அதிதிக்கு மகனாக பிறக்க சம்மதித்தார் வாசுதேவர்
ஸ்கந்தம் 8: அத்யாயம் 17
श्रीशुकः उवाच —
इति उक्ता सा अदितिः राजन् स्व-भर्त्रा कश्यपेन वै।
अन्वतिष्ठत् व्रतम् इदम् द्वादश-अहम् अतन्द्रिता॥ 1
चिन्तयन्ती एका-या बुद्ध्या महा-पुरुषम् ईश्वरम्।
प्रगृह्य इन्द्रिय-दुष्ट-अश्वान् मनसा बुद्धि-सारथिः॥ 2
मनः च एकाग्रया बुद्ध्या भगवति अखिल-आत्मनि।
वासुदेवे समाधाय चचार ह पयो-व्रतम्॥ 3
तस्याः प्रादुरभूत् तात भगवन् आदि-पुरुषः।
पीत-वासाः चतुर्-बाहुः शङ्ख-चक्र-गदा-धरः॥ 4
तम् नेत्र-गोचरम् वीक्ष्य सहसा उत्थाय स-आदरम्।
ननाम भुवि कायेन दण्डवत् प्रीति-विह्वला॥ 5
सा उत्थाय बद्ध-अञ्जलिः ईडितुम् स्थिता
न उत्सेह आनन्द-जल-आकुल-ईक्षणा।
बभूव तूष्णीम् पुलक-आकुल-आकृतिः
तत्-दर्शन-अत्युत्सव-गात्र-वेपथुः॥ 6
प्रीत्या शनैः गद्गदया गिरा हरिम्
तुष्टाव सा देवी अदितिः कुरु-उद्वह।
उद्वीक्षती सा पिबती-इव चक्षुषा
रमा-पतिम् यज्ञ-पतिम् जगत्-पतिम्॥ 7
अदितिः उवाच —
यज्ञ-ईश यज्ञ-पुरुष अच्युत तीर्थ-पाद
तीर्थ-श्रवः श्रवण-मङ्गल-नाम-धेय।
आपन्न-लोक-वृजिन-उपशम-उदय-आद्य
शम् नः कुरु ईश भगवन् असि दीन-नाथः॥ 8
विश्वाय विश्व-भवन-स्थिति-संयमाय
स्वैरम् गृहीत-पुरु-शक्ति-गुणाय भूम्ने।
स्वस्थाय शश्वत् उपबृंहित-पूर्ण-बोध
व्यापादित-आत्म-तमसे हरये नमः ते॥ 9
आयुः परम् वपुः अभीष्टम् अतुल्य-लक्ष्मीः
द्यौ-भूः रसाः सकल-योग-गुणाः त्रि-वर्गः।
ज्ञानम् च केवलम् अनन्त भवन्ति तुष्टात्
त्वत्तः नृणाम् किम् उ सपत्न-जय-आदि-राशिः॥ 10
श्रीशुकः उवाच —
अदित्या एवम् स्तुतः राजन् भगवान् पुष्कर-ईक्षणः।
क्षेत्रज्ञः सर्व-भूतानाम् इति ह उवाच भारत॥ 11
श्रीभगवान् उवाच —
देव-मातर् भवत्या मे विज्ञातम् चिर-काङ्क्षितम्।
यत् सपत्नैः हृत-श्रीणाम् च्यावितानाम् स्व-धामतः॥ 12
तान् विनिर्जित्य समरे दुर्मदान् असुर-अर्षभान्।
प्रतिलब्ध-जय-श्रीभिः पुत्रैः इच्छसि उपासितुम्॥ 13
इन्द्र- ज्येष्ठैः स्व-तनयैः हतानाम् युधि विद्विषाम्।
स्त्रियः रुदन्तीः आसाद्य द्रष्टुम् इच्छसि दुःखिताः॥ 14
आत्मजान् सुसमृद्धान् त्वम् प्रत्याहृत-यशः-श्रियः।
नाक-पृष्ठम् अधिष्ठाय क्रीडतः द्रष्टुम् इच्छसि॥ 15
प्रायः अधुना ते असुर-यूथ-नाथाः
अपारणीयाः इति देवि मे मतिः।
यत् ते अनुकूल-ईश्वर-विप्र-गुप्ताः
न विक्रमः तत्र सुखम् ददाति॥ 16
अथ अपि उपायः मम देवि चिन्त्यः
सन्तोषितस्य व्रत-चर्यया ते।
मम अर्चनम् न अर्हति गन्तुम् अन्यथा
श्रद्धा-अनुरूपम् फल-हेतुक-त्वात्॥ 17
त्वया अर्चितः च अहम् अपत्य-गुप्तये
पयः-व्रतेन अनुरुणम् समीडितः।
स्व-अंशेन पुत्र-त्वम् उपेत्य ते सुतान्
गोप्ता अस्मि मारीच-तपस्य-अधिष्ठितः॥ 18
उपधाव पतिम् भद्रे प्रजापतिम् अकल्मषम्।
माम् च भावयती पत्यौ एवं-रूपम् अवस्थितम्॥ 19
न एतत् परस्मै आख्येयम् पृष्टया अपि कथञ्चन।
सर्वम् सम्पद्यते देवि देव-गुह्यम् सु-संवृतम्॥ 20
श्रीशुक उवाच -
एतावत् उक्त्वा भगवाञ् तत् एव अन्तरधीयत।
अदितिः दुर्लभं लब्ध्वा हरेः जन्म आत्मनि प्रभोः॥ 21
उपाधावत् पतिं भक्त्या परया कृतकृत्यवत्।
सः वै समाधि-योगेन कश्यपः तत् अबुध्यत॥ 22
प्रविष्टम् आत्मनि हरेः अंशं हि अवितथ-ईक्षणः।
सः अदित्याम् वीर्यम् आधत्त तपसा चिर-सम्भृतम्।
समाहित-मनाः राजन् दारुण्य-अग्निम् यथा अनिलः॥ 23
अदितेः अधिष्ठितम् गर्भं भगवन्तम् सनातनम्।
हिरण्यगर्भः विज्ञाय समीडे गुह्य-नामभिः॥ 24
श्रीब्रह्मा उवाच -
जयो उरुगाय भगवन् उरुक्रम नमः अस्तु ते।
नमः ब्रह्मण्य-देवाय त्रिगुणाय नमः नमः॥ 25
नमः ते पृश्नि-गर्भाय वेद-गर्भाय वेधसे।
त्रि-नाभाय त्रि-पृष्ठाय शिपिविष्टाय विष्णवे॥ 26
त्वम् आदिः अन्तः भुवनस्य मध्ये।
अनन्त-शक्तिं पुरुषं यम् आहुः।
कालः भवान् आक्षिपति ईश विश्वम्
स्रोतः यथा अन्तः पतितं गभीरम्॥ 27
त्वम् वै प्रजानां स्थिर-जङ्गमानां
प्रजापतीनाम् असि सम्भविष्णुः।
दिवौकसां देव दिवः च्युतानां
परायणम् नौः इव मज्जतः अप्सु॥ 28
No comments:
Post a Comment