Followers

Search Here...

Saturday, 24 May 2025

ஸ்கந்தம் 10: அத்யாயம் 89 (பிராம்மணன் பிள்ளையை கிருஷ்ணனும் அர்ஜுனனும் மீட்டு கொடுத்தனர் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

பிராம்மணன் பிள்ளையை கிருஷ்ணனும் அர்ஜுனனும் மீட்டு கொடுத்தனர்

ஸ்கந்தம் 10: அத்யாயம் 89

श्रीशुक उवाच सरस्वत्याः तटे राजन् ऋषयः सत्रम् आसत। वितर्कः समभूत् तेषाम् त्रिषु अधीशेषु कः महान्॥ 01 तस्य जिज्ञासया ते वै भृगुम् ब्रह्मसुतम् नृप। तत्-ज्ञप्त्यै प्रेषयामासुः सः अभ्यगात् ब्रह्मणः सभाम्॥ 02 न तस्मै प्रह्वणं स्तोत्रं चक्रे सत्त्व-परीक्षया। तस्मै चुक्रोध भगवान् प्रज्वलन् स्वेन तेजसा॥ 03 सः आत्मनि उत्पिथं मन्यम् आत्मजाय आत्मना प्रभुः। अशीशमत् यथा वह्निं स्वयोन्या वारिणा आत्मभूः॥ 04 ततः कैलासम् अगमत् सः तम् देवः महेश्वरः। परिरब्धुम् समारेभ उत्थाय भ्रातरम् मुदा॥ 05 न ऐच्छत् त्वम् अस्य उत्पथगः इति देवः चुकोप ह। शूलम् उद्यम्य तम् हन्तुम् आरेभे तिग्म-लोचनः॥ 06 पतित्वा पादयोः देवी सान्त्वयामास तम् गिरा। अथः जगाम वैकुण्ठं यत्र देवः जनार्दनः॥ 07 शयानम् श्रियः उत्सङ्गे पदा वक्षसि अताडयत्। ततः उत्थाय भगवान् सह लक्ष्म्या सताम् गतिः॥ 08 स्व-तल्पात् अवरुह्य अथ ननाम शिरसा मुनिम्। आह ते स्वागतं ब्रह्मन् निषीद आत् आसने क्षणम्। अजानताम् आगतान् वः क्षन्तुम् अर्हथ नः प्रभो॥ 09 अतीव कोमलौ तात चरणौ ते महा-मुने। इति उक्त्वा विप्र-चरणौ मर्दयन् स्वेन पाणिना॥ 10 पुनीहि सह-लोकं माम् लोकपालान् च मद्गतान्। पाद-उदकेन भवतः तीर्थानां तीर्थ-कारिणा॥ 11 अद्य अहम् भगवन् लक्ष्म्या आसम् एकान्त-भाजनम्। वत्स्यति उरसि मे भूतिः भवतः पाद-हत-आंहसः॥ 12 श्रीशुक उवाच एवम् ब्रुवाणे वैकुण्ठे भृगुः तत् मन्द्रया गिरा। निर्वृतः तर्पितः तूष्णीम् भक्ति-उत्कण्ठः अश्रु-लोचनः॥ 13 पुनः च सत्रम् आव्रज्य मुनीनाम् ब्रह्मवादिनाम्। स्व-अनुभूतम् अशेषेण राजन् भृगुः अवर्णयत्॥ 14 तत् निशम्य अथ मुनयः विस्मिताः मुक्त-संशयाः। भूयांसम् श्रद्दधुः विष्णुम् यतः शान्तिः यतः अभयम्॥ 15 धर्मः साक्षात् यतः ज्ञानम् वैराग्यम् च तत् अन्वितम्। ऐश्वर्यम् च अष्टधा यस्मात् यशः च आत्म-मल-आपहम्॥ 16 मुनीनाम् न्यस्त-दण्डानाम् शान्तानाम् सम-चेतसाम्। अकिञ्चनानाम् साधूनाम् यम् आहुः परमाम् गतिम्॥ 17 सत्त्वम् यस्य प्रिया मूर्तिः ब्राह्मणाः तु इष्ट-देवताः। भजन्ति अनाशिषः शान्ताः यम् वा निपुण-बुद्धयः॥ 18 त्रिविधा आकृतयः तस्य राक्षसाः असुराः सुराः। गुणिन्या मायया सृष्टाः सत्त्वम् तत् तीर्थ-साधनम्॥ 19 श्रीशुक उवाच एवम् सारस्वताः विप्राः नृणाम् संशय-नुत्तये। पुरुषस्य पद-अम्भोज- सेवया तत् गतिम् गताः॥ 20

सूत उवाच
इति एतत् मुनि-तनय-अस्य पद्म-गन्ध-
पीयूषम् भव-भय-भित् परस्य पुंसः।
सुश्लोकम् श्रवण-पुटैः पिबति अभीक्ष्णम्
पान्थः अध्व-भ्रमण-परिश्रमम् जहाति॥ 21

श्रीशुक उवाच
एकदा द्वारवत्याम् तु
विप्र-पत्न्याः कुमारकः।
जातमात्रः भुवम् स्पृष्ट्वा
ममार किल भारत॥ 22

विप्रः गृहीत्वा मृतकम्
राज-द्वारि उपधाय सः।
इदम् प्रोवाच विलपन्
आतुरः दीन-मानसः॥ 23

ब्रह्म-द्विषः शठ-धियः
लुब्धस्य विषय-आत्मनः।
क्षत्र-बन्धोः कर्म-दोषात्
पञ्चत्वम् मे गतः अर्भकः॥ 24

हिंसा-विहारम् नृपतिम्
दुःशीलम् अजितेन्द्रियम्।
प्रजाः भजन्त्यः सीदन्ति
दरिद्राः नित्य-दुःखिताः॥ 25

एवम् द्वितीयम् विप्रर्षिः
तृतीयम् तु एवम् एव च।
विसृज्य सः नृप-द्वारि
ताम् गाथाम् समगायत॥ 26

तम् अर्जुनः उपश्रुत्य
कर्हिचित् केशव-अन्तिके।
परेते नवमे बाले
ब्राह्मणम् समभाषत॥ 27

किम् स्वित् ब्रह्मन् त्वन्-निवासे
इह नास्ति धनुर्धरः।
राजन्य-बन्धवः एते वै
ब्राह्मणाः सत्रम् आसते॥ 28

धन-दार-आत्मजा-पृक्ताः
यत्र शोचन्ति ब्राह्मणाः।
ते वै राजन्य-वेषेण
नटाः जीवन्ति असुम्भराः॥ 29

अहम् प्रजाः वाम् भगवन्
रक्षिष्ये दीनयोः इह।
अनिस्तीर्ण-प्रतिज्ञः अग्निम्
प्रवेक्ष्ये हत-कल्मषः॥ 30

ब्राह्मण उवाच
सङ्कर्षणः वासुदेवः
प्रद्युम्नः धन्विनाम् वरः।
अनिरुद्धः अप्रति-रथः
न त्रातुम् शक्नुवन्ति यत्॥ 31

तत् कथम् नु भवान् कर्म
दुष्करम् जगत्-ईश्वरैः।
चिकीर्षसि त्वम् बालिश्यात्
तत् न श्रद्दध्महे वयम्॥ 32

अर्जुन उवाच
न अहम् सङ्कर्षणः ब्रह्मन्
न कृष्णः कार्ष्णिः एव च।
अहम् वा अर्जुनः नाम
गाण्डीवम् यस्य वै धनुः॥ 33

मा अवमंस्था मम ब्रह्मन्
वीर्यम् त्र्यम्बक-तोषणम्।
मृत्युम् विजित्य प्रधने
आनेष्ये ते प्रजाम् प्रभो॥ 34

एवम् विश्रम्भितः विप्रः
फाल्गुनेन परन्तप।
जगाम स्वगृहम् प्रीतः
पार्थ-वीर्यम् निशामयन्॥ 35

प्रसूति-कालः आसन्ने
भार्यायाः द्विज-सत्तमः।
पाहि पाहि प्रजाम् मृत्युः
इति आह अर्जुनम् आतुरः॥ 36

सः उपस्पृश्य शुचि-अम्भः
नमस्कृत्य महेश्वरम्।
दिव्यानि अस्त्राणि संस्मृत्य
सज्यम् गाण्डीवम् आददे॥ 37

न्यरुणत् सूतिकागारम्
शरैः नाना-अस्त्र-योजितैः।
तिर्यक् ऊर्ध्वम् अधः पार्थः
चकार शर-पञ्जरम्॥ 38

ततः कुमारः सञ्जातः
विप्र-पत्न्याः रुदन् मुहुः।
सद्यः अदर्शनम् आपेदे
स-शरीरः विहायसा॥ 39

तदा आह विप्रः विजयम्
विनिन्दन् कृष्ण-सन्निधौ।
मौढ्यम् पश्यत मे यः अहम्
श्रद्दधे क्लीब-कत्थनम्॥ 40

न प्रद्युम्नः न अनिरुद्धः न रामः न च केशवः। यस्यम् शेकुः परित्रातुम् कः अन्यः तद् अवित-ईश्वरः॥ 41 धिक् अर्जुनम् मृषा-वादम् धिक् आत्म-श्लाघिनः धनुः। दैव-उपसृष्टम् यः मौढ्यात् आनिनीषति दुर्मतिः॥ 42 एवम् शपति विप्रर्षौ विद्याम् आस्थाय फाल्गुनः। ययौ संयमनीम् आशु यत्र आस्ते भगवान् यमः॥ 43 विप्र-आपत्यम् अचक्षाणः तत् ऐन्द्रीम् अगात् पुरीम्। आग्नेयीम् नैरृतीम् सौम्याम् वायव्याम् वारुणीम् अथ। रसातलम् नाक-पृष्ठम् धिष्ण्यानि अन्यानि उदायुधः॥ 44 ततः अलब्ध-द्विज-सुतः हि अनिस्तीर्ण-प्रतिश्रुतः। अग्निम् विविक्षुः कृष्णेन प्रत्युक्तः प्रतिषेधता॥ 45 दर्शये द्विज-सूनून् ते मा अवज्ञा आत्मानम् आत्मना। ये ते नः कीर्तिम् विमलाम् मनुष्याः स्थापयिष्यन्ति॥ 46 इति सम्भाष्य भगवान् अर्जुनेन सह ईश्वरः। दिव्यम् स्व-रथम् आस्थाय प्रतीचीम् दिशम् आविशत्॥ 47 सप्त द्वीपान् सप्त सिन्धून् सप्त सप्त गिरीन् अथ। लोक-आलोकम् तथा अतीत्य विवेश सुमहत्तमः॥ 48 तत्र अश्वाः शैब्य-सुग्रीव-मेघ-पुष्प-बलाहकाः। तमसि भ्रष्ट-गतयः बभूवुः भरत-ऋषभ॥ 49 तान् दृष्ट्वा भगवान् कृष्णः महा-योगेश्वर-ईश्वरः। सहस्र-आदित्य-सङ्काशम् स्व-चक्रम् प्राहिणोत् पुरः॥ 50 तमः सु-घोरम् गहनम् कृतम् महत् विदारयत् भूरितरेण रोचिषा। मनोजवम् निर्विविशे सुदर्शनम् गुण-च्युतः राम-शरः यथा चमूः॥ 51 द्वारेण चक्र-अनुपथेन तत् तमः परम् परम् ज्योतिः अनन्त-पारम्। समश्नुवानम् प्रसमीक्ष्य फाल्गुनः प्रताडित-अक्षः अपि अदधे अक्षिणी उभे॥ 52 ततः प्रविष्टः सलिलम् नभस्वता बलीयसा इजत् बृहद्-ऊर्मि-भूषणम्। तत्र अद्भुतम् वै भवनम् द्युमत्-तमम् भ्राजत्-मणि-स्तम्भ-सहस्र-शोभितम्॥ 53 तस्मिन् महा-भीमम् अनन्तम् अद्भुतम् सहस्र-मूर्धन् यः फणा-मणि-द्यु-भिः। विभ्राजमानम् द्विगुण-इल्बण-ईक्षणम् सित-आचल-आभम् शितिकण्ठ-जिह्वम्॥ 54 ददर्श तत् भोग-सुख-आसनम् विभुम् महा-अनुभावम् पुरुष-उत्तम-उत्तमम्। सान्द्र-अम्बुद-आभम् सुपिशङ्ग-वससम् प्रसन्न-वक्त्रम् रुचिर-आयत-ईक्षणम्॥ 55 महा-मणि-व्रात-किरीट-कुण्डल प्रभा-परिक्षिप्त-सहस्र-कुन्तलम्। प्रलम्ब-चारु-अष्ट-भुजम् स-कौस्तुभम् श्रीवत्स-लक्ष्मम् वनमालया वृतम्॥ 56 सुनन्द-नन्द-प्रमुखैः स्व-पार्षदैः चक्र-आदिभिः मूर्तिधरैः निज-आयुधैः। पुष्ट्या श्रिया कीर्त्या जय अखिल-ऋद्धिभिः निषेव्यमाणम् परमेष्ठिनाम् पतिम्॥ 57 ववन्द आत्मानम् अनन्तम् अच्युतः जिष्णुः च तत्-दर्शन-जात-साध्वसः। तौ आह भूमा परमेष्ठिनाम् प्रभुः बद्ध-अञ्जलिः सस्मितम् ऊर्जया गिरा॥ 58 द्विज-आत्मजाः मे युवयोः दिदृक्षुणा मया उपनीताः भुवि धर्म-गुप्तये। कलौ अवतीर्णौ अवनेः भर-असुरान् हत्वा इह भूयः त्वरयेतम् अन्ति मे॥ 59 पूर्ण-कामौ अपि युवाम् नर-नारायणौ ऋषी। धर्मम् आचरताम् स्थित्यै ऋषभौ लोक-संग्रहम्॥ 60

इति आदिष्टौ भगवता तौ कृष्णौ परमेष्ठिना। ओम् इति अनम्य भूमानम् आदाय द्विज-दारकान्॥ 61 न्यवर्तताम् स्वकं धाम सम्प्रहृष्टौ यथा आगतम्। विप्राय ददतुः पुत्रान् यथा-रूपम् यथा-अवयः॥ 62 निशाम्य वैष्णवम् धाम पार्थः परम-विस्मितः। यत् किञ्चित् पौरुषम् पुंसाम् मेने कृष्ण-अनुकम्पितम्॥ 63 इति ईदृशानि अनेकानि वीर्याणि इह प्रदर्शयन्। बुभुजे विषयान् ग्राम्यान् निजे च अति-उर्जितैः मखैः॥ 64 प्रववर्ष अखिलान् कामान् प्रजासु ब्राह्मण-आदिषु। यथा-कालम् यथा एव इन्द्रः भगवान् श्रैष्ठ्यम् आस्थितः॥ 65 हत्वा नृपान् अधर्मिष्ठान् घातयित्वा अर्जुन-आदिभिः। अञ्जसा वर्तयाम् आस धर्मम् धर्म-सुत-आदिभिः॥ 66

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे द्विजकुमारानयनं नाम एकोननवतितमोऽध्यायः॥ 89

No comments:

Post a Comment