Followers

Search Here...

Saturday, 19 July 2025

ஸ்கந்தம் 9: அத்யாயம் 4 (அம்பரீஷனை கண்டு கோபப்பட்ட துர்வாசர் முனிவர்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

அம்பரீஷனை கண்டு கோபப்பட்ட துர்வாசர் முனிவர்

ஸ்கந்தம் 9: அத்யாயம் 4

श्री-शुकः उवाच।
नाभागः नभग-अपत्यम् यम् ततम् भ्रातरः कविम्।
यविष्ठम् व्यभजन् दायम् ब्रह्म-चारिणम् आगतम् ॥ १ ॥

भ्रातरः अभाङ्क्त किम् मह्यम् भजाम पितरम् तव।
त्वाम् मम आर्याः ततः अभाङ्क्षुः मा पुत्रक तत् आदृथाः ॥ २ ॥

इमे अङ्गिरसः सत्रम् आसते अद्य सु-मेधसः।
षष्ठम् षष्ठम् उपेत्य आहः कवे मुह्यन्ति कर्मणि ॥ ३ ॥

तान् त्वम् शंसय सूक्ते द्वे वैश्वदेवे महा-आत्मनः।
ते स्वः-अर्यन्तः धनम् सत्र-परि-शेषितम् आत्मनः ॥ ४ ॥

दास्यन्ति ते अथ तान् गच्छ तथा सः कृतवान् यथा।
तस्मै दत्त्वा ययुः स्वर्गम् ते सत्र-परि-शेषितम् ॥ ५ ॥

तम् कश्चित् स्वीकरिष्यन्तम् पुरुषः कृष्ण-दर्शनः।
उवाच उत्तरतः अभ्येत्य मम इदम् वास्तुकम् वसु ॥ ६ ॥

मम इदम् ऋषिभिः दत्तम् इति तर्हि स्म मानवः।
स्यात् नौ ते पितरि प्रश्नः पृष्टवान् पितरम् तथा ॥ ७ ॥

यज्ञ-वास्तु-गतम् सर्वम् उच्छिष्टम् ऋषयः क्वचित्।
चक्रुः विभागम् रुद्राय सः देवः सर्वम् अर्हति ॥ ८ ॥

नाभागः तम् प्रणम्य आह तव ईश किल वास्तुकम्।
इति आह मे पिता ब्रह्मन् शिरसा त्वाम् प्रसादये ॥ ९ ॥

यत् ते पिता अवदत् धर्मम् त्वम् च सत्यम् प्रभाषसे।
ददामि ते मन्त्र-दृशे ज्ञानम् ब्रह्म सनातनम् ॥ १० ॥

गृहाण द्रविणम् दत्तम् मत्-सत्रे परि-शेषितम्।
इति उक्त्वा अन्तर्हितः रुद्रः भगवान् सत्य-व्त्सलः ॥ ११ ॥

यः एतत् संस्मरेत् प्रातः सायम् च सु-समाहितः।
कविः भवति मन्त्र-ज्ञः गतिम् च एव तथा आत्मनः ॥ १२ ॥

नाभागात् अम्बरीषः अभूत् महा-भागवतः कृती।
न अस्पृशत् ब्रह्म-शापः अपि यम् न प्रतिहतः क्वचित् ॥ १३ ॥

श्री-राजा उवाच।
भगवत् श्रोतुम् इच्छामि राजर्षेः तस्य धीमतः।
न प्राभूत् यत्र निर्मुक्तः ब्रह्म-दण्डः दुरत्ययः ॥ १४ ॥

श्री-शुकः उवाच।
अम्बरीषः महा-भागः सप्त-द्वीप-वतीम् महीम्।
अव्ययाम् च श्रियम् लब्ध्वा विभवम् च अतुलम् भुवि ॥ १५ ॥

मेने अति-दुर्लभम् पुंसाम् सर्वम् तत् स्वप्न-संस्तुतम्।
विद्वान् विभव-निर्वाणम् तमः विशति यत् पुमान् ॥ १६ ॥

वासुदेवे भगवति तत्-भक्तेषु च साधुषु।
प्राप्तः भावम् परम् विश्वम् येन इदम् लोष्टवत् स्मृतम् ॥ १७ ॥

सः वै मनः कृष्ण-पद-अरविन्दयोः
वचांसि वैकुण्ठ-गुण-अनुवर्णने।
करौ हरेः मन्दिर-मार्जन-आदिषु
श्रुतिम् चकार अच्युत-सत्-कथा-उदये ॥ १८ ॥

मुकुन्द-लिङ्ग-आलय-दर्शनॆ दृशौ
तत्-भृत्य-गात्र-स्पर्शे अङ्ग-संगमम्।
घ्राणम् च तत्-पाद-सरोज-सौरभे
श्रीमत्-तुलस्याः रसनाम् तत्-अर्पिते ॥ १९ ॥

पादौ हरेः क्षेत्र-पद-अनुसर्पणे
शिरः हृषीकेश-पद-अभिवन्दने।
कामम् च दास्ये न तु काम-काम्यया
यथा उत्तम-श्लोक-जन-आश्रया रतिः ॥ २० ॥

एवम् सदा कर्म-कलापम् आत्मनः
परे अधि-यज्ञे भगवति अधोक्षजे।
सर्व-आत्म-भावम् विदधत् महीम् इमाम्
तत्-निष्ठ-विप्र-अभिहितः शशास ह ॥ २१ ॥

ईजे अश्वमेधैः अधि-यज्ञम् ईश्वरम्
महा-विभूति-उपचित-अङ्ग-दक्षिणैः।
ततैः वसिष्ठ-असित-गौतम-आदिभिः
धन्वनि अभिस्रोतम् असौ सरस्वतीम् ॥ २२ ॥

यस्य क्रतुषु गीर्वाणैः सदस्याः ऋत्विजः जनाः।
तुल्य-रूपाः च अ-निमिषाः व्यदृश्यन्त सु-वाससः ॥ २३ ॥

स्वर्गः न प्रार्थितः यस्य मनुजैः अमर-प्रियः।
श्रृण्वद्भिः उपगायद्भिः उत्तम-श्लोक-चेष्टितम् ॥ २४ ॥

समृद्धयन्ति तान् कामाः स्व-राज्य-परिभाविताः।
दुर्लभाः न अपि सिद्धानाम् मुकुन्दम् हृदि पश्यतः ॥ २५ ॥

सः इत्थम् भक्ति-योगेन तपः-युक्तेन पार्थिवः।
स्व-धर्मेण हरिम् प्रीणन् सङ्गान् सर्वान् शनैः जहौ ॥ २६ ॥

गृहेषु दारेषु सुतेषु बन्धुषु
द्विप-उत्तम-स्यन्दन-वाजि-पत्तिषु।
अक्षय्य-रत्न-आभरण-आयुध-आदिषु
अनन्त-कोशेषु अकरोत् सत्-मतिम् ॥ २७ ॥

तस्मै अदात् हरिः चक्रम् प्रति-अनीक-भय-अवहम्।
एकान्त-भक्ति-भावेन प्रीतः भृत्य-अभि-रक्षणम् ॥ २८ ॥

आरिराधयिषुः कृष्णम् महिष्या तुल्य-शीलया।
युक्तः सांवत्सरम् वीरः दधार द्वादशी-व्रतम् ॥ २९ ॥

व्रत-अन्ते कार्तिके मासि त्रि-रात्रम् सम्-उपोषितः।
स्नातः कदाचित् कालिन्द्याम् हरिम् मधु-वने अर्चयत् ॥ ३० ॥

महा-अभिषेक-विधिना सर्व-उपस्कर-सम्पदा।
अभिषिच्य अम्बर-आकल्पैः गन्ध-माल्य-अर्हण-आदिभिः ॥ ३१ ॥

तत्-गतान्तः-भावेन पूजयामास केशवम्।
ब्राह्मणान् च महा-भागान् सिद्ध-अर्थान् अपि भक्ति-तः ॥ ३२ ॥

गवाम् रुक्म-विषाणीनाम् रूप्य-अङ्घ्रीणाम् सु-वाससाम्।
पयः-शील-वयो-रूप-वत्त्स-उपस्कर-संपदाम् ॥ ३३ ॥

प्राहिणोत् साधु-विप्रेभ्यः गृहेषु न्य-अर्बुदानि षट्।
भोजयित्वा द्विजान् अग्रे स्वादु-अन्नम् गुण-वत्तमम् ॥ ३४ ॥

लब्ध-कामैः अनुज्ञातः पारणाय उपचक्रमे।
तस्य तर्हि अतिथिः साक्षात् दुर्वासाः भगवान् अभूत् ॥ ३५ ॥

तम् आनर्च आतिथिम् भूपः प्रति-उत्थान-आसन-अर्हणैः।
ययाचे अभ्यवहाराय पाद-मूलम् उपागतः ॥ ३६ ॥

प्रतिनन्द्य सः तत् याचनाम् कर्तुम् आवश्यकम् गतः।
निममज्ज बृहत् ध्यायन् कालिन्दी-सलिले शुभे ॥ ३७ ॥

मुहूर्त-अर्ध-अवशिष्टायाम् द्वादश्याम् पारणम् प्रति।
चिन्तयामास धर्म-ज्ञः द्विजैः तत् धर्म-सङ्कटे ॥ ३८ ॥

ब्राह्मण-अतिक्रमे दोषः द्वादश्याम् यत् अपारणे।
यत् कृत्वा साधु मे भूयात् अधर्मः वा न माम् स्पृशेत् ॥ ३९ ॥

अम्भसा केवलम् एथ नाथ करिष्ये व्रत-पारणम्।
प्राहुः अप्-भक्षणम् विप्राः हि अशितम् न अशितम् च तत् ॥ ४० ॥

इति अपः प्राश्य राजर्षिः चिन्तयन् मनसा अच्युतम्।
प्रत्यचष्ट कुरु-श्रेष्ठ द्विज-आगमनम् एव सः ॥ ४१ ॥

दुर्वासा यमुना-कूलात् कृत-आवश्यकः आगतः।
राज्ञा अभिनन्दितः तस्य बुबुधे चेष्टितम् धिया ॥ ४२ ॥

मन्युना प्रचलत्-गात्रः भ्रुकुटी-कुटिल-आननः।
बुभुक्षितः च सुतराम् कृत-अञ्जलिम् अभाषत ॥ ४३ ॥

अहो अस्य नृशंसस्य श्रियः-उन्मत्तस्य पश्यत।
धर्म-व्यतिक्रमम् विष्णोः-अभक्तस्य ईश-मานिनः ॥ ४४ ॥

यः माम् अतिथिम् आयातम् आतिथ्येन निमन्त्र्य च।
अदत्त्वा भुक्तवान् तस्य सद्यः ते दर्शये फलम् ॥ ४५ ॥

एवम् ब्रुवाणः उत्कृत्य जटाम् रोष-विदीपितः।
तया सः निर्ममे तस्मै कृत्याम् काल-अनल-उपमाम् ॥ ४६ ॥

ताम् आपतन्तीम् ज्वलतीम् असि-हस्ताम् पदा भुवम्।
वेपयन्तीम् समुद्वीक्ष्य न चचाल पदा नृपः ॥ ४७ ॥

प्राक्-दिष्टम् भृत्य-रक्षायाम् पुरुषेण महात्मना।
ददाह कृत्याम् ताम् चक्रम् क्रुद्ध-अहम् इव पावकः ॥ ४८ ॥

तत् अभिद्रवत् उद्द्वीक्ष्य स्व-प्रयासम् च निष्फलम्।
दुर्वासा दुद्रुवे भीतः दिक्षु प्राण-परिप्सया ॥ ४९ ॥

तम् अन्वधावत् भगवत्-रथ-अङ्गम्
दाव-अग्निः उद्दूत-शिखः यथा अहिम्।
तथा अनुशक्तम् मुनिः ईक्षमाणः
गुहाम् विविक्षुः प्रससार मेरोः ॥ ५० ॥

दिशः नभः क्ष्माम् विवरान् समुद्रान्
लोकान् स-पलान् त्रि-दिवम् गतः सः।
यतः यतः धावति तत्र तत्र
सु-दर्शनम् दुष्प्रसहम् ददर्श ॥ ५१ ॥

अलब्ध-नाथः सः यदा कुतश्चित्
संत्रस्त-चित्तः अरणम् एषमाणः।
देवम् विरिञ्चम् समगात् विधातः
त्राहि आत्म-योने अ-जित-तेजसः माम् ॥ ५२ ॥

श्री-ब्रह्मा उवाच।
स्थानम् मदीयम् सह-विष्वम् एतत्
क्रीडा-अवसाने द्वि-पर-अर्ध-संज्ञे।
भ्रू-भङ्ग-मात्रेण हि सन्दिधक्षोः
काल-आत्मनः यस्य तिरोभविष्यति ॥ ५३ ॥

अहम् भवः दक्ष-भृगु-प्रधानाः
प्रजेश-भूतेश-सुरेश-मुख्याः।
सर्वे वयम् यत् नियमम् प्रपन्नाः
मूर्ध्नि अर्पितम् लोक-हितम् वहामः ॥ ५४ ॥

प्रत्याख्यातः विरिञ्चेन विष्णु-चक्र-उपतापितः।
दुर्वासाः शरणम् यातः शर्वम् कैलास-वासिनम् ॥ ५५ ॥

श्री-रुद्र उवाच।
वयम् न तात प्रभवाम भूम्नि
यस्मिन् परे अन्ये अपि अ-ज-जीव-कोशाः।
भवन्ति काले न भवन्ति हि ईदृशाः
सहस्रशः यत्र वयम् भ्रमामः ॥ ५६ ॥

अहम् सनत्-कुमारः च नारदः भगवान् अजः।
कपिलः आपान्तर-तमः देवलः धर्मः आसुरिः ॥ ५७ ॥

मरीचि-प्रमुखाः च अन्ये सिद्ध-ईशाः पार-दर्शनाः।
विदाम न वयम् सर्वे यत् मायाम् मायया आवृताः ॥ ५८ ॥

तस्य विश्व-ईश्वरस्य इदम् शस्त्रम् दुर्विषहम् हि नः।
तम् एव शरणम् याहि हरिः ते शम् विधास्यति ॥ ५९ ॥

ततः निराशः दुर्वासाः पदम् भगवतः ययौ।
वैकुण्ठ-आख्यम् यत् अध्यास्ते श्रीनिवासः श्रिया सह ॥ ६० ॥

संदह्यमानः अजित-शस्त्र-वह्निना
तत्-पाद-मूले पतितः स-वेपथुः।
आह अच्युत-अनन्त स-दীপ्सित प्रभो
कृत-अगसम् मा अव हि विश्व-भावन ॥ ६१ ॥

अजानता ते परम-अनुभावम्
कृतम् मया अघम् भवतः प्रियांनाम्।
विधेहि तस्य अपचितिम् विधातः
मुच्येत यत्-नाम्नि उदिते नारकः अपि ॥ ६२ ॥

श्री-भगवान् उवाच।
अहम् भक्त-पराधीनः हि अस्वतन्त्रः इव द्विज।
साधुभिः ग्रस्त-हृदयः भक्तैः भक्त-जन-प्रियः ॥ ६३ ॥

न अहम् आत्मानम् आशासे मत्-भक्तैः साधुभिः विना।
श्रियम् च अत्यन्तिकीम् ब्रह्मन् येषाम् गतिः अहम् परा ॥ ६४ ॥

ये दार-आगार-पुत्र-आप्तान् प्राणान् वित्तम् इमम् परम्।
हित्वा माम् शरणम् याताः कथम् तान् त्यक्तुम् उत्सहे ॥ ६५ ॥

मयि निर्बद्ध-हृदयाः साधवः सम-दर्शनाः।
वशीकुर्वन्ति माम् भक्त्या सत्-स्त्रियः सत्-पतिम् यथा ॥ ६६ ॥

मत्-सेवया प्रतीतम् च सा-लोक्य-आदि-चतुष्टयम्।
न इच्छन्ति सेवया पूर्णाः कुतः अन्यत् काल-विद्रुतम् ॥ ६७ ॥

साधवः हृदयम् मह्यम् साधूनाम् हृदयम् तु अहम्।
मत्-अन्यत् ते न जानन्ति न अहम् तेभ्यः मनाक् अपि ॥ ६८ ॥

उपायम् कथयिष्यामि तव विप्र श्रृणुष्व तत्।
अयम् हि आत्म-अभिचारः ते यतः तम् यातु वै भवान्।
साधुषु प्रहितम् तेजः प्रहर्तुः कुरुते अशिवम् ॥ ६९ ॥

तपः विद्या च विप्राणाम् निःश्रेयस-करे उभे।
ते एव दुर्विनीतस्य कल्पेते कर्तुः अन्यथा ॥ ७० ॥

ब्रह्मन् तत् गच्छ भद्रम् ते नाभाग-तनयम् नृपम्।
क्षमापय महा-भागम् ततः शान्तिः भविष्यति ॥ ७१ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धेऽम्बरीषचरिते चतुर्थोऽध्यायः ॥4॥

No comments:

Post a Comment