ஸ்ரீ ப்ரம்ம ஸ்துதி
ஸ்கந்தம் 3: அத்யாயம் 9
ब्रह्म उवाच
ज्ञातो असि मे अद्य सुचिरान् ननु देहभाजां
न ज्ञायते भगवतो गति: इति अवद्यम् ।
न अन्यत् त्वद् अस्ति भगवन्नपि तत् न शुद्धं
माया गुण व्यतिकराद् यत् उरु: विभासि ॥
रूपं यदेतद् अवबोध रस उदयेन
शश्वत् निवृत्त तमस: सद् अनुग्रहाय ।
आदौ गृहीतम् अवतार शतैक बीजं
यत् नाभि-पद्म भवनाद् अहम् आविरासम् ॥
नात: परं परम यद् भवत: स्वरूपम्
आनन्द मात्रम् अविकल्पम् अविद्ध वर्च: ।
पश्यामि विश्व सृजम् एकम् अविश्वम् आत्मन्
भूत: इन्द्रिय आत्मक मद: त उपाश्रित: अस्मि ॥
तद्वा इदं भुवन मङ्गल मङ्गलाय
ध्याने स्म नो दर्शितं त उपास कानाम् ।
तस्मै नमो भगवते अनुविधेम तुभ्यं
यो अनादृतो नरक भाग्भि: असत्प्रसङ्गै: ॥
ये तु त्वदीय चरण अम्बुज कोश गन्धं
जिघ्रन्ति कर्ण विवरै: श्रुति वात नीतम् ।
भक्त्या गृहीत चरण: परया च तेषां
नापैषि नाथ हृदय अम्बु रुहात् स्व-पुंसाम् ॥
तावद् भयं द्रविण देह सुहृद् निमित्तं
शोक: स्पृहा परिभवो विपुलश् च लोभ: ।
तावत् मम इति असद् अवग्रह आर्ति मूलं
यावत् न ते अङ्घ्रिम् अभयं प्रवृणीत लोक: ॥
दैवेन ते हत धियो भवत: प्रसङ्गा:
सर्व अशुभ उप-शमनाद् विमुख इन्द्रिया ये ।
कुर्वन्ति काम सुख लेश लवाय दीना
लोभ अभिभूत मनस अकुशलानि शश्वत् ॥
क्षुत् तृद् त्रि-धातुभि: इमा मुहु: अर्द्यमाना:
शीत उष्ण वात वरषै: इतर इतरात् च ।
काम अग्निना अच्युत रुषा च सुदुर्भरेण
सम्पश्यतो मन उरुक्रम सीदते मे ॥
यावत् पृथक्त्वम् इदम् आत्मन इन्द्रियार्थ
मायाबलं भगवतो जन ईश पश्येत् ।
तावत् न संसृति: असौ प्रति संक्रमेत
व्यर्थ अपि दु:ख निवहं वहती क्रिया अर्था ॥
अह्नि आपृत आर्त करणा निशि नि:शयाना ।
नाना मनोरथ धिया क्षण भग्न निद्रा: ।
दैव आहत अर्थ रचना ऋषय अपि देव
युष्मत् प्रसङ्ग विमुखा इह संसरन्ति ॥
त्वं भक्ति योग परिभावित हृत् सरोज
आस्से श्रुते इक्षित पथो ननु नाथ पुंसाम् ।
यद्यद् दिया त उरुगाय विभावयन्ति
तत्तद् वपु: प्रणयसे सद्-अनुग्रहाय ॥
न अति प्रसीदति तथा उपचित उपचारै:
आराधित: सुर-गणै: हृदि बद्ध कामै: ।
यत् सर्वभूत दयया असद् अलभ्यया एको
नाना जनेषु अवहित: सुहृद् अन्तरात्मा ॥
पुंसाम् अतो विविध कर्मभि: अध्वर आद्यै-
दानेन च उग्र तपसा परिचर्यया च ।
आराधनं भगवतस्तव सत्क्रिय अर्थो
धर्मो अर्पित: कर्हिचिद् म्रियते न यत्र ॥
शश्वत् स्वरूप महसा एव निपीत भेद
मोहाय बोध धिषणाय नम: परस्मै ।
विश्व उद्भव स्थिति लयेषु निमित्त लीला-
रासाय ते नम इदं चकृम ईश्वराय ॥
यस्य अवतार गुण कर्म विडम्बनानि
नामानि ये असु-विगमे विवशा गृणन्ति ।
ते अनैक जन्म शमलं सहस एव हित्वा
संयान्ति अपावृत अमृतं तम् अजं प्रपद्ये ॥
यो वा अहं च गिरिश: च विभु: स्वयं च
स्थिति उद्भव प्रलय हेतव आत्म मूलम् ।
भित्त्वा त्रिपाद् ववृध एक उरु प्ररोह:
तस्मै नमो भगवते भुवन द्रुमाय ॥
लोको विकर्म निरत: कुशले प्रमत्त:
कर्मणि अयं त्वद् उदिते भवद अर्चने स्वे ।
य: तावद् अस्य बलवान् इह जीवित आशां
सद्य छिनत्ति अनिमिषाय नमोऽस्तु तस्मै ॥
यस्माद् बिभेमि अहमपि द्वि-परार्ध धिष्ण्यम्
अध्यासित: सकल-लोक नमस्कृतं यत् ।
तेपे तपो बहु-सव: अवरुरुत् समान:
तस्मै नमो भगवते अधिमखाय तुभ्यम् ॥
तिर्यङ् मनुष्य विबुध आदिषु जीव योनिषु
आत्म इच्छय आत्म कृत सेतु परीप्सया य: ।
रेमे निरस्त विषय अपि अवरुद्ध देह:
तस्मै नमो भगवते पुरुषोत्तमाय ॥
य: अविद्यया अनुपहत: अपि दशार्ध वृत्त्या
निद्राम् उवाह जठरी कृत लोक यात्र: ।
अन्त: जले अहि-कशिपु स्पर्श अनुकूलां
भीमोर्मि मालिनि जनस्य सुखं विवृण्वन् ॥
यन्नाभि पद्म भवनाद् अहम् आसमीड्य
लोकत्रय उपकरणो यद् अनुग्रहेण ।
तस्मै नमस्त उदरस्थ भवाय योग
निद्रा अवसान विकसत् नलिनेक्षणाय ॥
स अयं समस्त जगतां सुहृद् एक आत्मा
सत्त्वेन यत् मृडयते भगवान् भगेन ।
तेन एव मे दृशम् अनुस्पृशतात् यथाहं
स्रक्ष्यामि पूर्व वदिदं प्रणत प्रिय असौ ॥
एष प्रपन्न वरदो रमया आत्म शक्त्या
यद्यत् करिष्यति गृहीत गुण अवतार: ।
तस्मिन् स्व-विक्रमम् इदं सृजतोऽपि चेतो
युञ्जीत कर्म शमलं च यथा विजह्याम् ॥
नाभि हृदाद् इह सत अम्भसि यस्य पुंसो
विज्ञान शक्ति अहम् आसम् अनन्त शक्ते: ।
रूपं विचित्रम् इदम् अस्य विवृण्वतो मे
मा रीरिषीष्ट निगमस्य गिरां विसर्ग: ॥
स असौ अदभ्र करुणो भगवान् विवृद्ध-
प्रेम स्मितेन नयन अम्बुरुहं विजृम्भन् ।
उत्थाय विश्व विजयाय च नो विषादं
माध्व्या गिरा अपनयतात् पुरुष: पुराण: ॥
मैत्रेय उवाच
स्व-सम्भवं निशाम्य एवं तपो विद्या समाधिभि: ।
यावत् मनोवच: स्तुत्वा विरराम स खिन्न वत् ॥
अथ अभिप्रेतम् अन्वीक्ष्य ब्रह्मणो मधुसूदन: ।
विषण्ण चेतसं तेन कल्प व्यतिकर अम्भसा ॥
लोक-संस्थान विज्ञान आत्मन: परिखिद्यत: ।
तम् आह अगाधया वाचा कश्मलं शमयन्निव ॥
श्रीभगवानुवाच
मा वेद-गर्भ गा: तन्द्रीं सर्ग उद्यमम् आवह ।
तन्मया पादितं ह्यग्रे यन्मां प्रार्थयते भवान् ॥
भूय: त्वं तप आतिष्ठ विद्यां चैव मद् आश्रयाम् ।
ताभ्याम् अन्त: हृदि ब्रह्मन् लोकान् द्रक्ष्यसि अपावृतान् ॥
तत आत्मनि लोके च भक्ति युक्त: समाहित: ।
द्रष्टा असि मां ततं ब्रह्यन् मयि लोकांस्त्वम् आत्मन: ॥
यदा तु सर्व भूतेषु दारुषु अग्निम् इव स्थितम् ।
प्रतिचक्षीत मां लोको जह्यात् तर्हि एव कश्मलम् ॥
यदा रहितम् आत्मानं भूतेन्द्रिय गुण आशयै: ।
स्वरूपेण मयोपेतं पश्यन् स्वाराज्यम् ऋच्छति ॥
नाना कर्म वितानेन प्रजा बह्वी: सिसृक्षत: ।
न आत्मा अवसीदति अस्मिं: ते वर्षीयान् मद् अनुग्रह: ॥
ऋषिम् आद्यं न बध्नाति पापीयां त्वाम् रजोगुण: ।
यन्मनो मयि निर्बद्धं प्रजा: संसृजतो अपि ते ॥
ज्ञातोऽहं भवता तु अद्य दु: विज्ञेयोऽपि देहिनाम् ।
यन्मां त्वं मन्यसे अयुक्तं भूत इन्द्रिय गुण आत्मभि: ॥
तुभ्यं मद् विचिकित्सायाम् आत्मा मे दर्शितो अबहि: ।
नालेन सलिले मूलं पुष्करस्य विचिन्वत: ॥
यद् चकर्थ अङ्ग मत्-स्तोत्रं मत्कथा अभ्युदय अङ्कितम् ।
यद्वा तपसि ते निष्ठा स एष मद् अनुग्रह: ॥
प्रीतोऽहम् अस्तु भद्रं ते लोकानां विजय इच्छया ।
यद् अस्तौषी: गुणमयं निर्गुणं मा अनुवर्णयन् ॥
य एतेन पुमान् नित्यं स्तुत्वा स्तोत्रेण मां भजेत् ।
तस्याशु सम्प्रसीदेयं सर्व काम वरेश्वर: ॥
पूर्तेन तपसा यज्ञै: दानै: योग समाधिना ।
राद्धं नि:श्रेयसं पुंसां मत्प्रीति: तत्त्व वित् मतम् ॥
अहम् आत्मात्मनां धात: प्रेष्ठ: सन् प्रेयसाम् अपि ।
अतो मयि रतिं कुर्याद् देहादि: यत्कृते प्रिय: ॥
सर्व वेदमयेन इदम् आत्मना आत्म आत्म योनिना ।
प्रजा: सृज यथा पूर्वं याश्च मयि अनुशेरते ॥
मैत्रेय उवाच
तस्मा एवं जगत् स्रष्ट्रे प्रधान पुरुष ईश्वर: ।
व्यज्य इदं स्वेन रूपेण कञ्ज-नाभ तिरोदधे ॥
குருநாதர் துணை
No comments:
Post a Comment