Followers

Search Here...

Saturday, 2 August 2025

ஸ்கந்தம் 8: அத்யாயம் 16 (அதிதி வாசுதேவரை பிரார்த்திக்கிறாள்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

அதிதி வாசுதேவரை பிரார்த்திக்கிறாள்

ஸ்கந்தம் 8: அத்யாயம் 16

श्रीशुक उवाच
एवम् पुत्रेषु नष्टेषु देव-मताः अदितिḥ तदा।
हृते त्रि-विष्टपे दैत्यैः पर्यतप्यत अनाथवत् ॥ १ ॥

एकदा कश्यपः तस्याः आश्रमम् भगवन् अगात्।
निरुत्सवम् निरानन्दम् समाधेः विरतः चिरात् ॥ २ ॥

सः पत्नीम् दीन-वदनाम् कृत-आसन-परिग्रहः।
सभाजितः यथा-न्यायम् इदम् आह कुरु-उद्वह ॥ ३ ॥

अपि अभद्रम् न विप्राणाम् भद्रे लोके अधुना आगतम्।
न धर्मस्य न लोकस्य मृत्युः छन्द-अनुवर्तिनः ॥ ४ ॥

अपि वा अकुशलम् किञ्चित् गृहेषु गृह-मेधिनि।
धर्मस्य अर्थस्य कामस्य यत्र योगः हि अयोगिनाम् ॥ ५ ॥

अपि वा अतिथयः अभ्येत्य कुटुम्ब-आसक्तया त्वया।
गृहात् अपूजिताः याताः प्रत्युत्थानेन वा क्वचित् ॥ ६ ॥

गृहेषु येषु अतिथयः न अर्चिताः सलिलैः अपि।
यदि निर्यान्ति ते नूनम् फेरुः राज-गृह-उपमाः ॥ ७ ॥

अपि अग्नयः तु वेलायाम् न हुताः हविषा सति।
त्वया उद्विग्न-धिया भद्रे प्रोषिते मयि कर्हिचित् ॥ ८ ॥

यत्-पूजया काम-दुघान् याति लोकान् गृहान्वितः।
ब्राह्मणः अग्निः च वै विष्णोः सर्व-देव-आत्मनः मुखम् ॥ ९ ॥

अपि सर्वे कुशलिनः तव पुत्राः मनस्विनि।
लक्षये अस्वस्थम् आत्मानम् भवत्याः लक्षणैः अहम् ॥ १० ॥

अदितिः उवाच
भद्रम् द्विज-गवाम् ब्रह्मन् धर्मस्य अस्य जनस्य च।
त्रि-वर्गस्य परम् क्षेत्रम् गृह-मेधिनाम् गृहाः इमे ॥ ११ ॥

अग्नयः अतिथयः भृत्याः भिक्षवः ये च लिप्सवः।
सर्वम् भगवतः ब्रह्मन् अनु-ध्यानात् न रिष्यति ॥ १२ ॥

कः नु मे भगवन् कामः न सम्पद्येत मानसः।
यस्याः भवान् प्रजा-अध्यक्षः एवम् धर्मान् प्रभाषते ॥ १३ ॥

तव एव मारीच मनः-शरीर-जाताः
प्रजाः इमाः सत्त्व-रजः-तमः-जुषः।
समः भवाम् तासु असुर-आदिषु प्रभो
तथापि भक्तम् भजते महा-ईश्वरः ॥ १४ ॥

तस्मात् ईश भजन्त्या मे श्रेयः चिन्तय सुव्रत।
हृत-श्रियः हृत-स्थानान् सपत्‍नैः पाहि नः प्रभो ॥ १५ ॥

परैः विवासिता सा अहम् मग्ना व्यसन-सागरे।
ऐश्वर्यम् श्रीः यशः स्थानम् हृतानि प्रबलैः मम ॥ १६ ॥

यथा तानि पुनः साधो प्रपद्येरन् मम आत्मजाः।
तथा विधेहि कल्याणम् धिया कल्याण-कृत्-तम ॥ १७ ॥

श्रीशुक उवाच
एवम् अभ्यर्थितः अदित्या कः ताम् आह स्मयन् इव।
अहो माया-बलम् विष्णोः स्नेह-बद्धम् इदम् जगत् ॥ १८ ॥

क्व देहः भौतिकः अनात्मा क्व च आत्मा प्रकृतेः परः।
कस्य के पति-पुत्र-आद्याः मोहः एव हि कारणम् ॥ १९ ॥

उपतिष्ठस्व पुरुषम् भगवन्तम् जनार्दनम्।
सर्व-भूत-गुहा-वासम् वासुदेवम् जगत्-गुरुम् ॥ २० ॥

सः विधास्यति ते कामान् हरिः दीन-अनुकंपनः।
अमोघा भगवत्-भक्तिः न इतरे इति मतिः मम ॥ २१ ॥

अदितिः ऊवाच —
केन अहम् विधिना ब्रह्मन् उपस्थास्ये जगत्-पतिम्।
यथा मे सत्य-सङ्कल्पः विदध्यात् सः मनोरथम् ॥ २२ ॥

आदिश त्वम् द्विज-श्रेष्ठ विधिम् तत् उपधावनम्।
आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः ॥ २३ ॥

कश्यपः ऊवाच —
एतत् मे भगवाञ् पृष्टः प्रजा-कामस्य पद्मजः।
यत् आह ते प्रवक्ष्यामि व्रतम् केशव-तोषणम् ॥ २४ ॥

फाल्गुनस्य अमले पक्षे द्वादश-अहम् पयः-व्रतम्।
अर्चयेत् अरविन्द-आक्षम् भक्त्या परमया अन्वितः ॥ २५ ॥

सिनीवाल्याम् मृदा आलिप्य स्नायात् क्रोड-विदीर्णया।
यदि लभ्येत वै स्रोतसि एतम् मन्त्रम् उदीरयेत् ॥ २६ ॥

त्वम् देवि आदि-वराहेण रसायाः स्थानम् इच्छता।
उद्धृताः असि नमः तुभ्यम् पाप्मानम् मे प्रणाशय ॥ २७ ॥

निर्वर्तित-आत्म-नियमः देवम् अर्चेत् समाहितः।
अर्चायाम् स्थण्डिले सूर्ये जले वह्नौ गुरौ अपि ॥ २८ ॥

नमः तुभ्यम् भगवते पुरुषाय महीयसे।
सर्व-भूत-निवासाय वासुदेवाय साक्षिणे ॥ २९ ॥

नमः अव्यक्ताय सूक्ष्माय प्रधान-पुरुषाय च।
चतुर्विंशत्-गुण-ज्ञाय गुण-संख्यान-हेतवे ॥ ३० ॥

नमः द्वि-शीर्ष्णे त्रि-पदे चतुः-श्रृङ्गाय तन्तवे।
सप्त-हस्ताय यज्ञाय त्रयी-विद्या-आत्मने नमः ॥ ३१ ॥

नमः शिवाय रुद्राय नमः शक्ति-धराय च।
सर्व-विद्या-अधिपतये भूतानाम् पतये नमः ॥ ३२ ॥

नमः हिरण्य-गर्भाय प्राणाय जगत्-आत्मने।
योग-ऐश्वर्य-शरीराय नमः ते योग-हेतवे ॥ ३३ ॥

नमः ते आदि-देवाय साक्षि-भूताय ते नमः।
नारायणाय ऋषये नराय हरये नमः ॥ ३४ ॥

नमः मरकत-श्याम-वपुषे अधिगत-श्रिये।
केशवाय नमः तुभ्यम् नमः ते पीत-वाससे ॥ ३५ ॥

त्वम् सर्व-वरदः पुंसाम् वरेण्य वरद-ऋषभ।
अतः ते श्रेयसे धीराः पाद-रेणुम् उपासते ॥ ३६ ॥

अन्ववर्तन्त यम् देवाः श्रीः च तत् पाद-पद्मयोः।
स्पृहयन्ति इव आमोदम् भगवान् मे प्रसीदताम् ॥ ३७ ॥

एतैः मन्त्रैः हृषी-केशम् आवाहन-पुरस्कृतम्।
अर्चयेत् श्रद्धया युक्तः पाद्य-उपस्पर्शन-आदिभिः ॥ ३८ ॥

अर्चित्वा गन्ध-माल्य-आद्यैः पयसा स्नपयेत् विभुम्।
वस्त्र-उपवीत-आभरण-पाद्य-उपस्पर्शनैः ततः।
गन्ध-धूप-आदिभिः च अर्चेत् द्वादश-अक्षर-विद्यया ॥ ३९ ॥

श्रृतम् पयसि नैवेद्यम् शालि-अन्नम् विभवे सति।
स-सर्पिः स-गुडम् दत्त्वा जुहुयात् मूल-विद्यया ॥ ४० ॥

निवेदितं तत् भक्ताय दद्यात् भुञ्जीत वा स्वयम्।
दत्त्वा आचमनम् अर्चित्वा ताम्बूलं च निवेदयेत्॥ 41

जपेत् अष्ट-उत्तर-शतम् स्तुवीत स्तुतिभिः प्रभुम्।
कृत्वा प्रदक्षिणम् भूमौ प्रणमेत् दण्डवत् मुदा॥ 42

कृत्वा शिरसि तत्-शेषाम् देवम् उद्वासयेत् ततः।
द्वि-अवरान् भोजयेत् विप्रान् पायसेन यथा उचितम्॥ 43

भुञ्जीत तैः अनुज्ञातः शेषम् स-इष्टः सभाजितैः।
ब्रह्मचार्य अथ तद्-रात्र्याम् श्वः-भूते प्रथमे अहनि॥ 44

स्नातः शुचिः यथोक्तेन विधिना सुसमाहितः।
पयसा स्नापयित्वा अर्चेत् यावत् व्रत-समापनम्॥ 45

पयः-भक्षः व्रतम् इदम् चरेत् विष्णु-अर्चन-आदृतः।
पूर्ववत् जुहुयात् अग्निम् ब्राह्मणान् च अपि भोजयेत्॥ 46

एवम् तु अहः-अहः कुर्यात् द्वादश-अहम् पयः-व्रतम्।
हरेः आराधनम् होमम् अर्हणम् द्विज-तर्पणम्॥ 47

प्रतिपत्-दिनम् आरभ्य यावत् शुक्ल-त्रयोदशी।
ब्रह्मचर्यम् अधः-स्वप्नम् स्नानम् त्रि-शवणम् चरेत्॥ 48

वर्जयेत् असत्-आलापम् भोगान् उच्च-अवचान् तथा।
अहिंस्रः सर्व-भूतानाम् वासुदेव-परायणः॥ 49

त्रयोदश्याम् अथ विष्णोः स्नपनम् पञ्चकैः विभोः।
कारयेत् शास्त्र-दृष्टेन विधिना विधि-कोविदैः॥ 50

पूजाम् च महतीम् कुर्यात् वित्त-शाठ्य-विवर्जितः।
चरुम् निरूप्य पयसि शिपिविष्टाय विष्णवे॥ 51

श्रुतेन तेन पुरुषम् यजेत सुसमाहितः।
नैवेद्यम् च अति-गुणवत् दद्यात् पुरुष-तुष्टि-दम्॥ 52

आचार्यम् ज्ञान-सम्पन्नम् वस्त्र-अभरण-धेनुभिः।
तोषयेत् ऋत्विजः च एव तत् विद्धि आराधनम् हरेः॥ 53

भोजयेत् तान् गुणवता स-उदन्नेन शुचि-स्मिते।
अन्यान् च ब्राह्मणान् शक्यया ये च तत्र समागताः॥ 54

दक्षिणाम् गुरवे दद्यात् ऋत्विग्भ्यः च यथार्हतः।
अन्न-आद्येन अश्वपाकान् च प्रीणयेत् समुपागतान्॥ 55

भुक्तवत्सु च सर्वेषु दीन-अन्ध-कृपण-आदिषु च।
विष्णोः तत् प्रीणनम् विद्वान् भुञ्जीत सह बन्धुभिः॥ 56

नृत्य-वादित्र-गीतैः च स्तुतिभिः स्वस्ति-वाचकैः।
कारयेत् तत्-कथाभिः च पूजाम् भगवतः अन्वहम्॥ 57

एतत् पयः-व्रतम् नाम पुरुष-आराधनम् परम्।
पितामहेन अभिहितम् मया ते समुदाहृतम्॥ 58

त्वम् च अनेन महा-भागे सम्यक् चीर्णेन केशवम्।
आत्मना शुद्ध-भावेन नियत-आत्मा भज अव्ययम्॥ 59

अयम् वै सर्व-यज्ञ-आख्यः सर्व-व्रतम् इति स्मृतम्।
तपः-सारम् इदम् भद्रे दानम् च ईश्वर-तर्पणम्॥ 60

त एव नियमाः साक्षात् त एव च यम-उत्तमाः।
तपः दानम् व्रतम् यज्ञः येन तुष्यति अधः-क्षजः॥ 61

तस्मात् एतत्-व्रतम् भद्रे प्रयता श्रद्धया चर।
भगवान् परितुष्टः ते वरान् आशु विधास्यति॥ 62

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे अदिति पयोव्रतकथनं नाम षोडशोऽध्यायः ॥ 16 ॥

No comments:

Post a Comment