Followers

Search Here...

Friday, 23 May 2025

ஸ்கந்தம் 10: அத்யாயம் 85 (கண்ணன் கொல்லப்பட்ட 6 குழந்தைகளை தேவகிக்கு மீட்டு கொடுக்கிறார் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 கண்ணன் கொல்லப்பட்ட 6 குழந்தைகளை தேவகிக்கு மீட்டு கொடுக்கிறார்

ஸ்கந்தம் 10: அத்யாயம் 85

श्री बादरायणिः उवाच
अथ एका दा आत्मजौ प्राप्तौ कृत पाद अभिवन्दनौ।
वसुदेवः अभिनन्द्य आह प्रीत्या सङ्कर्षण अच्युतौ ॥ 1॥

मुनीनाम् स वचः श्रुत्वा पुत्रयोः धाम सूचकम्।
तत् वीर्यैः जात विश्रम्भः परिभाष्य अभ्यभाषत ॥ 2॥

कृष्ण कृष्ण महा योगिन् सङ्कर्षण सनातन।
जाने वाम अस्य यत् साक्षात् प्रधान पुरुषौ परौ ॥ 3॥

यत्र येन यतः यस्य यस्मै यत् यत् यथा यदा।
स्यात् इदम् भगवान् साक्षात् प्रधान पुरुष ईश्वरः ॥ 4॥

एतत् नानाविधम् विश्वम् आत्म सृष्टम् अधोक्षज।
आत्मना अनुप्रविश्य आत्मन् प्राणः जीवः बिभर्षि अज ॥ 5॥

प्राण आदीनाम् विश्व सृजाम् शक्तयः याः परस्य ताः।
पारतन्त्र्यात् वै सादृश्यात् द्वयोः च इष्टा एव चेष्टताम् ॥ 6॥

कान्तिः तेजः प्रभा सत्ता चन्द्र अग्नि अर्क ऋक्ष विद्युताम्।
यत् स्थैर्यम् भूभृताम् भूमेः वृत्तिः गन्धः अर्थतः भवान् ॥ 7॥

तर्पणम् प्राणनम् अपाम् देवत्वम् ताः च तत् रसः।
ओजः सहः बलम् चेष्टा गतिः वायोः तव ईश्वर ॥ 8॥

दिशाम् त्वम् अवकाशः असि दिशः खम् स्फोटः आश्रयः।
नादः वर्णः त्वम् ओंकारः आकृतीनाम् पृथक् कृतिः ॥ 9॥

इन्द्रियम् त्वम् इन्द्रियाणाम् त्वम् देवाः च तत् अनुग्रहः।
अवबोधः भवान् बुद्धेः जीवस्य अनुस्मृतिः सती ॥ 10॥

भूतानाम् असि भूत आदिः इन्द्रियाणाम् च तैजसः।
वैकारिकः विकल्पानाम् प्रधानम् अनुशायिनाम् ॥ 11॥

नश्वरेषु इह भावेषु तत् असि त्वम् अनश्वरम्।
यथा द्रव्य विकारेषु द्रव्य मात्रम् निरूपितम् ॥ 12॥

सत्त्वम् रजः तमः इति गुणाः तत् वृत्तयः च याः।
त्वयि अद्धा ब्रह्मणि परे कल्पिताः योगमायया ॥ 13॥

तस्मात् न सन्ति अमी भावाः यर्हि त्वयि विकल्पिताः।
त्वम् च अमीषु विकारेषु हि अन्यद् अव्यावहारिकः ॥ 14॥

गुण प्रवाहः एतस्मिन् अबुधाः त्वम् अखिल आत्मनः।
गतिम् सूक्ष्माम् अबोधेन संसरन्ति इह कर्मभिः ॥ 15॥

यदृच्छया नृणाम् प्राप्य सुकल्पाम् इह दुर्लभाम्।
स्वार्थे प्रमत्तस्य वयः गतम् त्वन्मायया ईश्वर ॥ 16॥

असौ अहम् मम एव एते देहे च अस्य अन्वय आदिषु।
स्नेह पाशैः निबध्नाति भवान् सर्वम् इदम् जगत् ॥ 17॥

युवाम् न नः सुतौ साक्षात् प्रधान पुरुष ईश्वरौ।
भूभार क्षत्र क्षपण अवतीर्णौ तथा आथ ह ॥ 18॥

तत् ते गतः अस्मि शरणम् अद्य पद अरविन्दम्
आपन्न संसृति भय अपहम् आर्त बन्धो।
एतावत् आलम् अलम् इन्द्रिय लालसेन
मर्त्य आत्म दृक् त्वयि परे यत् अपत्य बुद्धिः ॥ 19॥

सूति गृहे ननु जगात् भवान् अजः नौ
सञ्जज्ञ इति अनुयुगम् निज धर्म गुप्त्यै।
नाना तनूः गगनवत् विदधत् जहासि
कः वेद भूम्न उरुगाय विभूति मायाम् ॥ 20॥

श्री शुक उवाच

आकर्ण्य इत्थं पितुः वाक्यं भगवान् सात्वत-ऋषभः।
प्रत्याह प्रश्रय-अनम्रः प्रहसन् श्लक्ष्णया गिरा ॥ 21

श्री भगवान् उवाच
वचः वः समवेत-अर्थं तात एतत् उपमन्महे।
यत् नः पुत्रान् समुद्दिश्य तत्त्व-ग्रामः उदाहृतः ॥ 22

अहं यूयम् असौ आर्यः इमे च द्वारका-उकसः।
सर्वे अपि एवम् यदु-श्रेष्ठ विमृग्याः स-चर-अचरम् ॥ 23

आत्मा हि एकः स्वयम्-ज्योतिः नित्यः अन्यः निर्गुणः गुणैः।
आत्म-सृष्टैः तत् कृतेषु भूतेषु बहुधा इयते ॥ 24

खं वायुः ज्योतिः आपः भूः तत् कृतेषु यथा आशयम्।
आविः तिरः अल्प-भू-उर्य एकः नानात्वं याति असौ अपि ॥ 25

श्री शुक उवाच
एवम् भगवता राजन् वसुदेवः उदाहृतम्।
श्रुत्वा विनष्ट-नानाधीः तूष्णीं प्रीत-मना अभूत् ॥ 26

अथ तत्र कुरु-श्रेष्ठ देवकी सर्व-देवताः।
श्रुत्वा आनीतं गुरोः पुत्रम् आत्मजाभ्याम् सुविस्मिता ॥ 27

कृष्ण-रामौ समाश्राव्य पुत्रान् कंस-विहिंसितान्।
स्मरन्ती कृपणं प्राह वैक्लव्यात् अश्रु-लोचना ॥ 28

श्री देवकी उवाच
राम राम अप्रमेय-आत्मन् कृष्ण योगेश्वर-ईश्वर।
वेद-अहम् वाम् विश्व-सृजौ ईश्वरौ आदि-पुरुषौ ॥ 29

काल-विध्वस्त-सत्त्वानाम् राज्ञाम् उच्छास्त्र-वर्तिनाम्।
भूमेः भार-आयमाणानाम् अवतीर्णौ किल अद्य मे ॥ 30

यस्य अंश-अंश-अंश-भागेन विश्व-उत्पत्ति-लय-उदयाः।
भवन्ति किल विश्व-आत्मन् तम् त्वा अद्य अहं गतिं गता ॥ 31

चिरात् मृत-सुत-आदानं गुरुणा किल चोदितौ।
आनिन्यथुः पितृ-स्थानात् गुरवे गुरु-दक्षिणाम् ॥ 32

तथा मे कुरुतं कामं युवाम् योगेश्वर-ईश्वरौ।
भोज-राज-हतान् पुत्रान् कामये द्रष्टुम् आहृतान् ॥ 33

ऋषिः उवाच
एवम् सञ्चोदितौ मात्रा रामः कृष्णः च भारत।
सुतलम् संविविशतुः योग-मायाम् उपाश्रितौ ॥ 34

तस्मिन् प्रविष्टौ उपलभ्य दैत्य-राट्
विश्व-आत्म-दैवं सुतरां तथा आत्मनः।
तत्-दर्शन-आह्लाद-परिप्लुत-आशयः
सद्यः समुत्थाय ननाम स-अन्वयः ॥ 35

तयोः समानीय वर-आसनं मुदा
निविष्टयोः तत्र महा-आत्मनोः तयोः।
दधार पादौ अवनिज्य तत् जलं
स-वृन्दः आ-ब्रह्म पुनत् यत् अम्बु ह ॥ 36

समर्हयामास सः तौ विभूतिभिः
महा-अर्ह-वस्त्र-आभरण-अनुलेपनैः।
ताम्बूल-दीप-अमृत-भक्षण-आदिभिः
स्व-गोत्र-वित्त-आत्म-समर्पणेन च ॥ 37

सः इन्द्रसेनः भगवत्-पद-अम्बुजम्
बिभ्रन् मुहुः प्रेम-विभिन्नया धिया।
उवाच ह आनन्द-जल-आकुल-ईक्षणः
प्रहृष्ट-रोमा नृप गद्गद-अक्षरम् ॥ 38

बलिः उवाच
नमः अनन्ताय बृहते नमः कृष्णाय वेधसे।
साङ्ख्य-योग-वितानाय ब्रह्मणे परम-आत्मने ॥ 39

दर्शनं वाम् हि भूतानाम् दुष्प्रापं च अपि अदुर्लभम्।
रजः-तमः स्वभावानाम् यत् नः प्राप्तौ यदृच्छया ॥ 40

दैत्य-दानव-गन्धर्वाः सिद्ध-विद्याधर-चारणाः।
यक्ष-रक्षः-पिशाचाः च भूत-प्रमथ-नायकाः ॥ 41

विशुद्ध-सत्त्व-धाम्नि अद्धा त्वयि शास्त्र-शरीरिणि।
नित्यं निबद्ध-वैराः ते वयम् च अन्ये च तादृशाः ॥ 42

केचन उद्बद्ध-वैरेंण भक्त्या केचन कामतः।
न तथा सत्त्व-संरब्धाः सन्निकृष्टाः सुर-आदयः ॥ 43

इदं इत्थं इति प्रायः तव योगेश्वर-ईश्वर।
न विदन्ति अपि योगेशाः योग-मायां कुतः वयम् ॥ 44

तत् नः प्रसीद निरपेक्ष-विमृग्य-युष्मत्-
पाद-अरविन्द-धिषणात् अघ-गृह-अन्ध-कूपात्।
निष्क्रम्य विश्व-शरण-अङ्घ्रि-उपलब्ध-वृत्तिः
शान्तः यथा एकः उत सर्व-सखैः चरामि ॥ 45

शाधि अस्मान् ईशितव्य-ईश निष्पापान् कुरु नः प्रभो।
पुमान् यः श्रद्धया आतिष्ठन् चोदनायाः विमुच्यते ॥ 46

श्री भगवान् उवाच
आसन् मरीचेः षट् पुत्राः ऊर्णायां प्रथमे अन्तर।
देवाः कम् जहसुः वीक्ष्य सुतं यज् भितुम् उद्यतम् ॥ 47

तेन आसुरीम् अगन् योनिम् अधुना अवद्य-कर्मणा।
हिरण्यकशिपोः जाताः नीताः ते योग-मायया ॥ 48

देव्याः उदरे जाताः राजन् कंस-विहिंसिताः।
सा तान् शोचति आत्मजान् स्वान् ते इमे अध्यास्ते अन्तिके ॥ 49

इतः एतान् प्रणेष्यामः मातृ-शोक-अपनुत्तये।
ततः शापात् विनिर्मुक्ताः लोकं यास्यन्ति विज्वराः ॥ 50

स्मर-उद्गीथः परिष्वङ्गः पतङ्गः क्षुद्रभृत् घृणी।
षट् इमे मत्-प्रसादेन पुनः यास्यन्ति सत्-गतिम् ॥ 51

इति उक्त्वा तान् समादाय इन्द्रसेन-एन पूजितौ।
पुनः द्वारवतीम् एत्य मातुः पुत्रान् अयच्छताम् ॥ 52

तान् दृष्ट्वा बालकान् देवी पुत्र-स्नेह-स्नुत-स्तनी।
परिष्वज्य अङ्कम् आरोप्य मूर्ध्नि अजिघ्रत् अभीक्ष्णशः ॥ 53

अपाययत् स्तनं प्रीता सुत-स्पर्श-परिप्लुता।
मोहिता मायया विष्णोः यया सृष्टिः प्रवर्तते ॥ 54

पीत्वा अमृतं पयः तस्याः पीत-शेषं गदा-भृतः।
नारायण-अङ्ग-संस्पर्श-प्रतिलब्ध-आत्म-दर्शनाः ॥ 55

ते नमस्कृत्य गोविन्दं देवकीं पितरं बलम्।
मिषतां सर्व-भूतानां ययुः धाम दिव-उकसाम् ॥ 56

तम् दृष्ट्वा देवकी देवी मृत-आगमन-निर्गमम्।
मेने सुविस्मिता मायां कृष्णस्य रचितां नृप ॥ 57

एवं-विधानि अद्भुतानि कृष्णस्य परम-आत्मनः।
वीर्याणि अनन्त-वीर्यस्य सन्ति अनन्तानि भारत ॥ 58

श्री सूतः उवाच
यः इदम् अनुशृणोति श्रावयेत् वा मुरारेः
चरितम् अमृत-कीर्तेः वर्णितं व्यास-पुत्रैः।
जगत्-अघ-भिदलम् तत् भक्त-सत्-कर्ण-पूरम्
भगवति कृत-चित्तः याति तत् क्षेम-धाम ॥ 59

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
दशम-स्कन्धे उत्तरार्धे मृत-अग्रज-आयनं नाम
पञ्चाशीतितमः अध्यायः॥ 85 ॥

No comments:

Post a Comment