குருக்ஷேத்ரத்தில்
நந்தகோபர்
யசோதை கண்ணனை சந்திக்கிறார்கள்
ஸ்கந்தம் 10: அத்யாயம் 82
श्री-शुकः उवाच
अथ एकदा द्वारवत्याम् वसतः राम-कृष्णयोः।
सूर्य-उपरागः सुमहान् आसीत् कल्प-क्षये यथा॥ 1॥
तं ज्ञात्वा मनुजाः राजन् पुरः-तात्-एव सर्वतः।
समन्त-पञ्चकं क्षेत्रम् ययुः श्रेयः-विधित्सया॥ 2॥
निः-क्षत्रियाम् महीम् कुर्वन् रामः शस्त्र-भृताम् वरः।
नृपाणाम् रुधिर-ओघेण यत्र चक्रे महा-ह्रदान्॥ 3॥
ईजे च भगवान् रामः यत्र अस्पृष्टः अपि कर्मणा।
लोकस्य ग्रहयन् ईशः यथा अन्यः अघ-अप-नुत्तये॥ 4॥
महत्याम् तीर्थ-यात्रायाम् तत्र आगन् भारतीः प्रजाः।
वृष्णयः च तथा अक्रूर-वसुदेव-आहुक-आदयः॥ 5॥
ययुः भारत तत् क्षेत्रम् स्व-अघम् क्षपयिष्णवः।
गद-प्रद्युम्न-साम्ब-आद्याः सुचन्द्र-शुक-सारणैः॥ 6॥
आस्ते अनिरुद्धः रक्षायाम् कृतवर्मा च यूथपः।
ते रथैः देव-धिष्ण्य-आभैः हयैः च तरल-प्लवैः॥ 7॥
गजैः नदद्-भिः अभ्र-आभैः नृभिः विद्याधर-द्युभिः।
व्यरोचन्त महा-तेजाः पथि काञ्चन-मालिनः॥ 8॥
दिव्य-स्रक्-वस्त्र-सन्नाहाः कलत्रैः खेचराः इव।
तत्र स्नात्वा महा-भागाः उपोष्य सुसमाहिताः॥ 9॥
ब्राह्मणेभ्यः ददुः धेनुः वासः-स्रक्-रुक्म-मालिनीः।
राम-ह्रदेषु विधिवत् पुनः-आप्लुत्य वृष्णयः॥ 10॥
ददुः स्व-अन्नम् द्विज-आग्र्येभ्यः कृष्णे नः भक्तिः अस्तु इति।
स्वयम् च तत्-अनुज्ञाताः वृष्णयः कृष्ण-देवताः॥ 11॥
भुक्त्वा उपविविशुः कामम् स्निग्ध-छाय-आङ्घ्रि-पाङ्घ्रिषु।
तत्र आगतान् ते ददृशुः सुहृत्-संबन्धिनः नृपान्॥ 12॥
मत्स्य-उशीनर-कौशल्य-विदर्भ-कुरु-सृञ्जयान्।
काम्बोज-कैकयान् मद्रान् कुन्तीन् आनर्त-केरलान्॥ 13॥
अन्यान् च एव आत्म-पक्षीयान् परान् च शतशः नृप।
नन्द-आदीन् सुहृदः गोपान् गोप्यः च उत्कण्ठिताः चिरम्॥ 14॥
अन्योन्य-सन्दर्शन-हर्ष-रंहसा
प्रोत्फुल्ल-हृत्-वक्त्र-सरोरुह-श्रियः।
आश्लिष्य गाढम् नयनैः स्रवत्-जलाः
हृष्यत्-त्वचः रुद्ध-गिरः ययुः मुदम्॥ 15॥
स्त्रियः च संवीक्ष्य मिथः अति-सौहृद-
स्मित-अमल-आपाङ्ग-दृशः अभिरेभिरे।
स्तनैः स्तनान् कुङ्कुम-पङ्क-रूषितान्
निहत्य दोर्-भिः प्रणय-अश्रु-लोचनाः॥ 16॥
ततः अभिवाद्य ते वृद्धान् यविष्ठैः अभिवादिताः।
स्वागतम् कुशलम् पृष्ट्वा चक्रुः कृष्ण-कथाः मिथः॥ 17॥
पृथा भ्रातॄन् स्वसॄः वीक्ष्य तत्-पुत्रान् पितरौ अपि।
भ्रातृ-पत्नीः मुकुन्दम् च जहौ सङ्कथया शुचः॥ 18॥
कुन्ती ऊवाच –
आर्य भ्रातरः अहम् मन्ये आत्मानम् अकृत-आशिषम्।
यत् वा आपत्सु मद्-वार्ताम् न अनुस्मरथ सत्तमाः॥ 19॥
सुहृतः ज्ञातयः पुत्राः भ्रातरः पितरौ अपि।
न अनुस्मरन्ति स्व-जम् यस्य दैवम् अदक्षिणम्॥ 20॥
श्री-वसुदेवः उवाच –
अम्ब मा अस्मान्-असूयetha दैव-क्रीडन-कान् नरान्।
ईशस्य हि वशे लोकः कुरुते कार्यते अथवा॥ 21॥
कंस-प्रतापिताः सर्वे वयं याताः दिशं दिशम्।
एतर्हि एव पुनः स्थानं दैवेन आसादिताः स्वसः॥ 22
श्री-शुकः उवाच –
वसुदेव-उग्रसेन-आद्यैः यदुभिः ते अर्चिताः नृपाः।
आसन् अच्युत-सन्दर्श-परम्-आनन्द-निर्वृताः॥ 23
भीष्मः द्रोणः अम्बिका-पुत्रः गान्धारी स-सुता तथा।
स-दाराः पाण्डवाः कुन्ती सृञ्जयः विदुरः कृपः॥ 24
कुन्ती-भोजः विराटः च भीष्मकः नग्नजित् महान्।
पुरुजित् द्रुपदः शल्यः धृष्ट-केतुः स-काशिराट्॥ 25
दम-घोषः विशाल-अक्षः मैथिलः मद्र-केकयौ।
युधामन्युः सुशर्मा च स-सुता बाह्लिक-आदयः॥ 26
राजानः ये च राजेन्द्र युधिष्ठिरम् अनुव्रताः।
श्री-निकेतं वपुः शौरेः स-स्त्रीकं वीक्ष्य विस्मिताः॥ 27
अथ ते राम-कृष्णाभ्याम् सम्यक् प्राप्त-समर्हणाः।
प्रशशंसुः मुदाऽयुक्ताः वृष्णीन् कृष्ण-परिग्रहान्॥ 28
अहो भोज-पते यूयम् जन्म-भाजः नृणाम् इह।
यत् पश्यथ असकृत् कृष्णम् दुर्दर्शम् अपि योगिनाम्॥ 29
यत्-विश्रुतिः श्रुति-नुते इदम् अमलं पुनाति।
पाद-अवनेजन-पयः च वचः च शास्त्रम्।
भूमिः काल-भर्जित-भगः अपि यत्-अङ्घ्रि-पद्म-
स्पर्श-उत्थ-शक्तिः अभिवर्षति नः अखिल-अर्थान्॥ 30
तत्-दर्शन-स्पर्शन-अनुपथ-प्रजल्प-
शय्या-आसन-आशन-सयोनस-पिण्ड-बन्धः।
येषाम् गृहे निरय-वर्त्मनि वर्तताम् वः
स्वर्ग-अपवर्ग-विरमः स्वयं आस विष्णुः॥ 31
नन्दः तत्र यदून् प्राप्तान् ज्ञात्वा कृष्ण-पुरोगमान्।
तत्र आगमत् वृतः गोपैः अनः-स्थ-अर्थैः दिदृक्षया॥ 32
तम् दृष्ट्वा वृष्णयः हृष्टाः तन्वः प्राणम् इव उत्थिताः।
परिषस्वजिरे गाढम् चिर-दर्शन-कातराः॥ 33
वसुदेवः परिष्वज्य सम्प्रीतः प्रेम-विह्वलः।
स्मरन् कंस-कृतान् क्लेशान् पुत्र-न्यासम् च गोकुले॥ 34
कृष्ण-रामौ परिष्वज्य पितरौ अभिवाद्य च।
न किञ्चन ऊचतुः प्रेम्णा स-आश्रु-कण्ठौ कुरु-उद्वह॥ 35
तौ आत्म-आसनम् आरोप्य बाहुभ्याम् परिरभ्य च।
यशोदा च महा-भागा सुतौ विजहतुः शुचः॥ 36
रोहिणी देवकी च अथ परिष्वज्य व्रजेश्वरीम्।
स्मरन्त्यौ तत्-कृताम् मैत्रीम् बाष्प-कण्ठ्यौ समूचतुः॥ 37
का विस्मरेत वाम् मैत्रीम् अनिवृत्ताम् व्रजेश्वरी।
अवाप्य आप्य ऐन्द्रम् ऐश्वर्यम् यस्याः न इह प्रतिक्रिया॥ 38
एतावत् दृष्ट-पितरौ युवयोः स्म पित्रोः
सम्प्रीणन-अभ्युदय-पोषण-पालनानि।
प्राप्य उषतुर्भवति पक्ष्म ह यत् वद्-अक्ष्णोः
न्यस्तौ अकुत्र च भयौ न सताम् परः स्वः॥ 39
श्री-शुक उवाच – गोप्यः च कृष्णम् उपलभ्य चिरात् अभीष्टम्
यत्-प्रेक्षणे दृशिषु पक्ष्म-कृतम् शपन्ति।
दृग्भिः हृदीकृतम् अलम् परिरभ्य सर्वाः
तत्-भावम् आपुः अपि नित्य-युजाम् दुरापम्॥ 40
भगवान् ताः तथा-भूताः विविक्ते उपसङ्गतः।
आश्लिष्य आनामयम् पृष्ट्वा प्रहसन् इदम् अब्रवीत्॥ 41
अपि स्मरथ नः सख्यः स्व-आनाम् अर्थ-चिकीर्षया।
गतान् चिरायितान् शत्रु-पक्ष-क्षपण-चेतसः॥ 42
अपि अवध्यायथ नः स्वित् अ-कृतज्ञ-विशङ्कया।
नूनम् भूतानि भगवान् युनक्ति वियुनक्ति च॥ 43
वायुः यथा घन-आनीकं तृणम् तूलं रजांसि च।
संयोज्य अक्षिपते भूयः तथा भूतानि भूत-कृत्॥ 44
मयि भक्तिः हि भूतानाम् अमृतत्वाय कल्पते।
दिष्ट्या यत् आसीत् मत्-स्नेहः भवतीनाम् मत्-अपनः॥ 45
अहं हि सर्व-भूतानाम् आदिः अन्तः अन्तरम् बहिः।
भौतिकानाम् यथा खम् वार्-भूः वायुः ज्योतिः अङ्गनाः॥ 46
एवम् हि एतानि भूतानि भूतेषु आत्मा आत्मना ततः।
उभयम् मयि अथ परे पश्यत आभातम् अक्षरे॥ 47
श्री-शुकः उवाच – अध्यात्म-शिक्षया गोप्यः एवं कृष्णेन शिक्षिताः।
तत्-अनुस्मरण-ध्वस्त-जीव-कोशाः तम् अध्यगन्॥ 48
आहुः च ते नलिन-नाभ-पद-अरविन्दम्
योगेश्वरैः हृदि विचिन्त्यम् अगाध-बोधैः।
संसार-कूप- पतित-उत्तरण-अवलम्बम्
गेहम्-जुषाम् अपि मनसि उदियात् सदा नः॥ 49
No comments:
Post a Comment