வாமதேவன் பலி சக்கரவர்த்தியிடம் தானம் கேட்டார்
ஸ்கந்தம் 8: அத்யாயம் 19
श्रीशुक उवाच -
इति वैरोचनेः वाक्यम् धर्मयुक्तम् स सूनृतम्।
निशम्य भगवान् प्रीतः प्रतिनन्द्य इदम् अब्रवीत्॥ 1
श्रीभगवान् उवाच -
वचः तव एतत् जनदेव सूनृतम्
कुलोचितम् धर्मयुतम् यशःकरम्।
यस्य प्रमाणम् भृगवः साम्पराये
पितामहः कुलवृद्धः प्रशान्तः॥ 2
न हि एतस्मिन् कुले कश्चित् निःसत्त्वः कृपणः पुमान्।
प्रत्याख्याता प्रतिश्रुत्य यः वादाता द्विजातये॥ 3
न सन्ति तीर्थे युधि च अर्थिनः अर्थिताः
पराङ्मुखाः ये तु अमनस्विनः नृपाः।
युष्मत्कुले यदि यशसा अमलेन
प्रह्रादः उद्भाति यथा उडुपः खे॥ 4
यतः जातः हिरण्याक्षः चरन् एकः इमाम् महीम्।
प्रतिवीरम् दिग्विजये न अविन्दत गदायुधः॥ 5
यम् विनिर्जित्य कृच्छ्रेण विष्णुः क्ष्मा-उद्धारम् आगतम्।
न आत्मानम् जयिनम् मेने तत् वीर्यम् भूः अनुस्मरन्॥ 6
निशम्य तत् वधम् भ्राता हिरण्यकशिपुः पुरा।
हन्तुम् भ्रातृहणम् क्रुद्धः जगाम निलयम् हरेः॥ 7
तम् आयान्तम् समालोक्य शूलपाणिम् कृतान्तवत्।
चिन्तयामास कालज्ञः विष्णुः मायाविनाम् वरः॥ 8
यतः यतः अहम् तत्र असौ मृत्युः प्राणभृताम् इव।
अतः अहम् अस्य हृदयं प्रवेक्ष्यामि पराङ्दृशः॥ 9
एवम् स निश्चित्य रिपोः शरीरम्
आधावतः निर्विविशे असुरेन्द्रः।
श्वास-अनिल-अन्तर्-हित-सूक्ष्म-देहः
तत् प्राणरन्ध्रेण विविग्नचेताः॥ 10
स तत् निकेतम् परिमृश्य शून्यम्
अपश्यमानः कुपितः ननाद।
क्ष्माम् द्याम् दिशः खम् विवरान् समुद्रान्
विष्णुम् विचिन्वन् न अदर्श वीरः॥ 11
अपश्यन् इति ह उवाच मया अन्विष्टम् इदम् जगत्।
भ्रातृहा मे गतः नूनम् यतः न आवर्तते पुमान्॥ 12
वैर-अनुबन्धः एतावान् अमृत्युः इह देहिनाम्।
अज्ञान-प्रभवः मन्युः अहं-मान-उपबृंहितः॥ 13
पिता प्रह्लादपुत्रः ते तत्-विद्वान् द्विजवत्सलः।
स्वम् आयुः द्विजलिङ्गेभ्यः देवेभ्यः अदात् स याचितः॥ 14
भवान् आचरितान् धर्मान् आस्थितः गृहमेधिभिः।
ब्राह्मणैः पूर्वजैः शूरैः अन्यैः च उद्दामकीर्तिभिः॥ 15
तस्मात् त्वत्तः महीम् ईषत् वृणे अहम् वरदर्षभात्।
पदानि त्रीणि दैत्येन्द्र सम्मितानि पदा मम॥ 16
न अन्यत् ते कामये राजन् वदान्यात् जगदीश्वरात्।
न एनः प्राप्नोति वै विद्वान् यावत् अर्थप्रतिग्रहः॥ 17
श्रीबलिः उवाच -
अहो ब्राह्मणदायाद वाचः ते वृद्धसम्मताः।
त्वम् बालः बालिशमतिः स्वार्थम् प्रत्यबुधः यथा॥ 18
माम् वचोभिः समाराध्य लोकानाम् एकम् ईश्वरम्।
पदत्रयम् वृणीते यः अबुद्धिमान् द्विपदः अशुषम्॥ 19
न पुमान् माम् उपव्रज्य भूयः याचितुम् अर्हति।
तस्मात् वृत्तिकरीम् भूमिम् वटः कामम् प्रतीच्छ मे॥ 20
श्रीभगवानुवाच -
यावन्तः विषयाः प्रेष्ठाः त्रि-लोक्याम् अ-जितेन्द्रियम्।
न शक्नुवन्ति ते सर्वे प्रतिपूरयितुम् नृप॥ 21
त्रिभिः क्रमैः अ-सन्तुष्टः द्वीपेन अपि न पूर्यते।
नव-वर्ष-समेतेन सप्त-द्वीप-वर-इच्छया॥ 22
सप्त-द्वीप-अधिपतयः नृपाः वैन्य-गय-आदयः।
अर्थैः कामैः गताः न अन्तम् तृष्णायाः इति नः श्रुतम्॥ 23
यदृच्छया उपपन्नेन सन्तुष्टः वर्तते सुखम्।
न अ-सन्तुष्टः त्रिभिः लोकैः अ-जित-आत्मा उपसादितैः॥ 24
पुंसः अयम् संसृतेः हेतुः अ-सन्तोषः अर्थ-कामयोः।
यदृच्छया उपपन्नेन सन्तोषः मुक्तये स्मृतः॥ 25
यदृच्छा-लाभ-तुष्टस्य तेजः विप्रस्य वर्धते।
तत् प्रशाम्यति अ-सन्तोषात् अम्भसा इव अशुशुक्षणिः॥ 26
तस्मात् त्रीणि पदानि एव वृणे त्वत् वरद-ऋषभात्।
एतावत् एव सिद्धः अहम् वित्तम् यावत् प्रयोजनम्॥ 27
श्रीशुक उवाच -
इति उक्तः सः हसन् आह वाञ्छातः प्रतिगृह्यताम्।
वामनाय महीं दातुम् जग्राह जल-भाजनम्॥ 28
विष्णवे क्ष्माम् प्रदास्यन्तम् उशना असुर-ईश्वरम्।
जानन् चिकीर्षितम् विष्णोः शिष्यं प्राह विदाम् वरः॥ 29
श्रीशुक्र उवाच -
एषः वैरोचने साक्षात् भगवान् विष्णुः अव्ययः।
कश्यपात् अदितेः जातः देवानाम् कार्य-साधकः॥ 30
प्रतिश्रुतम् त्वया एतस्मै यत् अनर्थम् अजानता।
न साधु मन्ये दैत्यानाम् महत् अनुपगतः अनयः॥ 31
एषः ते स्थानम् ऐश्वर्यम् श्रियम् तेजः यशः श्रुतम्।
दास्यति आच्छिद्य शक्राय मायाम् आणवकः हरिः॥ 32
त्रिभिः क्रमैः इमान् लोकान् विश्व-कायः क्रमिष्यति।
सर्व-स्वम् विष्णवे दत्त्वा मूढ वर्तिष्यसे कथम्॥ 33
क्रमतः गां पद-एकेन द्वितीयेन दिवम् विभोः।
खम् च कायेन महता तृतीयस्य कुतः गतिः॥ 34
निष्ठाम् ते नरके मन्ये हि अ-प्रदातुः प्रतिश्रुतम्।
प्रतिश्रुतस्य यः अनीशः प्रतिपादयितुम् भवन्॥ 35
न तत् दानम् प्रशंसन्ति येन वृत्तिः विपद्यते।
दानम् यज्ञः तपः कर्म लोके वृत्तिमतः यतः॥ 36
धर्माय यशसे अर्थाय कामाय स्वजनाय च।
पञ्चधा विभजन् वित्तम् इह अमुत्र च मोदते॥ 37
अत्र अपि बह्वृचैः गीतम् शृणु मे असुर-सत्तम।
सत्य-अम् उ-अम् इति यत् प्रोक्तम् यत् न-इति आह अनृतम् हि तत्॥ 38
सत्यम् पुष्प-फलम् विद्यात् आत्म-वृक्षस्य गीयते।
वृक्षे अ-जीवति तत् न स्यात् अनृतम् मूलम् आत्मनः॥ 39
तत् यथा वृक्षः उन्मूलः शुष्यति उद्वर्तते अचिरात्।
एवम् नष्ट-अनृतः सद्यः आत्मा शुष्येत् न संशयः॥ 40
पराग् रिक्तम् अपूर्णं वा अक्षरं यत् तत् ओम् इति।
यत् किञ्चित् ओम् इति ब्रूयात् तेन ऋच्येत वै पुमान्।
भिक्षवे सर्वम् ओम् कुर्वन् न आलम् कामेन च आत्मने॥ 41
अथ एतत् पूर्णम् अभ्यात्मं यत् च न इति अनृतं वचः।
सर्वं न इति अनृतं ब्रूयात् स दुष्कीर्तिः श्वसन् मृतः॥ 42
स्त्रीषु नर्म विवाहे च वृत्ति-अर्थे प्राण-संकटे।
गो-ब्राह्मण-अर्थे हिंसायाम् न अनृतं स्यात् जुगुप्सितम्॥ 43
No comments:
Post a Comment