Followers

Search Here...

Saturday, 2 August 2025

ஸ்கந்தம் 8: அத்யாயம் 13 (7வது முதல் 14வது மனுவின் பெயர்கள்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

7வது முதல் 14வது மனுவின் பெயர்கள்

ஸ்கந்தம் 8: அத்யாயம் 13

श्रीशुक उवाच।
मनुः विवस्वतः पुत्रः श्राद्ध-देवः इति श्रुतः।
सप्तमः वर्तमानः यः तत् अपत्यानि मे शृणु ॥ १ ॥

इक्ष्वाकुः नभगः च एव धृष्टः शर्यति एव च।
नरिष्यन्तः अथ नाभागः सप्तमः दिष्टः उच्यते ॥ २ ॥

करूषः च पृषध्रः च दशमः वसुमान् स्मृतः।
मनुः वैवस्वतस्य एते दश पुत्राः परन्तप ॥ ३ ॥

आदित्याः वसवः रुद्राः विश्व-देवाः मरुत्-गणाः।
अश्विनौ ऋभवः राजन् इन्द्रः तेषाम् पुरन्दरः ॥ ४ ॥

कश्यपः अत्रिः वसिष्ठः च विश्वामित्रः अथ गौतमः।
जमदग्निः भरद्वाजः इति सप्त-ऋषयः स्मृताः ॥ ५ ॥

अत्र अपि भगवत्-जन्म कश्यपात् अदितेः अभूत्।
आदित्यानाम् अवरजः विष्णुः वामन-रूप-धृक् ॥ ६ ॥

सङ्क्षेपतः मया उक्तानि सप्त मन्वन्तराणि ते।
भविष्याणि अथ वक्ष्यामि विष्णोः शक्त्या अन्वितानि च ॥ ७ ॥

विवस्वतः च द्वे जाये विश्वकर्म-सुते उभे।
संज्ञा छाया च राजेन्द्र ये प्राक् अभिहिते तव ॥ ८ ॥

तृतीयाम् वडवाम् एके तासाम् संज्ञा-सुताः त्रयः।
यमः यमी श्राद्ध-देवः छायायाः च सुतान् शृणु ॥ ९ ॥

सावर्णिः तपती कन्या भार्या संवरणस्य या।
शनैश्चरः तृतीयः अभूत् अश्विनौ वडवात्मजौ ॥ १० ॥

अष्टमे अन्तर-आयाते सावर्णिः भविता मनुः।
निर्मोक-विरजस्क-आद्याः सावर्णि-तनयाः नृप ॥ ११ ॥

तत्र देवाः सुतपसः विरजाः अमृत-प्रभाः।
तेषाम् विरोचन-सुतः बलिः इन्द्रः भविष्यति ॥ १२ ॥

दत्त्वा इमाम् याचमानाय विष्णवे यः पद-त्रयम्।
राद्धम् इन्द्र-पदं हित्वा ततः सिद्धिम् अवाप्स्यति ॥ १३ ॥

यः असौ भगवता बद्धः प्रीतेन सुतले पुनः।
निवेशितः अधिके स्वर्गात् अधुना आस्ते स्वराट् इव ॥ १४ ॥

गालवः दीप्तिमान् रामः द्रोण-पुत्रः कृपः तथा।
ऋष्यशृङ्गः पिता अस्माकम् भगवान् बादरायणः ॥ १५ ॥

इमे सप्त-ऋषयः तत्र भविष्यन्ति स्व-योगतः।
इदानीम् आसते राजन् स्वे स्व आश्रम-मण्डले ॥ १६ ॥

देव-गुह्यात् सरस्वत्याम् सार्व-भौमः इति प्रभुः।
स्थानम् पुरन्दरात् धृत्वा बलये दास्यति ईश्वरः ॥ १७ ॥

नवमः दक्ष-सावर्णिः मनुः वरुण-सम्भवः।
भूत-केतुः दीप्ति-केतुः इति आदि-आः तत्-सुताः नृप ॥ १८ ॥

पाराः मरीचि-गर्भ-आद्याः देवाः इन्द्रः अद्भुतः स्मृतः।
द्युतिमत्-प्रमुखाः तत्र भविष्यन्ति ऋषयः ततः ॥ १९ ॥

आयुष्मतः अम्बुधारायाम् ऋषभः भगवत्-कलाः।
भविता येन संराद्धाम् त्रि-लोकिम् भोक्ष्यते अद्भुतः ॥ २० ॥

दशमो ब्रह्म-सावर्णिः उपश्लोक-सुतः महान्।
तत्-सुताः भू‍रि-षेण-आद्याः हविष्मत्-प्रमुखाः द्विजाः॥ २१॥

हविष्मान् सु-कृतः सत्यः जयः मूर्तिः तदा द्विजाः।
सु-वासन-विरुद्ध-आद्याः देवाः शम्भुः सुर-ईश्वरः॥ २२॥

विष्वक्सेनः विषूच्याम् तु शम्भोः सख्यम् करिष्यति।
जातः स्व-अंशेन भगवान् गृहे विश्वसृजः विभुः॥ २३॥

मनुः वै धर्म-सावर्णिः एकादशमः आत्मवान्।
अनागताः तत्-सुताः च सत्य-धर्म-आदयः दश॥ २४॥

वि-हङ्गमाः काम-गमाः निर्वाण-रुचयः सुराः।
इन्द्रः च वैधृतः तेषाम् ऋषयः च अरुण-आदयः॥ २५॥

आर्यकस्य सुतः तत्र धर्म-सेतुः इति स्मृतः।
वैधृतायाम् हरेः अंशः त्रि-लोकिम् धारयिष्यति॥ २६॥

भविता रुद्र-सावर्णिः राजन् द्वादशमः मनुः।
देववान् उपदेवः च देव-श्रेष्ठ-आदयः सुताः॥ २७॥

ऋत-धामा च तत्र इन्द्रः देवाः च हरित-आदयः।
ऋषयः च तपः-मूर्तिः तपस्वी-अग्नीध्रक-आदयः॥ २८॥

स्व-धाम-आख्यः हरेः अंशः साधयिष्यति तत्-मनोः।
अन्तरम् सत्य-सहसः सूनृतायाः सुतः विभुः॥ २९॥

मनुः त्रयोदशः भाव्यः देव-सावर्णिः आत्मवान्।
चित्र-सेन-विचित्र-आद्याः देव-सावर्णि-देह-जात्॥ ३०॥

देवाः सु-कर्म-सुत्राम-सञ्ज्ञाः इन्द्रः दिवस्-पतिः।
निर्मोक-तत्त्व-दर्श-आद्याः भविष्यन्ति ऋषयः तदा॥ ३१॥

देव-होत्रस्य तनयः उपहर्ता दिवस्-पतेः।
योग-ईश्वरः हरेः अंशः बृहत्याम् सम्भविष्यति॥ ३२॥

मनुः वा इन्द्र-सावर्णिः चतुर्दशमः एष्यति।
उरु-गम्भीर-बुद्धि-आद्याः इन्द्र-सावर्णि-वीर्य-जात्॥ ३३॥

पवित्राः च आक्षुषा देवाः शुचिः इन्द्रः भविष्यति।
अग्निः बाहुः शुचिः शुद्धः मागध-आद्याः तपस्विनः॥ ३४॥

सत्रायनस्य तनयः बृहद्भानुः तदा हरिः।
वितानायाम् महा-राज क्रिया-तन्तून् वितायिता॥ ३५॥

राजन् चतुर्दश एतानि त्रि-काल-अनुगतानि ते।
प्रोक्तानि एभिः मितः कल्पः युग-साहस्र-पर्ययः॥ ३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे मन्वन्तरानुवर्णनं नाम त्रयोदशोऽध्यायः ॥ 13 ॥

No comments:

Post a Comment