Followers

Search Here...

Friday, 23 May 2025

ஸ்கந்தம் 10: அத்யாயம் 83 (கிருஷ்ண பத்னிகள் திரௌபதியிடம் பேசுகிறார்கள் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

கிருஷ்ண பத்னிகள் திரௌபதியிடம் பேசுகிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 83

श्री शुक उवाच
तथा अनुगृह्य भगवान् गोपीनां स गुरु: गतिः ।
युधिष्ठिरम् अथ अपृच्छत् सर्वान् च सुहृदः अव्ययम् ॥ 1

ते एवम् लोकनाथेन परिपृष्टाः सुसत्कृताः।
प्रत्यूचुः हृष्ट-मनसः तत्-पाद-ईक्षा-हत-अंहसः ॥ 2

कुतः अशिवम् तव चरण-अम्बुज-आसवम्
महत् मनसः तु मुख-निःसृतम् क्वचित् ।
पिबन्ति ये कर्ण-पुटैः अलम् प्रभो
देहम्-भृताम् देह-कृत् अस्मृति-च्छिदम् ॥ 3

हित्वा आत्म-धाम विधुत आत्म-कृत त्रि-अवस्थ-
आनन्द-सम्प्लवम् अखण्डम् अकुण्ठ-बोधम् ।
काल-उपसृष्ट-निगम-अवन आत्त-योग-
माया-कृतिं परम-हंस-गतिं नताः स्म ॥ 4

श्री ऋषिः उवाच
इति उत्तम-श्लोक-शिखा-मणिं जनेषु
अभिष्टुवत्सु अन्धक-कौरव-स्त्रियः ।
समेत्य गोविन्द-कथा मिथः अगृणन्
त्रि-लोक-गीताः शृणु वर्णयामि ते ॥ 5

श्री द्रौपदी उवाच
हे वैदर्भि अच्युतः भद्रे हे जाम्बवति कौशले ।
हे सत्यभामे कालिन्दि शैब्ये रोहिणि लक्ष्मणे ॥ 6

हे कृष्ण-पत्न्यः एतत् नः ब्रूत वः भगवान् स्वयम् ।
उपयेमे यथा लोकम् अनुकुर्वन् स्व-मायया ॥ 7

श्री रुक्मिणी उवाच
चैद्याय मार्पयितुं उद्यत-कार्मुकेषु
राज-स्व-जेय-भट-शेखरित-अङ्घ्रि-रेणुः ।
निन्ये मृग-इन्द्रः इव भागम् अज-अवियूथात्
तत् श्री-निकेत-चरणः अस्तु मम अर्चनाय ॥ 8

श्री सत्यभामा उवाच
यः मे स-नाभि-वध तप्त-हृदा तेन
लिप्त-आभि-शापम् अपमार्ष्टुं उपाजहार ।
जित्वा अर्क्ष-राजम् अथ रत्नम् अदात् स तेन
भीतः पिता आदिशत माम् प्रभवे अपि दत्ताम् ॥ 9

श्री जाम्बवती उवाच
प्राज्ञाय देह-कृतम् अमुं निज-नाथ-दैवम्
सीता-पतिं त्रि-नव-हान्य् अमुना अभ्ययुध्यत् ।
ज्ञात्वा परीक्षित् उपाहरत् अर्हणं माम्
पादौ प्रगृह्य मणिना अहम् अमुष्य दासी ॥ 10

श्री कालिन्दी उवाच
तपः चरन्तीम् आज्ञाय स्व-पाद-स्पर्शन-आशया ।
सख्या उपेत्य अग्रहीत पाणिं यः अहं तत् गृहम् आर्जनी ॥ 11

श्री मित्रविन्दा उवाच
यः माम् स्वयंवर उपेत्य विजित्य भूपान्
निन्ये श्व-यूथ-गम् इव आत्म-बलिं द्विप-आरिः ।
भ्रातॄन् च मे अपकुरुतः स्व-पुरं श्रिय्-आकः
तस्य अस्तु मे अनुभवम् अङ्घ्रि-अवनेजनत्वम् ॥ 12

श्री सत्य उवाच
सप्त-ऋक्षणः अति-बल-वीर्य-सुतीक्ष्ण-शृङ्गान्
पित्रा कृतान् क्षिति-प-वीर्य-परीक्षणाय ।
तान् वीर-दुर्मद-हनः तरसा निगृह्य
क्रीडन् बबन्ध ह यथा शिशवः अज-तोकान् ॥ 13

यः इत्थम् वीर्य-शुल्कां माम् दासीभिः चतुरङ्गिणीम्।
पथि निर्जित्य राजन्यान् निन्ये तत् दास्यम् अस्तु मे ॥ 14

श्री भद्रा उवाच
पिता मे मातुलेयाय स्वयम् आहूय दत्तवान् ।
कृष्णे कृष्णाय तत्-चित्ताम् अक्षौहिण्या सखी-जनैः ॥ 15

अस्य मे पाद-संस्पर्शः भवेत् जन्मनि जन्मनि।
कर्मभिः भ्राम्यमाणायाः येन तत् श्रेयः आत्मनः ॥ 16

श्री लक्ष्मणा उवाच
मम अपि राज्ञि अच्युत-जन्म-कर्म
श्रुत्वा मुहुः नारद-गीतम् आस ह ।
चित्तं मुकुन्दे किल पद्म-हस्तया
वृतः सुसंमृश्य विहाय लोक-पान् ॥ 17

ज्ञात्वा मम मतं साध्वि पिता दुहितृ-वात्सलः।
बृहत्सेनः इति ख्यातः तत्र उपायम् अचीकृत ॥ 18

यथा स्वयंवरे राज्ञि मत्स्यः पार्थ-इप्सया कृतः।
अयम् तु बहिः-आच्छन्नः दृश्यते स जले परम् ॥ 19

श्रुत्वा एतत् सर्वतः भूपाः आययुः मत्-पितुः पुरम्।
सर्व-अस्त्र-शस्त्र-तत्त्व-ज्ञाः स-उपाध्यायाः सहस्रशः ॥ 20

पित्रा सम्पूजिताः सर्वे यथा-वीर्यं यथा-आवयः।
आददुः स-शरं चापं वेद्धुं पर्षदि मत्-धियः ॥ 21

आदाय व्यसृजन् केचित् सज्यं कर्तुम् अनीश्वराः।
आकोटि ज्यां सम्-उत्कृष्य पेतुः एके अमुना हताः ॥ 22

सज्यं कृत्वा परे वीरा मागध-अम्बष्ठ-चेदिपाः।
भीमः दुर्योधनः कर्णः न अविदन् तद्-अवस्थितिम् ॥ 23

मत्स्य-अभासं जले वीक्ष्य ज्ञात्वा च तत्-अवस्थितिम्।
पार्थः यत्तः असृजत् बाणं न आच्छिनत् पस्पृशे परम् ॥ 24

राजन्येषु निवृत्तेषु भग्न-मानेषु मानेषु।
भगवान् धनुः-आदाय सज्यं कृत्वा अथ लीलया ॥ 25

तस्मिन् सन्धाय विशिखं मत्स्यं वीक्ष्य सकृत् जले।
छित्त्वा इषुणा अपातयत् तं सूर्ये च अभिजिति स्थिते ॥ 26

दिवि दुन्दुभयः नेदुः जय-शब्द-युताः भुवि।
देवाः च कुसुम-आसारान् मुमुचुः हर्ष-विह्वलाः ॥ 27

तत् रङ्गम् आविशम् अहं कला-नूपुर-अभ्याम्
पद्भ्याम् प्रगृह्य कनक-उज्वल-रत्न-मालाम्।
नूत्ने निवीय परिधाय च कौशिक-अग्र्ये
स-व्रीड-हास-वदना कवरी-धृत-स्रक् ॥ 28

उन्नीय वक्त्रं उरु-कुन्तल-कुण्डल-त्विट्-
गण्ड-स्थलम् शिशिर-हास-कटाक्ष-मोक्षैः।
राज्ञः निरीक्ष्य परितः शनकैः मुरारेः
अंसे अनुरक्त-हृदया निदधे स्व-मालाम् ॥ 29

तावत् मृदङ्ग-पटहाः शङ्ख-भेर्य-अनक-आदयः।
निनेदुः नटनर्तक्यः ननृतुः गायकाः जगुः ॥ 30

एवं वृते भगवति मया ईशे नृप-यूथपाः।
न सेहिरे याज्ञसेनि स्पर्धन्तः हृत्-शयातुराः ॥ 31

मां तावत् रथम् आरोप्य हय-रत्न-चतुष्टयम्।
शार्ङ्गम् उद्यम्य सन्नद्धः तस्थौ आजौ चतुर्भुजः ॥ 32

दारुकः च उदयामास काञ्चन-उपस्करं रथम्।
मिषताम् भूभुजाम् राज्ञि मृगाणाम् मृग-राट् इव ॥ 33

ते अनु-असज्जन्त राजन्याः निषेद्धुं पथि केचन।
संयत्ताः उद्धृत-ईषव-आसाः ग्राम-सिंहाः यथा हरिम् ॥ 34

ते शार्ङ्ग-च्युत-बाण-ओघैः कृत-बाहु-अङ्घ्रि-कन्धराः।
निपेतुः प्रधाने केचित् एका: सन्त्यज्य दुद्रुवुः ॥ 35

ततः पुरीं यदु-पतिः अति-अलङ्कृताम्
रवि-छद-ध्वज-पट-चित्र-तोरणाम्।
कुशस्थलीं दिवि भुवि च अभिसंस्तुताम्
सम्-आविशत् तरणिः इव स्व-केतनम् ॥ 36

पिता मे पूजयामास सुहृत्-सम्बन्धि-बान्धवान्।
महार्ह-वासा-अलङ्कारैः शय्या-आसन-परिच्छदैः ॥ 37

दासीभिः सर्व-सम्पद्भिः भट-इभ-रथ-वाहिभिः।
आयुधानि महार्हाणि ददौ पूर्णस्य भक्तितः ॥ 38

आत्मा-रामस्य तस्य इमा वयं वै गृह-दासिकाः।
सर्व-सङ्ग-निवृत्त्यात् धात् तपसा च बभूविम ॥ 39

महिष्यः ऊचुः —
भौमं निहत्य स-गणं युधि तेन रुद्धाः
ज्ञात्वा अथ नः क्षिति-जयॆ जित-राज-कन्याः।
निर्मुच्य संसृति-विमोक्षम् अनुस्मरन्त्यः
पाद-अम्बुजं परिणिनाय यः आप्त-कामः ॥ 40

न वयं साध्वि साम्राज्यं स्व-राज्यं भौज्यम् अपि उत।
वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् ॥ 41

कामयामहे एतस्य श्रीमत्-पाद-रजः श्रियः।
कुच-कुङ्कुम-गन्ध-आढ्यम् मूर्ध्ना वोढुं गदा-भृतः ॥ 42

व्रज-स्त्रियः यत् वाञ्छन्ति पुलिन्द्यः तृण-वीरुधः।
गावः च आरयतः गोपाः पद-स्पर्शं महा-आत्मनः ॥ 43

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे त्र्यशीतितमोऽध्यायः॥ 83 ॥

No comments:

Post a Comment