Followers

Search Here...

Saturday, 2 August 2025

ஸ்கந்தம் 8: அத்யாயம் 20 (பலி சக்கரவர்த்தி உலகங்களை தானம் கொடுத்தார்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

பலி சக்கரவர்த்தி உலகங்களை தானம் கொடுத்தார்

ஸ்கந்தம் 8: அத்யாயம் 20

श्रीशुक उवाच -
बलिरेवं गृहपतिः कुलाचार्येण भाषितः।
तूष्णीं भूत्वा क्षणं राजन्नुवाचावहितो गुरुम्॥ 1

श्रीबलिरुवाच -
सत्यं भगवता प्रोक्तं धर्मोऽयं गृहमेधिनाम्।
अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित्॥ 2

स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम्।
प्रतिश्रुत्य ददामीति प्राह्रादिः कितवो यथा॥ 3

न ह्यसत्यात् परोऽधर्म इति होवाच भूरियम्।
सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम्॥ 4

नाहं बिभेमि निरयान्नाधन्यादसुखार्णवात्।
न स्थानच्यवनान्मृत्योर्यथा विप्रप्रलम्भनात्॥ 5

यद् यद्धास्यति लोकेऽस्मिन् संपरेतं धनादिकम्।
तस्य त्यागे निमित्तं किं विप्रस्तुष्येन्न तेन चेत्॥ 6

श्रेयः कुर्वन्ति भूतानां साधवो दुस्त्यजासुभिः।
दध्यङ्‌गशिबिप्रभृतयः को विकल्पो धरादिषु॥ 7

यैरियं बुभुजे ब्रह्मन्दैत्येन्द्रैरनिवर्तिभिः।
तेषां कालोऽग्रसील्लोकान् न यशोऽधिगतं भुवि॥ 8

सुलभा युधि विप्रर्षे ह्यनिवृत्तास्तनुत्यजः।
न तथा तीर्थ आयाते श्रद्धया ये धनत्यजः॥ 9

मनस्विनः कारुणिकस्य शोभनं
यदर्थिकामोपनयेन दुर्गतिः।
कुतः पुनर्ब्रह्मविदां भवादृशां
ततो वटोरस्य ददामि वाञ्छितम्॥ 10

यजन्ति यज्ञक्रतुभिर्यमादृता
भवन्त आम्नायविधानकोविदाः।
स एव विष्णुर्वरदोऽस्तु वा परो
दास्याम्यमुष्मै क्षितिमीप्सितां मुने॥ 11

यद्यपसावधर्मेण मां बध्नीयादनागसम्।
तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम्॥ 12

एष वा उत्तमश्लोको न जिहासति यद् यशः।
हत्वा मैनां हरेद् युद्धे शयीत निहतो मया॥ 13

श्रीशुक उवाच -
एवमश्रद्धितं शिष्यमनादेशकरं गुरुः।
शशाप दैवप्रहितः सत्यसन्धं मनस्विनम्॥ 14

दृढं पण्डितमान्यज्ञः स्तब्धोऽस्यस्मदुपेक्षया।
मच्छासनातिगो यस्त्वमचिराद् भ्रश्यसे श्रियः॥ 15

एवं शप्तः स्वगुरुणा सत्यान्न चलितो महान्।
वामनाय ददावेनामर्चित्वोदकपूर्वकम्॥ 16

विन्ध्यावलिस्तदाऽऽगत्य पत्‍नी जालकमालिनी।
आनिन्ये कलशं हैममवनेजन्यपां भृतम्॥ 17

यजमानः स्वयं तस्य श्रीमत्पादयुगं मुदा।
अवनिज्यावहन्मूर्ध्नि तदपो विश्वपावनीः॥ 18

तदाऽसुरेन्द्रं दिवि देवतागणा
गन्धर्वविद्याधरसिद्धचारणाः।
तत्कर्म सर्वेऽपि गृणन्त आर्जवं
प्रसूनवर्षैर्ववृषुर्मुदान्विताः॥ 19

नेदुर्मुहुर्दुन्दुभयः सहस्रशो
गन्धर्वकिम्पूरुषकिन्नरा जगुः।
मनस्विनानेन कृतं सुदुष्करं
विद्वानदाद् यद् रिपवे जगत्त्रयम्॥ 20

तद् वामनं रूपम् अवर्धत अद्‍भुतम्
हरेः अनन्तस्य गुण-त्रय-आत्मकम्।
भूः खम् दिशः द्यौः विवराः पयोधयः
स्त्रियन्-नृ-देवाः ऋषयः यत् आसत॥ 21॥

काये बलेः तस्य महा-विभूतेः
सह ऋत्विज्-आचार्य-सदस्य एतत्।
ददर्श विश्वम् त्रि-गुणम् गुण-आत्मके
भूत-इन्द्रिय-अर्थ-आशय-जीव-युक्तम्॥ 22॥

रसाम् अचष्ट अङ्‍घ्रि-तले अथ पादयोः
महीम् मही-ध्रान् पुरुषस्य जङ्घयोः।
पतत्त्रिणः जानुनि विश्व-मूर्तेः
ऊर्वोः गणम् मारुतम् इन्द्रसेनः॥ 23॥

सन्ध्याम् विभोः वाससि गुह्यम् ऐक्षत्
प्रजा-पतीन् जघने आत्म-मुख्यान्।
नाभ्याम् नभः कुक्षिषु सप्त-सिन्धून्
उरुक्रमस्य उरसि च ऋक्ष-मालाम्॥ 24॥

हृदि अङ्ग धर्मम् स्तनयोः मुरारेः
ऋतम् च सत्यम् च मनसि अथ इन्दुम्।
श्रियं च वक्षसि अरविन्द-हस्ताम्
कण्ठे च सामानि समस्त-रेफान्॥ 25॥

इन्द्र-प्रधानान् अमरान् भुजेषु
तत्-कर्णयोः ककुभः द्यौः च मूर्ध्नि।
केशेषु मेघान् श्वसनं नासिकायाः
अक्ष्णोः च सूर्यं वदने च वह्निम्॥ 26॥

वाण्याम् च छन्दांसि रसे जल-ईशम्
भ्रुवोः निषेधम् च विधिम् च पक्ष्मसु।
अहः च रात्रिम् च परस्य पुंसः
मन्यम् ललाटे अधरः एव लोभम्॥ 27॥

स्पर्शे च कामम् नृप रेतस-अम्भः
पृष्ठे तु अधर्मम् क्रमणेषु यज्ञम्।
छायासु मृत्युं हसिते च मायाम्
तनू-रुहेषु ओषधि-जातयः च॥ 28॥

नदीः च नाडीषु शिलाः नखेषु
बुद्धौ अजम् देव-गणान् ऋषीन् च।
प्राणेषु गात्रे स्थिर-जङ्गमानि
सर्वाणि भूतानि ददर्श वीरः॥ 29॥

सर्व-आत्मनि इदम् भुवनम् निरीक्ष्य
सर्वे असुराः कश्मलम् आपुर् अङ्ग।
सुदर्शनम् चक्रम् असह्य-तेजः
धनुः च शार्ङ्गम् स्तनयित्नुघोषम्॥ 30॥

पर्जन्य-घोषः जलजः पाञ्चजन्यः
कौमोदकी विष्णु-गदा तरस्विनी।
विद्याधरः असिः शत-चन्द्र-युक्तः
स्तूण-उत्तमौ अक्षय-सायकौ च॥ 31॥

सुनन्द-मुख्याः उपतस्थुः ईशम्
पार्षद-मुख्याः सह लोक-पालाः।
स्फुरत्-किरीट-अङ्गद-मीन-कुण्डल-
श्रीवत्स-रत्न-उत्तम-मेखला-अम्बरैः॥ 32॥

मधु-व्रत-स्रक्-वनमालया वृतः
रराज राजन् भगवान् उरुक्रमः।
क्षितिम् पद-एकेन बलेः विचक्रमे
नभः शरीरेण दिशः च बाहुभिः॥ 33॥

पदम् द्वितीयम् क्रमतः त्रिविष्टपम्
न वै तृतीयाय तदीयम् अणु अपि।
उरुक्रमस्य अङ्घ्रिः उपरि उपरि अथ
महर्-जना-भ्याम् तपसः परम् गतः॥ 34॥

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे विश्वरूपदर्शनं नाम विंशोऽध्यायः॥ 20 ॥

No comments:

Post a Comment