கிருஷ்ணன் சால்வனை
வதம் செய்கிறார்
ஸ்கந்தம் 10: அத்யாயம் 77
श्री-शुकः उवाच —
स तु उपस्पृश्य सलिलम् दंशितः धृत-कार्मुकः।
नय माम् द्युमतः पार्श्वम् वीरस्य इति आह सारथिम्॥1॥
विधमन्तम् स्व-सैन्यानि द्युमन्तम् रुक्मिणी-सुतः।
प्रतिहत्य प्रत्यविध्यत नाराचैः अष्टभिः स्मयन्॥2॥
चतुर्भिः च चतुरः वाहान् सूतम् एकेन च आहनत्।
द्वौ आभ्याम् धनुः च केतुम् च शरेण अन्येन वै शिरः॥3॥
गद-सात्यकि-साम्ब-आद्याः जघ्नुः सौभ-पतेः बलम्।
पेतुः समुद्रे सौभेयाः सर्वे संछिन्न-कन्धराः॥4॥
एवम् यदूनाम् शाल्वानाम् निघ्नताम् इतरेतरम्।
युद्धम् त्रिण-वरात्रम् तत् अभूत् तुमुलम् उल्बणम्॥5॥
इन्द्र-प्रस्थम् गतः कृष्णः आहूतः धर्म-सूनुना।
राजसूये अथ निवृत्ते शिशुपाले च संस्थिते॥6॥
कुरु-वृद्धान् अनुज्ञाप्य मुनीन् च स-सुताम् पृथाम्।
निमित्तानि अति-घोराणि पश्यन् द्वारवतीम् ययौ॥7॥
आह च अहम् इह आयातः आर्य-मिश्र-अभिसङ्गतः।
राजन्याः चैद्य-पक्षीयाः नूनम् हन्युः पुरीम् मम॥8॥
वीक्ष्य तत् कदनम् स्वानाम् निरूप्य पुर-रक्षणम्।
सौभम् च शाल्व-राजम् च दारुकम् प्राह केशवः॥9॥
रथम् प्रापय मे सूतः शाल्वस्य अन्तिकम् आशु वै।
सम्भ्रमः ते न कर्तव्यः मायावी सौभ-राट् अयम्॥10॥
इति उक्तः च ओदयामास रथम् आस्थाय दारुकः।
विशन्तम् ददृशुः सर्वे स्वे परे च अरुण-अनुजम्॥11॥
शाल्वः च कृष्णम् आलोक्य हत-प्राय-बल-ईश्वरः।
प्राहरत् कृष्ण-सूताय शक्तिम् भीम-रवाम् मृधे॥12॥
ताम् आपतन्तीम् नभसि महा-उल्काम् इव रंहसा।
भासयन्तीम् दिशः शौरिः सायकैः शतधा अछिनत्॥13॥
तम् च षोडशभिः विद्ध्वा बाणैः सौभम् च खे भ्रमत्।
अविध्यत् शर-सन्दोहैः खम् सूर्यः इव रश्मिभिः॥14॥
शाल्वः शौरेः तु दः सव्यं शार्ङ्गम् शार्ङ्ग-धन्वनः।
बिभेद न्यपतत् हस्तात् शार्ङ्गम् आसीत् तत् अद्भुतम्॥15॥
हाहाकारः महान् आसीत् भूतानाम् तत्र पश्यताम्।
विनद्य सौभ-राट् उच्छैः इदम् आह जनार्दनम्॥16॥
यत् त्वया मूढ नः सख्युः भ्रातुः भार्या हृता-इक्षताम्।
प्रमत्तः स सभा-मध्ये त्वया व्यापादितः सखा॥17॥
तम् त्वा अद्य निशितैः बाणैः अपराजित-मानिनम्।
नयामि अपुनरावृत्तिम् यदि तिष्ठेत् मम अग्रतः॥18॥
श्री-भगवान् उवाच — वृथा त्वम् कत्थसे मन्द न पश्यसि अन्तिके अन्तकम्।
पौरुषम् दर्शयन्ति स्म शूराः न बहु-भाषिणः॥19॥
इति उक्त्वा भगवान् शाल्वम् गदया भीम-वेगया।
तताड जत्रौ संरब्धः स चकम्पे वमन् असृक्॥20॥
श्री शुक उवाच
गदायाम् सन्निवृत्तायाम् शाल्व: तु अन्तर्धीयत ।
तत: मुहूर्तम् आगत्य पुरुष: शिरसा अच्युतम् ।
देवक्या प्रहित: अस्मि इति नत्वा प्राह वच: रुदन् ॥ 21
कृष्ण कृष्ण महा-बाहो पिता ते पितृवत्सल ।
बद्ध्वा आपनीतः शाल्वेन सौनिकेन यथा पशु: ॥ 22
निशम्य विप्रियम् कृष्ण: मानुषीं प्रकृतिम् गत: ।
विमनस्क: घृणी स्नेहात् बभाषे प्राकृत: यथा ॥ 23
कथम् रामम् असम्भ्रान्तम् जित्वा अजेयम् सुर-असुरै: ।
शाल्वेन अल्पीयसा नीत: पिता मे बलवान् विधि: ॥ 24
इति ब्रुवाणे गोविन्दे सौभराट् प्रत्युपस्थित: ।
वसुदेवम् इव आनीय कृष्णम् च इदम् उवाच स: ॥ 25
एष: ते जनिता तात यदर्थम् इह जीवसि ।
वधिष्ये वीक्षतः ते अमुम् ईश: चेत् पाहि बालिश ॥ 26
एवम् निर्भर्त्स्य मायावी खड्गेन अनक-दुन्दुभे: ।
उत्कृत्य शिर: आदाय खस्थम् सौभम् समाविशत् ॥ 27
तत: मुहूर्तम् प्रकृतौ उपप्लुत:
स्व-बोधे आस्ते स्व-जन अनुशङ्गतः ।
महा-अनुभाव: तत् अबुध्यत आसुरीम्
मायाम् स शाल्व-प्रसृताम् मया उदिताम् ॥ 28
न तत्र दूतम् न पितु: कलेवरम्
प्रबुद्ध: आजौ समपश्यत् अच्युत: ।
स्वाप्नम् यथा च अम्बर-चारिणम् रिपुम्
सौभ-स्थम् आलोक्य निहन्तुम् उद्यतः ॥ 29
एवम् वदन्ति राजर्षे ऋषय: के च न अन्विताः ।
यत् स्व-वाच: विरुध्येत नूनम् ते न स्मरन्ति उत ॥ 30
क्व शोक-मोहौ स्नेह: वा भयम् वा ये अज्ञ-सम्भवाः ।
क्व च अखण्डित-विज्ञान-ज्ञान-ऐश्वर्य: तु अखण्डित: ॥ 31
यत्-पाद-सेवा-उर्जितया आत्म-विद्यया
हिन्वन्ति अनादि-आत्म-विपर्यय-ग्रहम् ।
लभन्ते आत्मीयम् अनन्तम् ऐश्वरम्
कुत: नु मोह: परमस्य सत्-गते: ॥ 32
तम् शस्त्र-पूगै: प्रहरन्तम् ओजसा
शाल्वम् शरै: शौरि: अमोघ-विक्रम: ।
विद्ध्वा अछिनत् वर्म धनुः शिरोमणिम्
सौभम् च शत्रो: गदया रुरोज ह ॥ 33
तत् कृष्ण-हस्त-इरितया विचूर्णितम्
पपात तोये गदया सहस्रधा ।
विसृज्य तत् भूतलम् आस्थित: गदाम्
उद्यम्य शाल्व: अच्युतम् अभ्यगात् द्रुतम् ॥ 34
आधावत: स-गदम् तस्य बाहुम्
भल्लेन छित्त्वा अथ रथ-अङ्गम् अद्भुतम् ।
वधाय शाल्वस्य लय-अर्क-सन्निभम्
बिभ्रत् बभौ सा अर्क: इव उदय-अचल: ॥ 35
जहार तेन एव शिर: स-कुण्डलम्
किरीट-युक्तम् पुरु-मायिन: हरि: ।
वज्रेण वृत्रस्य यथा पुरन्दर:
बभूव हा-हे इति वच: तदा नृणाम् ॥ 36
तस्मिन् निपतिते पापे सौभे च गदया हते ।
नेदु: दुन्दुभयो राजन् दिवि देव-गण-इरिताः ।
सखीनाम् अपचितिम् कुर्वन् दन्तवक्र: रुषा अभ्यगात् ॥ 37
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायाम् दशम-स्कन्धे उत्तरार्धे
सौभ-वध: नाम सप्त-सप्ततितम: अध्याय: ॥ 77 ॥
No comments:
Post a Comment