Followers

Search Here...

Sunday, 20 July 2025

ஸ்கந்தம் 8: அத்யாயம் 8 (பாற்கடலை கடைந்தனர்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பாற்கடலை கடைந்தனர்

ஸ்கந்தம் 8: அத்யாயம் 8

श्रीशुक उवाच


पीते गरे वृषाङ्केण प्रीता: ते अमर-दानवाः।
ममन्थुः तरसा सिन्धुम् हविः-धानी ततः अभवत्॥ १॥


ताम् अग्नि-होत्रीम् ऋषयः जगृहुः ब्रह्म-वादिनः।
यज्ञस्य देव-यानस्य मेध्याय हविषे नृप॥ २॥


ततः उच्चैःश्रवा नाम हयः अभूत् चन्द्र-पाण्डुरः।
तस्मिन् बलिः स्पृहाम् चक्रे न इन्द्रः ईश्वर-शिक्षया॥ ३॥


ततः ऐरावतः नाम वारण-इन्द्रः विनिर्गतः।
दन्तैः चतुर्भिः श्वेत-अद्रेः हरन् भगवत: महिम्॥ ४॥


कौस्तुभ-आख्यम् अभूत् रत्नम् पद्म-रागः महा-उदधेः।
तस्मिन् हरिः स्पृहाम् चक्रे वक्षः-अलङ्करणे मणौ॥ ५॥


ततः अभवत् पारिजातः सुर-लोक-विभूषणम्।
पूरयति अर्थिनः यः अर्थैः शश्वत् भुवि यथा भवान्॥ ६॥


ततः च अप्सरसः जाताः निष्क-कण्ठ्यः सु-वाससः।
रमण्यः स्वर्गिणाम् वल्गु-गतिः-लीला-अवलोकनैः॥ ७॥


ततः च अविरभूत् साक्षात् श्रीः रमा भगवत्-परा।
रञ्जयन्ती दिशः कान्त्या विद्युत् सौदामनी यथा॥ ८॥


तस्याम् चक्रुः स्पृहाम् सर्वे स-सुरा-असुरा-मानवाः।
रूप-औदार्य-वयः-वर्ण-महिमा-आक्षिप्त-चेतसः॥ ९॥


तस्या आसन् अमानिन्ये महेन्द्रः महत् अद्भुतम्।
मूर्ति-मत्यः सरित्-श्रेष्ठा हेम-कुम्भैः जलम् शुचि॥ १०॥


आभिषेचनिका भूमिः आहरत् सकल-औषधीः।
गावः पञ्च पवित्राणि वसन्तः मधु-माधवौ॥ ११॥


ऋषयः कल्पयन् चक्रुः अभिषेकम् यथा-विधि।
जगुः भद्राणि गन्धर्वाः नट्यः च ननृतुः जगुः॥ १२॥


मेघाः मृदङ्ग-पणव-मुरज-अनक-गोमुखान्।
व्यनादयन् शङ्ख-वेणु-वीणा-स्तुमुल-निःस्वनान्॥ १३॥


ततः अभिषिषिचुः देवीं श्रियम् पद्म-कराम् सतीम्।
दिगिभाः पूर्ण-कलशैः सूक्त-वाक्यैः द्विज-ईरितैः॥ १४॥


समुद्रः पीत-कौशेय-वाससी समुपाहरत्।
वरुणः स्रजम् वैजयन्तीम् मधुना मत्त-षट्पदाम्॥ १५॥


भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः।
हारम् सरस्वती पद्मम् अजा नागाः च कुण्डले॥ १६॥


ततः कृत-स्वस्त्य-अयनम् उत्पल-स्रजम्
नदत्-द्विरेफाम् परिगृह्य पाणिना।
चचाल वक्त्रम् सु-कपोल-कुण्डलम्
स-व्रीड-हासम् दधती सु-शोभनम्॥ १७॥


स्तन-द्वयम् च अति-कृश-उदरी समम्
निरन्तरम् चन्दन-कुङ्कुम-उक्षितम्।
ततः ततः नूपुर-वल्गु-शिञ्जितैः
विसर्पती हेम-लता इव सा बभौ॥ १८॥


विलोकयन्ती निरवद्यम् आत्मनः
पदम् ध्रुवम् च अव्यभिचारि-सद्-गुणम्।
गन्धर्व-यक्ष-असुर-सिद्ध-चारण-
त्रैपिष्टपेय-अदिषु न अन्वविन्दत॥ १९॥


नूनम् तपः यस्य न मन्यु-निर्जयः
ज्ञानम् क्वचित् तत् च न सङ्ग-वर्जितम्।
कश्चित् महान् तस्य न काम-निर्जयः
सः ईश्वरः किम् परतः व्यपाश्रयः॥ २०॥



धर्मः क्वचित् तत्र न भूत-सौहृदम्
त्यागः क्वचित् तत्र न मुक्ति-कारणम्।
वीर्यम् न पुंसः अस्ती अ-जव-वेग-निष्कृतम्
न हि द्वितीयः गुण-सङ्ग-वर्जितः॥ २१॥


क्वचित् चिर-आयुः न हि शीलम् मङ्गलम्
क्वचित् तत् अपि अस्ति न वेद्यं आयुषः।
यत्र उभयं कुत्र च सः अपि अमङ्गलः
सु-मङ्गलः कः च न काङ्क्षते हि माम्॥ २२॥


एवम् विमृश्य अव्यभिचारि-सद्गुणैः
वरम् निज-एकाश्रयता-गुण-आश्रयम्।
वव्रे वरम् सर्व-गुणैः अपेक्षितम्
रमा मुकुन्दम् निरपेक्षम् ईप्सितम्॥ २३॥


तस्य-अंश-देशे उशतीम् नव-कञ्ज-मालाम्
माद्यन् मधु-व्रत-वरूथ-गिरा उपघुष्टाम्।
तस्थौ निधाय निकटे तत् उरः स्व-धाम
स-व्रीड-हास-विकसन्-नयनेन याता॥ २४॥


तस्याः श्रियः त्रि-जगतः जनकः जनन्याः
वक्षः-निवासम् अकरोत् परमम् विभूतेः।
श्रीः स्वाः प्रजाः स-करुणेन निरीक्षणेन
यत्र स्थितः एधयत साधिपतीन् त्रि-लोकान्॥ २५॥


शङ्ख-तूर्य-मृदङ्गानाम् वादित्राणाम् पृथुः स्वनः।
देव-अनुगानाम् स-स्त्रीणाम् नृत्यताम् गायताम् अभूत्॥ २६॥


ब्रह्म-रुद्र-अङ्गिरः-मुख्याः सर्वे विश्व-सृजः विभुम्।
ईडिरे अवितथैः मन्त्रैः तत्-लिङ्गैः पुष्प-वर्षिणः॥ २७॥


श्रिया अवलोकिताः देवाः स-प्रजापतयः प्रजाः।
शील-आदि-गुण-सम्पन्नाः लेभिरे निर्वृतिम् पराम्॥ २८॥


निःसत्त्वाः लोलुपाः राजन् निरुद्योगाः गत-त्रपाः।
यदा च उपेक्षिता लक्ष्म्या बभूवुः दैत्य-दानवाः॥ २९॥


अथ आसीत् वारुणी देवी कन्या कमल-लोचना।
असुराः जगृहुः ताम् वै हरेः अनुमतेन ते॥ ३०॥


अथ उदधेः मथ्यमानात् काश्यपैः अमृत-अर्थिभिः।
उदतिष्ठत् महा-राज पुरुषः परम-अद्भुतः॥ ३१॥


दीर्घ-पीवर-दोः-दण्डः कम्बु-ग्रीवः अरुण-ईक्षणः।
श्यामलः तरुणः स्रग्वी सर्व-अभरण-भूषितः॥ ३२॥


पीत-वासा महा-उरस्कः सु-मृष्ट-मणि-कुण्डलः।
स्निग्ध-कुञ्चित-केश-अन्तः सु-भगः सिंह-विक्रमः॥ ३३॥


अमृत-आपूर्ण-कलशम् बिभ्रत् वलय-भूषितः।
सः वै भगवतः साक्षात् विष्णोः अंश-अंश-सम्भवः॥ ३४॥


धन्वन्तरिः इति ख्यातः आयुः-वेद-दृक् इज्य-भाक्।
तम् आलोक्य असुराः सर्वे कलशम् च अमृत-आभृतम्॥ ३५॥


लिप्सन्तः सर्व-वस्तूनि कलशम् तरसा अहरन्।
नीयमाने असुरैः तस्मिन् कलशे अमृत-भाजने॥ ३६॥


विषण्ण-मनसः देवाः हरिम् शरणम् आययुः।
इति तत् दैन्यम् आलोक्य भगवान् भृत्य-काम-कृत्।
मा खिद्यत मिथः अर्थम् वः साधयिष्ये स्व-मायया॥ ३७॥


मिथः कलिः अभूत् तेषाम् तत्-अर्थे तर्ष-चेतसाम्।
अहम् पूर्वम् अहम् पूर्वम् न त्वम् न त्वम् इति प्रभो॥ ३८॥


देवाः स्वम् भागम् अर्हन्ति ये तुल्य-आयास-हेतवः।
सत्र-याग इव एतस्मिन् एष धर्मः सनातनः॥ ३९॥


इति स्वान् प्रत्यषेधन् वै दैतेयाः जात-मत्सराः।
दुर्बलाः प्रबलान् राजन् गृहीत-कलशान् मुहुः॥ ४०॥

एतस्मिन् अन्तरें विष्णुः सर्व-उपाय-वित् ईश्वरः।
योषित्-रूपम् अनिर्देश्यं दधार परम-अद्भुतम्॥ ४१॥


प्रेक्षणीय-उत्पल-श्यामं सर्व-अवयव-सुन्दरम्।
समान-कर्ण-आभरणं सु-कपोल-उन्नस-आननम्॥ ४२॥


नव-यौवन-निर्वृत्त-स्तन-भार-कृश-उदरम्।
मुख-आमोद-अनुरक्त-अलि-झङ्कार-उद्विग्न-लोचनम्॥ ४३॥


बिभ्रत् स्व-केश-भारेण मालाम् उत्फुल्ल-मल्लिकाम्।
सु-ग्रीव-कण्ठ-आभरणं सु-भुज-अङ्गद-भूषितम्॥ ४४॥


विरज-अम्बर-संवीत-नितम्ब-द्वीप-शोभया।
काञ्च्या प्रविलसत्-वर्गु-चलत्-चरण-नूपुरम्॥ ४५॥


स-व्रीड-स्मित-विक्षिप्त-भ्रू-विलास-आवलोकनैः।
दैत्य-यूथप-चेतःसु कामम् उद्दीपयन् मुहुः॥ ४६॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे भगवन्मायोपलम्भनं नामाष्टमोऽध्यायः ॥ 8 ॥

No comments:

Post a Comment