Followers

Search Here...

Saturday, 24 May 2025

ஸ்கந்தம் 10: அத்யாயம் 88 (ஏன் விஷ்ணு பக்தர்கள் உலகில் துக்கத்தை அனுபவிக்கிறார்கள்? - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 ஏன் விஷ்ணு பக்தர்கள்

உலகில் துக்கத்தை அனுபவிக்கிறார்கள்?

ஸ்கந்தம் 10: அத்யாயம் 88

राजोवाच
देव-असुर-मनुष्येषु
ये भजन्ति अशिवं शिवम्।
प्रायः ते धनिनः भोजाः
न तु लक्ष्म्याः पतिम् हरिम्॥ 01

एतत् वेदितुम् इच्छामः
सन्देहः अत्र महान् हि नः।
विरुद्ध-शीलयोः प्रभ्वोः
विरुद्धा भजताम् गतिः॥ 02

श्री-शुकः उवाच
शिवः शक्ति-युतः शश्वत्
त्रि-लिङ्गः गुण-संवृतः।
वैकारिकः तैजसः च
तामसः च इति अहम् त्रिधा॥ 03

ततः विकाराः अभवन्
षोडश-आमीषु कञ्चन।
उपधावन् विभूतीनाम्
सर्वासाम् अश्नुते गतिम्॥ 04

हरिः हि निर्गुणः साक्षात्
पुरुषः प्रकृतेः परः।
सः सर्व-दृक् उपद्रष्टा
तम् भजन् निर्गुणः भवेत्॥ 05

निवृत्तेषु अश्वमेधेषु
राजा युष्मत्-पितामहः।
शृण्वन् भगवतः धर्मान्
अपृच्छत् इदम् अच्युतम्॥ 06

सः आह भगवान् तस्मै
प्रीतः शुश्रूषवे प्रभुः।
नृणाम् निःश्रेयस-अर्थाय
यः अवतीर्णः यदोः कुले॥ 07

श्री-भगवान् उवाच
यस्य अहम् अनुगृह्णामि
हरिष्ये तत् धनं शनैः।
ततः अधनं त्यजन्ति
अस्य स्वजनाः दुःख-दुःखितम्॥ 08

सः यदा वितथ-उद्योगः
निर्विण्णः स्यात् धन-इहया।
मत्-परैः कृत-मैत्रस्य
करिष्ये मत्-अनुग्रहम्॥ 09

तत् ब्रह्म परमम् सूक्ष्मम्
चित्-मात्रम् सत् अनन्तकम्।
अतः माम् सुदुराराध्यम्
हित्वा अन्यान् भजते जनः॥ 10

ततः ते आशु-तोषेभ्यः
लब्ध-राज्य-श्रियः उद्धताः।
मत्ताः प्रमत्ताः वरदान्
विस्मयन्ति अवजानते॥ 11

श्री-शुकः उवाच
शाप-प्रसादयोः ईशाः
ब्रह्म-विष्णु-शिव-आदयः।
सद्यः शाप-प्रसादः अङ्ग
शिवः ब्रह्मा न च अच्युतः॥ 12

अत्र च उदाहरन्ति इमम्
इतिहासम् पुरातनम्।
वृक-आसुराय गिरिशः
वरम् दत्त्वा आप सङ्कटम्॥ 13

वृकः नाम आसुरः पुत्रः
शकुनेः पथि नारदम्।
दृष्ट्वा आशु-तोषम् पप्रच्छ
देवेषु त्रिषु दुर्मतिः॥ 14

सः आह देवं गिरिशम्
उपाधावत् आशु सिद्ध्यसि।
यः अल्पाभ्यां गुण-दोषाभ्याम्
आशु तुष्यति कुप्यति॥ 15

दशास्य-बाणयोः तुष्टः
स्तुवतोः वन्दिनोः इव।
ऐश्वर्यम् अतुलं दत्त्वा
ततः आप सुसङ्कटम्॥ 16

इति आदेश्तः तम् असुरः
उपाधावत् स्व-गात्रतः।
केदारः आत्म-क्रव्येण
जुह्वानः अग्नि-मुखं हरम्॥ 17

देव-उपलब्धिम् अप्राप्य
निर्वेदात् सप्तमे अहनि।
शिरः अवृश्चत् स्व-धितिना
तत्-तीर्थ-क्लिन्न-मूर्धजम्॥ 18

तदा महा-कारुणिकः सः धूर्जटिः
यथा वयम् च अग्निः इव उत्थितः अनलात्।
निगृह्य दोर्भ्याम् भुजयोः न्यवारयत्
तत्-स्पर्शनात् भूयः उपस्कृत-अकृतिः॥ 19

तम् आह च अङ्गालम् अलम् वृणीष्व मे
यथा-अभिकामं वितरामि ते वरम्।
प्रीये यः तोयेन नृणाम् प्रपद्यता-
महः त्वया आत्मा भृशम् अर्द्यते वृथा॥ 20

देवम् सः वव्रे पापीयान्
वरम् भूत-भय-आवहम्।
यस्स्य यस्स्य करम् शीर्ष्णि
धास्ये सः म्रियताम् इति॥ 21

तत् श्रुत्वा भगवान् रुद्रः
दुर्मनाः इव भारत।
ॐ इति प्रहसन् तस्मै
ददौ अहेः अमृतं यथा॥ 22

इति उक्तः सः असुरः नूनम्
गौरी-हरण-लालसः।
सः तत् वर-परिक्षार्थम्
शम्भोः मूर्ध्नि किल असुरः।
स्व-हस्तं धातुम् आरेभे
सः अबिभ्यत् स्व-कृतात् शिवः॥ 23

तेन उपसृष्टः संत्रस्तः
पराधावत् सः वेपथुः।
यावत् अन्तं दिवः भूमेः
कष्ठानाम् उदगात् उदक्॥ 24

अजानन्तः प्रति-विधिम्
तूष्णीम् आसन् सुर-ईश्वराः।
ततः वैकुण्ठम् अगमत्
भास्वरं तमसः परम्॥ 25

यत्र नारायणः साक्षात्
न्यासिनां परमः गतिः।
शान्तानां न्यस्त-दण्डानाम्
यतः न आवर्तते गतः॥ 26

तम् तथा अव्यसनम् दृष्ट्वा
भगवान् वृजिन-अर्दनः।
दूरत् प्रत्युदियात् भूत्वा
वटुकः योग-मायया॥ 27

मेखला-अजिन-दण्ड-अक्षैः
तेजसा अग्निः इव ज्वलन्।
अभिवादयामास च तम्
कुश-पाणिः विनीतवत्॥ 28

श्री-भगवान् उवाच
शाकुनेय भवान् व्यक्तम्
श्रान्तः किम् दूरम् आगतः।
क्षणम् विश्रम्यताम् पुंसः
आत्मा अयम् सर्व-काम-धुक्॥ 29

यदि नः श्रवणाय आलम्
युष्मत्-व्यवसितम् विभो।
भण्यताम् प्रायशः पुंभिः
धृतैः स्व-अर्थान् समीहते॥ 30

श्री-शुकः उवाच
एवम् भगवता पृष्टः
वचस-अमृत-वर्षिणा।
गत-क्लमः अब्रवीत् तस्मै
यथा-पूर्वम् अनुष्ठितम्॥ 31

श्री-भगवान् उवाच
एवम् चेत् तर्हि तत् वाक्यम्
न वयम् श्रद्दधीमहि।
यः दक्ष-शापात् पैशाच्यम्
प्राप्तः प्रेत-पिशाच-राट्॥ 32

यदि वः तत्र विश्रम्भः
दानव-इन्द्र जगत्-गुरौ।
तर्हि अङ्ग आशु स्व-शिरसि
हस्तम् न्यस्य प्रतीयताम्॥ 33

यदि असत्यं वचः शम्भोः
कथञ्चित् दानव-ऋषभ।
तत् एनम् जहि असद्वाचं
न यत् वक्ता अनृतं पुनः॥ 34

इत्थम् भगवतः चित्रैः
वचोभिः सः सुपेशलैः।
भिन्न-धीः विस्मृतः शीर्ष्णि
स्व-हस्तं कुमतिः व्यधात्॥ 35

अथ आपतत् भिन्न-शिराः
व्रज-आहतः इव क्षणात्।
जय-शब्दः नमः-शब्दः
साधु-शब्दः अभवत् दिवि॥ 36

मुमुचुः पुष्प-वर्षाणि
हते पापे वृक-आसुरे।
देव-ऋषि-पितृ-गन्धर्वाः
मोचितः सङ्कटात् शिवः॥ 37

मुक्तं गिरिशम् अभ्याह
भगवान् पुरुष-उत्तमः।
अहो देव महा-देव
पापः अयम् स्वेन पाप्मना॥ 38

हतः कः नु महत्स्वी ईश
जन्तुः वै कृत-किल्बिषः।
क्षेमी स्यात् किम् उ विश्व-ईशे
कृत-अगः को जगत्-गुरौ॥ 39

यः एवम् अव्याकृत-शक्ति-उदन्वतः
परस्य साक्षात् परमा-आत्मनः हरेः।
गिरित्र-मोक्षं कथयेत् शृणोति वा
विमुच्यते संसृतिभिः तदा अरिभिः॥ 40

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे रुद्रमोक्षणं नाम अष्टाशीतितमोऽध्यायः॥ 88

No comments:

Post a Comment