அசுரன் நமூசி வதம்
ஸ்கந்தம் 8: அத்யாயம் 11
श्रीशुक उवाच
अथ सुराः प्रत्युपलब्ध-चेतसः परस्य पुंसः पर-यानुकम्पया।
जघ्नुः भृशम् शक्र-समीरण-आदयः तान् तान् रणे यैः अभिसंहताः पुरा ॥ १ ॥
वैरोचनाय संरब्धः भगवान् पाक-शासनः।
उदयच्छत् यदा वज्रम् प्रजाः हाहेति चुक्रुशुः ॥ २ ॥
वज्र-पाणिः तम् आह इदम् तिरस्कृत्य पुरः-स्थितम्।
मनस्विनम् सु-सम्पन्नम् विचरन्तम् महा-मृधे ॥ ३ ॥
नटवत् मूढ-मायाभिः माये-ईशान् नः जिगीषसि।
जित्वा बालान् निबद्ध-अक्षान् नटः हरति तत् धनम् ॥ ४ ॥
आरुरुक्षन्ति मायाभिः उत्सिसृप्सन्ति ये दिवम्।
तान् दस्यून् विधुनोमि अज्ञान् पूर्वस्मात् च पदात् अधः ॥ ५ ॥
सः अहम् दुर्मायिनः ते अद्य वज्रेण शत-पर्वणा।
शिरः हरिष्ये मन्द-आत्मन् घटस्व ज्ञातिभिः सह ॥ ६ ॥
श्रीबलिः उवाच
सङ्ग्रामे वर्तमानानाम् काल-चोदित-कर्मणाम्।
कीर्तिः जयः अजयः मृत्युः सर्वेषाम् स्युः अनुक्रमात् ॥ ७ ॥
तत् इदम् काल-रशनम् जनाः पश्यन्ति सूरयः।
न हृष्यन्ति न शोचन्ति तत्र यूयम् अपण्डिताः ॥ ८ ॥
न वयम् मन्यमानानाम् आत्मानम् तत्र साधनम्।
गिरः वः साधु-शोच्यानाम् गृह्णीमः मर्म-ताडनाः ॥ ९ ॥
श्रीशुक उवाच
इति आक्षिप्य विभुम् वीरः नाराचैः वीर-मर्दनः।
आकर्ण-पूर्णैः अहनत् आक्षेपैः आहतम् पुनः ॥ १० ॥
एवम् निराकृतः देवः वैरिणा तथा-वादिना।
न अमृष्यत तत् अधिक्षेपम् तोत्र-आहतः इव द्विपः ॥ ११ ॥
प्राहरत् कुलिशम् तस्मै अमोघम् परम-अर्दनः।
सयानः न्यपतत् भूमौ छिन्न-पक्षः इव अचलः ॥ १२ ॥
सखायम् पतितम् दृष्ट्वा जम्भः बलि-सखः सुहृत्।
अभ्ययात् सौहृदम् सख्युः हतस्य अपि समाचरन् ॥ १३ ॥
स सिंह-वाहः आसाद्य गदाम् उद्यम्य रंहसा।
जत्रा-अवताडयत् शक्रम् गजम् च सुमहा-बलः ॥ १४ ॥
गदा-प्रहार-व्यथितः भृशम् विह्वलितः गजः।
जानुभ्याम् धरणीम् स्पृष्ट्वा कश्मलम् परमम् ययौ ॥ १५ ॥
ततः रथः मातलिना हरिभिः दश-शतैः वृतः।
आनीतः द्विपम् उत्सृज्य रथम् आरुरुहे विभुः ॥ १६ ॥
तस्य तत् पूजयन् कर्म यन्तुः दानव-सत्तमः।
शूलेन ज्वलता तम् तु स्मयमानः अहनत् मृधे ॥ १७ ॥
सेहे रुजम् सुदुर्मर्षाम् सत्त्वम् आलम्ब्य मातलिः।
इन्द्रः जम्भस्य सङ्क्रुद्धः वज्रेण अपाहरत् शिरः ॥ १८ ॥
जम्भम् श्रुत्वा हतम् तस्य ज्ञातयः नारदात् ऋषेः।
नमुचिः च बलः पाकः तत्र आपेतुः त्वरा-अन्विताः ॥ १९ ॥
वचोभिः परुषैः इन्द्रम् अर्दयन्तः अस्य मर्मसु।
शरैः अवाकिरन् मेघाः धाराभिः इव पर्वतम् ॥ २० ॥
हरीन् दश शतानि आजौ हर्यश्वस्य बलः शरैः।
तावत्भिः अर्दयामास युगपद् लघु-हस्त-वान् ॥ २१ ॥
शताभ्याम् मातलिम् पाकः रथम् स-आवयवम् पृथक्।
सकृत्-सन्धान-मोक्षेण तत् अद्भुतम् अभूत् रणे ॥ २२ ॥
नमुचिः पञ्चदशभिः स्वर्ण-पुङ्खैः महा-इषुभिः।
आहत्य व्यनदत् सङ्ख्ये स-तोयः इव तोयदः ॥ २३ ॥
सर्वतः शर-कूटेन शक्रम् स-रथ-सारथिम्।
छादयामासुः असुराः प्रावृत्-सूर्यम् इव अम्बुदाः ॥ २४ ॥
अलक्षयन्तः तम् अतीव विह्वलाः
विचुक्रुशुः देव-गणाः सः-आनुगाः।
अनायकाः शत्रु-बलेन निर्जिताः
वणिक्-पथाः भिन्न-नवः यथा अर्णवे ॥ २५ ॥
ततः तुराषाट्-इषु-बद्ध-पञ्जरात्
विनिर्गतः स-अश्व-रथ-ध्वज-अग्रणीः।
बभौ दिशः खम् पृथिवीम् च रोचयन्
स्व-तेजसा सूर्यः इव क्षपा-त्यये ॥ २६ ॥
निरीक्ष्य पृतनाम् देवः परैः अभ्यर्दिताम् रणे।
उदयच्छत् रिपुम् हन्तुम् वज्रम् वज्र-धरः रुषा ॥ २७ ॥
सः तेन एव अष्ट-धारेण शिरसी बल-पाकयोः।
ज्ञातीनाम् पश्यताम् राजन् जहार जनयन् भयम् ॥ २८ ॥
नमुचिः तत् वधम् दृष्ट्वा शोक-अमर्ष-रुषा-अन्वितः
जिघांसुः इन्द्रम् नृपते चकार परम-उद्यमम् ॥ २९ ॥
अश्म-सार-मयम् शूलम् घण्टा-वत्त् हेम-भूषणम्।
प्रगृह्य अभ्यद्रवत् क्रुद्धः हतः असि इति वितर्जयन्।
प्राहिणोत् देव-राजाय निनदन् मृग-राट् इव ॥ ३० ॥
तत् आपतत् गगन-तले महा-जवम्
विचिच्छिदे हरिः इषुभिः सहस्रधा।
तम् आहनत् नृप कुलिशेन कन्धरे
रुषा अन्वितः त्रिदश-पतिः शिरः हरन् ॥ ३१ ॥
न तस्य हि त्वचम् अपि वज्रः ऊर्जितः
बिभेद यः सुर-पति-नौजसा इरितः।
तत् अद्भुतम् परम-अति-वीर्य-वृत्र-भित्
तिरस्कृतः नमुचिः-शिरः-धर-त्वचा ॥ ३२ ॥
तस्मात् इन्द्रः अबिभेत् शत्रोः वज्रः प्रतिहतः यतः।
किम् इदम् दैव-योगेन भूतम् लोक-विमोहनम् ॥ ३३ ॥
येन मे पूर्वम् अद्रीणाम् पक्ष-छेदः प्रजात्यये।
कृतः निविशताम् भारैः पतत्त्रैः पतताम् भुवि ॥ ३४ ॥
तपः-सार-मयम् त्वाष्ट्रम् वृत्रः येन विपाटितः।
अन्ये च अपि बल-उपेताः सर्व-आस्त्रैः अक्षत-त्वचः ॥ ३५ ॥
सः अयम् प्रतिहतः वज्रः मया मुक्तः असुरे अल्पके।
न अहम् तत् आददे दण्डम् ब्रह्म-तेजः अपि अकारणम् ॥ ३६ ॥
इति शक्रम् विषीदन्तम् आह वाक्-शरीरिणी।
न अयम् शुष्कैः अथो न अद्रैः वधम् अर्हति दानवः ॥ ३७ ॥
मया अस्मै यत् वरः दत्तः मृत्यु-ः न एव अर्द्र-शुष्कयोः।
अतः अन्यः चिन्तनीयः ते उपायः मघवन् रिपोः ॥ ३८ ॥
ताम् दैवीं गिरम् आकर्ण्य मघवान् सु-समाहितः।
ध्यायन् फेनम् अथ अपश्यत् उपायम् उभय-आत्मकम् ॥ ३९ ॥
न शुष्केण न च अर्द्रेण जहार नमुचेः शिरः।
तम् तुष्टुवुः मुनि-गणाः माल्यैः च अवाकिरन् विभुम् ॥ ४० ॥
गन्धर्व-मुख्यौ जगतु: विश्वावसु-परावसू।
देव-दुन्दुभयः नेदुः नर्तक्यः ननृतुः मुदाः ॥ ४१ ॥
अन्ये अपि एवम् प्रति-द्वन्द्वान् वायुः-अग्नि-वरुण-आदयः।
सूदयामासुः अस्त्र-ओघैः मृगान् केसरिणः यथा ॥ ४२ ॥
ब्रह्मणा प्रेषितः देवान् देव-ऋषिः नारदः नृप।
वारयामास विबुधान् दृष्ट्वा दानव-सङ्क्षयम् ॥ ४३ ॥
श्री-नारदः उवाच।
भवद्भिः अमृतम् प्राप्तम् नारायण-भुज-आश्रयैः।
श्रिया समेधिताः सर्वे उपारमत विग्रहात् ॥ ४४ ॥
श्री-शुकः उवाच।
संयम्य मन्युः-संरम्भम् मानयन्तः मुनेः वचः।
उपगीय-मान-अनुचरैः ययुः सर्वे त्रिविष्टपम् ॥ ४५ ॥
ये अवशिष्टाः रणे तस्मिन् नारद-अनुमतेन ते।
बलिम् विपन्नम् आदाय अस्तम् गिरिम् उपागमन् ॥ ४६ ॥
तत्र अविनष्ट-अवयवान् विद्यमान-शिरः-धरान्।
उशना जीवयामास संजीवन्या स्व-विद्यया ॥ ४७ ॥
बलिः च उशनसा स्पृष्टः प्रत्यापन्न-इन्द्रिय-स्मृतिः।
पराजितः अपि न अखिद्यत् लोक-तत्त्व-विचक्षणः ॥ ४८ ॥
No comments:
Post a Comment