पृष्ठेन सः लक्ष-योजन-
प्रस्तारिणा द्वीपः इव अपरः महान्॥ ९॥
सुरा-असुरेन्द्रैः भुज-वीर्य-वेपितम्
परिभ्रमन्तम् गिरिम् अङ्ग पृष्ठतः।
बिभ्रत् तत् आवर्तनम् आदि-कच्छपः
मेने अङ्ग-कण्डूयनम् अप्रमेयः॥ १०॥
तथा असुरान् आविशत् आसुरेण
रूपेण तेषाम् बल-वीर्यम् ईरयन्।
उद्दीपयन् देव-गणान् च विष्णुः
दैवेन नागेन्द्रम् अबोध-रूपः॥ ११॥
उपरि अग्रे इन्द्रम् गिरि-राट् इव अन्यः
आक्रम्य हस्तेन सहस्र-बाहुः।
तस्थौ दिवि ब्रह्म-भव-इन्द्र-मुख्यैः
अभिष्टुवद्भिः सुमनः अभिवृष्टः॥ १२॥
उपरि अधः च आत्मनि गोत्र-नेत्रयोः
परेण ते प्राविशताः समेधिताः।
ममन्थुः अब्धिम् तरसा मद-उत्कटाः
महाद्रिणा क्षोभित-नक्र-चक्रम्॥ १३॥
अहीन्द्र-साहस्र-कठोर-दृक्-मुख-
श्वास-अग्नि-धूम-आहत-वर्चसः असुराः।
पौलोम-कालेय-बली-इल्वल-आदयः
दव-अग्नि-दग्धाः सरला इव अभवन्॥ १४॥
देवान् च तत् श्वास-शिखा-आहत-प्रभान्
धूम्र-अम्बर-स्रक्-वर-कञ्चुक-आननान्।
सम्-अभ्यवर्षन् भगवत्-वशा घनाः
ववुः समुद्र-ऊर्मि-उपगूढ-वायवः॥ १५॥
मथ्यमानात् तथा सिन्धोः देव-असुर-व-रूथ-पैः।
यदा सुधा न जायेत निर्ममन्थ अ-जितः स्वयम्॥ १६॥
मेघ-श्यामः कनक-परिधिः कर्ण-विद्योत-विद्युत्-
मूर्ध्नि भ्राजत्-विलुलित-कचः स्रक्-धरः रक्त-नेत्रः।
जैत्रैः दोर्भिः जगत्-अभय-दैः दन्दशूकम् गृहीत्वा
मथ्नन् मथ्ना प्रति-गिरिम् इव अशोभत अथ उद्धृत-अद्रिः॥ १७॥
निर्मथ्यमानात् उदधेः अभूत् विषम्
महोल्बणम् हालाहल-आह्वम् अग्रतः।
सम्भ्रान्त-मीन-उन्मकर-अहि-कच्छपात्
तिमि-द्विप-ग्राह-तिमिङ्गिल-आकुलात्॥ १८॥
तत् उग्र-वेगम् दिशि दिशि उपरि अधः
विसर्पत् उत्सर्पत् असह्यम् अप्रतिम्।
भीताः प्रजाः दुद्रुवुः अङ्ग सेश्वराः
अरक्ष्यमाणाः शरणम् सदा-शिवम्॥ १९॥
विलोक्य तम् देव-वरम् त्रि-लोक्या
भवाय देव्या अभिमतम् मुनीनाम्।
आसीनम् अ-द्रौ अपवर्ग-हेतोः
तपः जुषाणम् स्तुतिभिः प्रणेमुः॥ २०॥
श्रीप्रजापतय ऊचुः
देव-देव महा-देव भूत-आत्मन् भूत-भावन।
त्राहि नः शरण-आपन्नान् त्रै-लोक्य-दहनात् विषात्॥ २१॥
त्वम् एकः सर्व-जगत् ईश्वरः बन्ध-मोक्षयोः।
तम् त्वाम् अर्चन्ति कुशलाः प्रपन्न-आर्ति-हरं गुरुम्॥ २२॥
गुण-मय्या स्व-शक्त्या अस्य सर्ग-स्थिति-अप्ययान् विभो।
धत्से यदा स्व-दृक् भूमान् ब्रह्म-विष्णु-शिव-अभिधाम्॥ २३॥
त्वम् ब्रह्म परम् गुह्यम् स-दसत्-भाव-भावनः।
नाना-शक्तिभिः आभातः त्वम् आत्मा जगत्-ईश्वरः॥ २४॥
त्वम् शब्द-योनिḥ जगत्-आदिः आत्मा
प्राण-इन्द्रिय-द्रव्य-गुणः स्व-भावः।
कालः क्रतुः सत्यम् ऋतम् च धर्मः
त्वयि अक्षरम् यत् त्रि-वृत् आमनन्ति॥ २५॥
अग्निः मुखं ते अखिल-देवता-आत्मा
क्षितिं विदुः लोक-भव-अङ्घ्रि-पङ्कजम्।
कालं गतिं ते अखिल-देवता-आत्मनः
दिशः च कर्णौ रसनं जलेशम्॥ २६॥
नाभिः नभः ते श्वसनं नभः-स्वान्
सूर्यः च चक्षूंषि जलम् स्म रेतः।
पर-अवर-आत्मा आश्रयणं तव आत्मा
सोमः मनः द्यौः भगवन् शिरः ते॥ २७॥
कुक्षिः समुद्राः गिरयः अस्थि-सङ्घाः
रोमाणि सर्व-ओषधि-विरुधः ते।
छन्दांसि साक्षात् तव सप्त धातवः
त्रयी-मय-आत्मन् हृदयं सर्व-धर्मः॥ २८॥
मुखानि पञ्च-उपनिषदः तव ईश
यैः त्रिंशत् अष्ट-उत्तर-मन्त्र-वर्गः।
यत् तत् शिव-अख्यम् परम् अर्थ-तत्त्वम्
देव स्वयम्-ज्योतिः अवस्थितिः ते॥ २९॥
छाया त्व् अधर्मः ऊर्मिषु यैः विसर्गः
नेत्र-त्रयं सत्त्व-रजः-तमांसि।
साङ्ख्य-आत्मनः शास्त्र-कृतः तव ईक्षा
छन्दः-मयः देव ऋषिः पुराणः॥ ३०॥
न ते गिरि-त्र अखिल-लोक-पाल
विरिञ्च-वैकुण्ठ-सुरेन्द्र-गम्यम्।
ज्योतिः परं यत्र रजः-तमः च
सत्त्वं न यत् ब्रह्म निरस्त-भेदम्॥ ३१॥
काम-अध्वर-त्रि-पुर-काल-गर-आदि-अनेक-
भूत-द्रुहः क्षपयतः स्तुतये न तत् ते।
यः तु अन्त-कालः इदम् आत्म-कृतम् स्व-नेत्र-
वह्नि-स्फुलिङ्ग-शिखया भसितम् न वेद॥ ३२॥
ये तु आत्म-राम-गुरुभिः हृदि चिन्तित-अङ्घ्रि-
द्वन्द्वम् चरन्तम् उमया तपसा अभितप्तम्।
कत्थन्त उग्र-परुषम् निरतम् श्मशाने
ते नूनम् ऊतिम् अविदन्त् तव हा अतलज्जाः॥ ३३॥
तत् तस्य ते सत्-असतोः परतः परस्य
न अञ्जः स्वरूप-गमने प्रभवन्ति भूम्नः।
ब्रह्म-आदयः किम् उत संस्तवने वयम् तु
तत् सर्ग-सर्ग-विषयाः अपि शक्ति-मात्रम्॥ ३४॥
एतत् परम् प्रपश्यामः न परम् ते महा-ईश्वर।
मृडनाय हि लोकस्य व्यक्तिः ते अव्यक्त-कर्मणः॥ ३५॥
श्रीशुक उवाच
तत् वीक्ष्य व्यसनं तासाम् कृपया भृश-पीडितः।
सर्व-भूत-सुहृत् देवः इदम् आह सतीम् प्रियम्॥ ३६॥
श्रीशिव उवाच
अहो बत भवति एतत् प्रजानां पश्य वैशसम्।
क्षीर-उद-मथन-उद्भूतात् कालकूटात् उपस्थितम्॥ ३७॥
आसाम् प्राण-परिप्सूनाम् विधेयम् अभयम् हि मे।
एतावान् हि प्रभोः अर्थः यत् दीन-परि-पालनम्॥ ३८॥
प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षण-भङ्गुरैः।
बद्ध-वैरेषु भूतेषु मोहितेषु आत्म-मायया॥ ३९॥
पुंसः कृपयतः भद्रे सर्व-आत्मा प्रीयते हरिः।
प्रीते हरौ भगवति प्रीयः अहम् सचर-अचरः।
तस्मात् इदम् गरम् भुञ्जे प्रजानाम् स्वस्ति-रस्तु मे॥ ४०॥
श्रीशुक उवाच
एवम् आमन्त्र्य भगवान् भवानीम् विश्व-भावनः।
तत् विषम् जग्धुम् आरेभे प्रभाव-ज्ञा अन्व् अमोदत॥ ४१॥
ततः करतली-कृत्य व्यापि हालाहलम् विषम्।
अभक्षयन् महा-देवः कृपया भूत-भावनः॥ ४२॥
तस्य अपि दर्शयाम् आस स्व-वीर्यम् जल-कल्मषः।
यत् चकार गले नीलम् तत् च साधोः विभूषणम्॥ ४३॥
तप्यन्ते लोक-तापेन साधवः प्रायशः जनाः।
परम् आराधनम् तत् हि पुरुषस्य अखिल-आत्मनः॥ ४४॥
निशम्य कर्म तत् शम्भोः देव-देवस्य मीढुषः।
प्रजा दाक्षायणी ब्रह्मा वैकुण्ठः च शशंसिरे॥ ४५॥
प्रस्कन्नम् पिबतः पाणेः यत् किञ्चित् जगृहुः स्म तत्।
वृश्चिक-आहि-विष-औषध्यः दन्दशूकाः च ये अपरे॥ ४६॥
No comments:
Post a Comment