Followers

Search Here...

Friday, 23 May 2025

ஸ்கந்தம் 10: அத்யாயம் 84 (கண்ணன் ரிஷிகளுடன் பேசுகிறார் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 கண்ணன் ரிஷிகளுடன்

பேசுகிறார்

ஸ்கந்தம் 10: அத்யாயம் 84

श्री-शुकः उवाच
श्रुत्वा पृथा सुबल-पुत्र्य् अथ याज्ञसेनी माधव्य् अथ क्षिति-पत्-न्यः उत स्व-गोप्यः।
कृष्णे अखिल-आत्मनि हरौ प्रणय-अनुबन्धं सर्वाः विसिस्म्युः अलम् अश्रु-कल-अकुल-अक्ष्यः ॥ 1

इति सम्भाषमाणासु स्त्रीभिः स्त्रीषु नृभिः नृषु।
आययुः मुनयः तत्र कृष्ण-राम-दिदृक्षया ॥ 2

द्वैपायनः नारदः च च्यवनः देवलः असितः।
विश्वामित्रः शतानन्दः भरद्वाजः अथ गौतमः ॥ 3

रामः स-शिष्यः भगवान् वसिष्ठः गालवः भृगुः।
पुलस्त्यः कश्यपः अत्रिः च मार्कण्डेयः बृहस्पतिः ॥ 4

द्वितः त्रितः च एकतः च ब्रह्म-पुत्राः तथा अङ्गिराः।
अगस्त्यः याज्ञवल्क्यः च वामदेव-आदयः अपरे ॥ 5

तान् दृष्ट्वा सहसा उत्थाय प्राक्-आसीनाः नृप-आदयः।
पाण्डवाः कृष्ण-रामौ च प्रणेमुः विश्व-वन्दितान् ॥ 6

तान् अनर्चुः यथा सर्वे स-रामः अच्युतः अर्चयत्।
स्वागत-आसन-पाद्य-अर्घ्य-माल्य-धूप-अनुलेपनैः ॥ 7

उवाच सुखम् आसीनान् भगवान् धर्म-गुप्त-तनुः।
सदसः तस्य महतः यत-वाचः अनुश्रृण्वतः ॥ 8

श्री-भगवान् उवाच
अहो वयम् जन्म-भृतः लब्धं कार्त्स्न्येन तत्-फलम्।
देव-आनाम् अपि दुष्प्रापं यत् योगेश्वर-दर्शनम् ॥ 9

किम् स्वल्प-तपसाम् नृणाम् अर्चायाम् देव-चक्षुषाम्।
दर्शन-स्पर्शन-प्रश्न-प्रह्व-पाद-अर्चन-आदिकम् ॥ 10

न हि अम्-मयानि तीर्थानि न देवाः मृद्-शिलामयाः।
ते पुनन्ति उरु-कालेन दर्शनात् एव साधवः ॥ 11

न अग्निः न सूर्यः न च चन्द्र-तारकाः
न भूः जलं खं श्वसनः अथ वाक्-मनः।
उपासिताः भेद-कृतः हरन्ति अघं
विपश्चितः घ्नन्ति मुहूर्त-सेवया ॥ 12

यस्य आत्म-बुद्धिः कुणपे त्रि-धातुके
स्व-धीः कलत्र-आदिषु भौम इज्य-धीः।
यत् तीर्थ-बुद्धिः सलिले न कर्हिचित्
जनेषु अभिज्ञेषु सः एव गो-खरः ॥ 13

श्री-शुकः उवाच
निशम्य एत्थं भगवतः कृष्णस्य अकुण्ठ-मेधसः।
वचः दुरन्वयं विप्राः तूष्णीम् आसन् भ्रमत्-धियः ॥ 14

चिरं विमृश्य मुनयः ईश्वरस्य ईशितव्यताम्।
जन-सङ्ग्रहः इति ऊचुः स्मयन्तः तम् जगत्-गुरुम् ॥ 15

श्री-मुनयः ऊचुः
यत् मायया तत्त्व-विद् उत्तमाः वयम्
विमोहिताः विश्व-सृजाम् अधीश्वराः।
यत् ईशितव्यायति गूढ ईहया
अहो विचित्रं भगवत्-वि-चेष्टितम् ॥ 16

अनीहः एतत् बहुधा एक आत्मना
सृजति अवति अत्ति न बध्यते यथा।
भौमैः हि भूमिः बहु-नाम-रूपिणी
अहो विभूम्नः चरितं विडम्बनम् ॥ 17

अथ अपि काले स्व-जन-अभि-गुप्तये
बिभर्षि सत्त्वं खल-निग्रहाय च।
स्व-लीलया वेद-पथं सनातनं
वर्ण-आश्रम-आत्मा पुरुषः परः भवान् ॥ 18

ब्रह्म ते हृदयम् शुक्लं तपः-स्वाध्याय-संयमैः।
यत्र उपलब्धं सत् व्यक्तम् अव्यक्तं च ततः परम् ॥ 19

तस्मात् ब्रह्म-कुलं ब्रह्मन् शास्त्र-योनेः त्वम् आत्मनः।
स-भाजयसि सत्-धाम तत् ब्रह्मणि अग्रणीः भवान् ॥ 20

अद्य नः जन्म-साफल्यं विद्या-याः तपसः दृशः।
त्वया सङ्गम्य सत्-गत्या यत् अन्तः श्रेयसाम् परः॥ 21

नमः तस्मै भगवते कृष्णाय अकुण्ठ-मेधसे।
स्व-योग-मायया आच्छन्न-महिम्ने परम-आत्मने॥ 22

न यम् विदन्ति अमी भूपाः एक-आरामाः च वृष्णयः।
माया-जवनि-का-आच्छन्नम् आत्मानम् कालम् ईश्वरम्॥ 23

यथा शयानः पुरुषः आत्मानम् गुण-तत्त्व-दृक्।
नाम-मात्र-इन्द्रिय-आभातं न वेद रहितं परम्॥ 24

एवम् त्वा नाम-मात्रेषु विषयेषु इन्द्रिय-ईहया।
मायया विभ्रमत्-चित्तः न वेद स्मृति-उपप्लवात्॥ 25

तस्य अद्य ते ददृशिम् अङ्‌घ्रिम् अघ-ओघ-मर्ष-
तीर्थ-आस्पदं हृदि कृतं सुविपक्व-योगैः।
उत्सिक्त-भक्ति-उपहत-आशय जीव-कोशाः
आपुः भवत्-गतिम् अथ अनुगृहाण भक्तान्॥ 26

श्री-शुकः उवाच – इति अनुज्ञाप्य दाशार्हं धृतराष्ट्रं युधिष्ठिरम्।
राजर्षेः स्व-आश्रमान् गन्तुं मुनयः दधिरे मनः॥ 27

तत् वीक्ष्य तान् उपव्रज्य वसुदेवः महा-यशाः।
प्रणम्य च उपसङ्गृह्य बभाषे इदं सुयन्त्रितः॥ 28

श्री-वसुदेवः उवाच – नमः वः सर्व-देवेभ्यः ऋषयः श्रोतुम् अर्हथ।
कर्मणा कर्म-निर्हारः यथा स्यात् नः तत् उच्यताम्॥ 29

श्री-नारदः उवाच – न अति-चित्रम् इदं विप्राः वसुदेवः बुभुत्सया।
कृष्णं मत्वा अर्भकं यत् नः पृच्छति श्रेयः आत्मनः॥ 30

सन्निकर्षः हि मर्त्यानाम् अनादरण-कारणम्।
गाङ्गं हित्वा यथा अन्य-अम्भः तत्रत्यः याति शुद्धये॥ 31

यस्य अनुभूतिः कालेन लय-उत्पत्ति-आदिनाः अस्य वै।
स्वतः अन्यस्मात् च गुणतः न कुतश्चन रिष्यति॥ 32

तम् क्लेश-कर्म-परिपाक-गुण-प्रवाहैः
अव्याहत-अनुभवम् ईश्वरम् अद्वितीयम्।
प्राण-आदिभिः स्व-विभवैः उपगूढम् अन्यः
मन्येत सूर्यं इव मेघ-हिम-उपरागैः॥ 33

अथ ऊचुः मुनयः राजन् आभाष्य अनक-दुंदुभिम्।
सर्वेषाम् श्रृणताम् राज्ञाम् तथा एव अच्युत-रामयोः॥ 34

कर्मणा कर्म-निर्हारः एषः साधुः निरूपितः।
यत् श्रद्धया यजेत् विष्णुम् सर्व-यज्ञ-ईश्वरं मखैः॥ 35

चित्तस्य उपशमः अयम् वै कविभिः शास्त्र-चक्षुषा।
दर्शितः सुगमः योगः धर्मः च आत्म-मुदा-अवहः॥ 36

अयम् स्वस्ति-अयनः पन्था द्विजातेर् गृह-मेधिनः।
यत् श्रद्धया आप्त-वित्तेन शुक्लेन इज्येत पुरुषः॥ 37

वित्त-इषणाम् यज्ञ-दानैः गृहैः दार-सुत-इषणाम्।
आत्म-लोक-इषणाम् देव कालेन विसृजेत् बुधः।
ग्रामे त्यक्त-इषणाः सर्वे ययुः धीराः तपो-वनम्॥ 38

ऋणैः त्रिभिः द्विजः जातः देव-ऋषि-पितॄणाम् प्रभो।
यज्ञ-अध्ययन-पुत्रैः तान् अनिस्तीर्य त्यजन् पतेत्॥ 39

त्वं तु अद्य मुक्तः द्वाभ्याम् वै ऋषि-पित्रोः महा-मते।
यज्ञैः देव-अर्णम् उन्मुच्य निरृणः अशरणः भव॥ 40

वसुदेवः भवान् नूनम् भक्त्या परमया हरिम्।
जगताम् ईश्वरं प्रार्चः स यत् वाम् पुत्रतां गतः॥ 41

श्री-शुकः उवाच – इति तत् वचनं श्रुत्वा वसुदेवः महा-मनाः।
तान् ऋषीन् ऋत्विजः वव्रे मूर्ध्ना आनम्य प्रसाद्य च॥ 42

ते एनम् ऋषयः राजन् वृता धर्मेण धार्मिकम्।
तस्मिन् अयाजयन् क्षेत्रे मखैः उत्तम-कल्पकैः॥ 43

तत् दीक्षायां प्रवृत्तायां वृष्णयः पुष्कर-स्रजः।
स्नाताः सुवाससः राजन् राजानः सुष्ठु-अलङ्कृताः॥ 44

तत् महिष्यः च मुदिताः निष्क-कण्ठ्यः सुवाससः।
दीक्षा-शालाम् उपाजग्मुः आलिप्ताः वस्तु-पाणयः॥ 45

नेदुः मृदङ्ग-पटह-शङ्ख-भेरि-आनक-आदयः।
ननृतुः नट-नर्तक्यः तुष्टुवुः सूत-मागधाः।
जगुः सु-कण्ठ्यः गन्धर्व्यः संगीतं सह-भर्तृकाः॥ 46

तम् अभ्यषिञ्चन् विधि-वतः अक्तम् अभ्यक्तम् ऋत्विजः।
पत्नीभिः अष्टादशभिः सोम-राजम् इव उडुभिः॥ 47

ताभिः दुकूल-वलयैः हार-नूपुर-कुण्डलैः।
स्व-अलङ्कृताभिः विबभौ दीक्षितः अजिन-संवृतः॥ 48

तस्य ऋत्विजः महाराज रत्न-कौशेय-वाससः।
स-सदस्या विरेजुः ते यथा वृत्र-हणः अध्वरे॥ 49

तदा रामः च कृष्णः च स्वैः स्वैः बन्धुभिः अन्वितौ।
रेजतुः स्व-सुतैः दारैः जीव-ईशौ स्व-विभूतिभिः॥ 50

ईजे अनु-यज्ञं विधिना अग्नि-होत्र-आदि-लक्षणैः।
प्राकृतैः वैकृतैः यज्ञैः द्रव्य-ज्ञान-क्रिय-ईश्वरम्॥ 51

अथ ऋत्विज्भ्यः अददात् काले यथा आम्नातं स दक्षिणाः।
स्व-अलङ्कृतेभ्यः अलङ्कृत्य गो-भू-कन्या महा-धनाः॥ 52

पत्नी-संयाज-अवभृथ्यैः चरित्वा ते महा-ऋषयः।
सस्नुः राम-ह्रदे विप्राः यजमान-पुरःसराः॥ 53

स्नातः अलङ्कार-वासांसि वन्दिभ्यः अदात् तथा स्त्रियः।
ततः स्व-अलङ्कृतः वर्णान् अश्वभ्यः अन्नेन पूजयत्॥ 54

बन्धून् स-दारान् स-सुतान् पारि-बर्‍हेण भूयसा।
विदर्भ-कोशल-कुरून् काशि-केकय-सृञ्जयान्॥ 55

सदस्य-ऋत्विज्-सुर-गणान् नृ-भूत-पितृ-चारणान्।
श्री-निकेतं अनुज्ञाप्य शंसन्तः प्रययुः क्रतुम्॥ 56

धृतराष्ट्रः अनुजः पार्थाः भीष्मः द्रोणः पृथा यमौ।
नारदः भगवान् व्यासः सुहृत्-संबन्धि-बान्धवाः॥ 57

बन्धून् परिष्वज्य यदून् सौहृदात् क्लिन्न-चेतसः।
ययुः विरह-कृच्छ्रेण स्व-देशान् च अपरे जनाः॥ 58

नन्दः तु सह गोपालैः बृहत्या पूजया अर्चितः।
कृष्ण-राम-उग्रसेन-आद्यैः न्यवात्सीत् बन्धु-वत्सलः॥ 59

वसुदेवः अञ्जसा उत्तीर्य मनोरथ-महा-अर्णवम्।
सुहृत्-वृतः प्रीत-मनाः नन्दम् आह करे स्पृशन्॥ 60

श्री-वसुदेवः उवाच –

भ्रातरि ईश-कृतः पाशः नृणाम् यः स्नेह-संज्ञितः।
तम् दुस्त्यजम् अहम् मन्ये शूराणाम् अपि योगिनाम्॥ 61

अस्मासु अप्रतिकल्पा इयम् यत् कृत-अज्ञेषु सत्तमैः।
मैत्र्या अर्पित-फलाः वापि न निवर्तेत कर्हि चित्॥ 62

प्राक्-कल्पात् च कुशलं भ्रातर् वः न अचराम हि।
अधुना श्री-मत्-अन्ध-आक्षाः न पश्यामः पुरः सतः॥ 63

मा राज्य-श्रीः अभूत् पुंसः श्रेयस्-कामस्य मानद।
स्व-जनान् उत बान्धून् वा न पश्यति या अन्ध-दृक्॥ 64

श्री-शुकः उवाच –

एवम् सौहृद-शैथिल्य-चित्तः आनक-दुन्दुभिः।
रुरोद तत्-कृतां मैत्रीं स्मरन् अश्रु-विलोचनः॥ 65

नन्दः तु सख्युः प्रिय-कृत् प्रेम्णा गोविन्द-रामयोः।
अद्य श्वः इति मासान् त्रीन् यदुभिः मानितः अवसत्॥ 66

ततः कामैः पूर्यमाणः स-व्रजः सह-बान्धवः।
परार्ध्य-आभरण-क्षौम-नान-अनर्घ्य-परिच्छदैः॥ 67

वसुदेव-उग्रसेनाभ्याम् कृष्ण-उद्धव-बल-आदिभिः।
दत्तम् आदाय पारि-बर्‍हं यापितः यदुभिः ययौ॥ 68

नन्दः गोपाः च गोप्यः च गोविन्द-चरण-अम्बुजे।
मनः क्षिप्तम् पुनः हर्तुम् अनीशाः मथुरां ययुः॥ 69

बन्धुषु प्रतियातेषु वृष्णयः कृष्ण-देवताः।
वीक्ष्य प्रावृषम् आसन्नां ययुः द्वारवतीं पुनः॥ 70

जनेभ्यः कथयाञ्चक्रुः यदु-देव-महोत्सवम्।
यत् आसीत् तीर्थ-यात्रायाम् सुहृत्-सन्दर्शन-आदिकम्॥ 71

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् दशम-स्कन्धे उत्तरार्धे तीर्थ-यात्रा-अनुवर्णनं नाम चतुर-अशीतितमः अध्यायः॥ 84॥

No comments:

Post a Comment