பலி சக்கரவர்த்தி தன்னையே கொடுத்தார்
ஸ்கந்தம் 8: அத்யாயம் 22
श्रीशुक उवाच
एवम् विप्रकृतः राजन् बलिः भगवता असुरः।
भिद्यमानः अपि अभिन्नात्मा प्रत्याह अविक्लवम् वचः॥1॥
श्रीबलिः उवाच
यदि उत्तमश्लोक भवान् मम इरितम्
वचः व्यम्-लीकं सुरवर्य मन्यते।
करोमि ऋतम् तत् न भवेत् प्रलम्भनम्
पदम् तृतीयम् कुरु शीर्ष्णि मे निजम्॥2॥
बिभेमि न अहम् निरयात् पदच्युतः
न पाशबन्धात् व्यसनात् दुरत्ययात्।
न एव अर्थकृच्छ्रात् भवतः विनिग्रहात्
असाधुवादात् भृशम् उद्विजे यथा॥3॥
पुंसाम् श्लाघ्यतमम् मन्ये दण्डम् अर्हत्तमम् अर्पितम्।
यम् न माता पिता भ्राता सुहृदः च आदिशन्ति हि॥4॥
त्वम् नूनम् असुराणाम् नः परोक्ष्यः परमः गुरुः।
यः नः अनेकम् मद-अन्धानाम् विभ्रंशम् चक्षुः आदिशत्॥5॥
यस्मिन् वैर-अनुबन्धेन व्यूढेन विभुध-इतराः।
बहवः लेभिरे सिद्धिम् याम् ह एकान्त-योगिनः॥6॥
तेन अहम् निगृहीतः अस्मि भवता भूरि-कर्मणा।
बद्धः च वारुणैः पाशैः न अति-व्रीडे न च व्यथे॥7॥
पितामहः मे भवदीय-सम्मतः
प्रह्लादः आविष्कृत-साधु-वादः।
भवत्-विपक्षेण विचित्र-वैशसम्
संप्रापितः त्वत्-परमः स्व-पित्रा॥8॥
किम् आत्मना अन्येन जहाति यः अन्ततः
किम् रिक्थ-हारैः स्वजन-आख्य-डस्युभिः।
किम् जायया संसृति-हेतु-भूतया
मर्त्यस्य गेहैः किम् इह आयुषः व्ययः॥9॥
इत्थम् सः निश्चित्य पितामहः महा-
नग-अध-बोधः भवतः पाद-पद्मम्।
ध्रुवम् प्रपेदे हि अकुतः-भयम् जनात्
भीतः स्व-पक्ष-क्षपणस्य सत्तम॥10॥
अथ अहम् अपि आत्म-रिपः तव अन्तिकम्
दैवेन नीतः प्रसभम् त्याजित-श्रीः।
इदम् कृतान्त-अन्तिक-वर्ति जीवितम्
यया अध्रुवम् स्तब्ध-मतिः न बुध्यते॥11॥
श्रीशुकः उवाच
तस्य एवम् भाषमाणस्य प्रह्लादः भगवत्-प्रियः।
आजगाम कुरु-श्रेष्ठ राका-पतिः इव उत्थितः॥12॥
तम् इन्द्रसेनः स्व-पितामहम् श्रियाः
विराजमानम् नलिन-आयतेक्षणम्।
प्रांशुम् पिशङ्ग-अम्बरम् अञ्जन-त्विषम्
प्रलम्ब-बाहुम् सुभगम् समैक्षत॥13॥
तस्मै बलिः वारुण-पाश-यन्त्रितः
समर्हणम् न उपजहार पूर्ववत्।
ननाम मूर्ध्ना अश्रु-विलोल-लोचनः
स व्रीड-नीचीन-मुखः बभूव ह॥14॥
सः तत्र हासीनम् उदीक्ष्य सत्पतिम्
सुनन्दन-आदि-अनुगैः उपासितम्।
उपेत्य भूमौ शिरसा महा-मनाः
ननाम मूर्ध्ना पुलक-अश्रु-विक्लवः॥15॥
श्री-प्रह्लादः उवाच
त्वया एव दत्तम् पदम् ऐन्द्रम् ऊर्जितम्
हृतम् तत् एव अद्य तथैव शोभनम्।
मन्ये महत् अस्य कृतः हि अनुग्रहः
विभ्रंशितः यत् श्रियः आत्म-मोहनात्॥16॥
यया हि विद्वान् अपि मुह्यते यतः
तत् कः विचष्टे गतिम् आत्मनः यथा।
तस्मै नमः ते जगत्-ईश्वराय वै
नारायणाय अखिल-लोक-साक्षिणे॥17॥
श्रीशुकः उवाच
तस्य अनुश्रृण्वतः राजन् प्रह्लादस्य कृत-अञ्जलेः।
हिरण्यगर्भः भगवान् उवाच मधुसूदनम्॥18॥
बद्धम् वीक्ष्य पतिम् साध्वी तत्-पत्नी भय-विह्वला।
प्राञ्जलिः प्रणतः उपेन्द्रम् बभाषे अवांमुखी नृप॥19॥
श्री-विन्ध्यावलीः उवाच
क्रीड-अर्थम् आत्मनः इदम् त्रिजगत् कृतम् ते
स्वाम्यम् तु तत्र कु-धियः अपरे ईश कुर्युः।
कर्तुः प्रभोः तव किम् अस्य अथ आवहन्ति
त्यक्त-ह्रियः त्वत्-अवरोपित-कर्तृवादाः॥20॥
श्री-ब्रह्मा उवाच —
भूत-भावन भूतेश देव-देव जगत्-मय।
मुञ्च एनम् हृत-सर्व-स्वम् न अयम् अर्हति निग्रहम्॥ 21 ॥
कृत्स्ना ते अनेन दत्ता भूः-लोकाः कर्म-अर्जिताः च ये।
निवेदितम् च सर्व-स्वम् आत्मा अविक्लवया धिया॥ 22 ॥
यत् पादयोः अ-शठ-धीः सलिलम् प्रदाय
दूर्वा-अङ्कुरैः अपि विधाय सतीम् सपर्याम्।
अपि उत्तमाम् गतिम् असौ भजते त्रि-लोकीम्
दाश्वान् अविक्लव-मनाः कथम् आर्तिम् ऋच्छेत्॥ 23 ॥
श्री-भगवान् उवाच —
ब्रह्मन् यम् अनुगृह्णामि तत् विशः विधुनोमि अहम्।
यत् मदः पुरुषः स्तब्धः लोकम् माम् च अवमन्यते॥ 24 ॥
यदा कदा चित् जीवात्मा संसरण् निज-कर्मभिः।
नाना-योनि-षु अनीशः अयम् पौरुषीम् गतिम् आव्रजेत्॥ 25 ॥
जन्म-कर्म-वयः-रूप-विद्या-ऐश्वर्य-धन-आदिभिः।
यत् यस्य न भवेत् स्तम्भः तत्र अयम् मद्-अनुग्रहः॥ 26 ॥
मान-स्तम्भ-निमित्तानाम् जन्म-आदीनाम् समन्ततः।
सर्व-श्रेयः-प्रतीपानाम् हन्त मुह्येत् न मत्-परः॥ 27 ॥
एष दानव-दैत्यानाम् अग्रणीः कीर्ति-वर्धनः।
अजैषीत् अजयाम् मायाम् सीदन् अपि न मुह्यति॥ 28 ॥
क्षीण-रिक्थः च्युतः स्थानात् क्षिप्तः बद्धः च शत्रुभिः।
ज्ञातिभिः च परित्यक्तः यातनाम् अनुयापितः॥ 29 ॥
गुरुणा भर्त्सितः शप्तः जहौ सत्यम् न सु-व्रतः।
छलैः उक्तः मया धर्मः न अयम् त्यजति सत्य-वाक्॥ 30 ॥
एष मे प्रापितः स्थानम् दुष्प्रापम् अमरैः अपि।
सावर्णेः अन्तरस्य अयम् भविता इन्द्रः मत्-आश्रयः॥ 31 ॥
तावत् सुतलम् अध्यास्ताम् विश्व-कर्मा-विनिर्मितम्।
यत् न आढयः व्याधयः च क्लमः तन्द्रा पराभवः।
न उपसर्गाः निवसताम् सम्भवन्ति मम् ईक्षया॥ 32 ॥
इन्द्रसेन महा-राज याहि भो भद्रम् अस्तु ते।
सुतलम् स्वर्गिभिः प्रार्थ्यम् ज्ञातिभिः परिवारितः॥ 33 ॥
न त्वाम् अभिभविष्यन्ति लोक-ईशाः किम् उत अपरे।
त्वत्-शासनाति-गान् दैत्यान् चक्रम् मे सूदयिष्यति॥ 34 ॥
रक्षिष्ये सर्वतः अहम् त्वाम् स-अनुगम् स-परिच्छदम्।
सदा सन्निहितम् वीर तत्र माम् द्रक्ष्यते भवान्॥ 35 ॥
तत्र दानव-दैत्यानाम् सङ्गात् ते भावः आसुरः।
दृष्ट्वा मत्-अनुभावम् वै सद्यः कुण्ठः विनङ्क्ष्यति॥ 36 ॥
No comments:
Post a Comment