Followers

Search Here...

Friday, 23 May 2025

ஸ்கந்தம் 10: அத்யாயம் 87 (வேதம் எவ்வாறு பரமாத்மாவை காட்ட முடியும் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 வேதம் எவ்வாறு

பரமாத்மாவை

காட்ட முடியும்

ஸ்கந்தம் 10: அத்யாயம் 87

श्री परीक्षित् उवाच
ब्रह्मन् ब्रह्मणि अनिर्देश्ये निर्गुणे गुण-वृत्तयः।
कथम् चरन्ति श्रुतयः साक्षात् सत्-असतः परे॥ 01

श्री शुक उवाच
बुद्धि-इन्द्रिय-मनः-प्राणान् जनानाम् असृजत् प्रभुः।
मात्र-अर्थम् च भव-अर्थम् च आत्मने अकल्पनाय च॥ 02

सा एषा हि उपनिषद् ब्राह्मी पूर्व-ईषाम् पूर्व-जैः धृता।
श्रद्धया धारयेत् यः ताम् क्षेमम् गच्छेत् अकिञ्चनः॥ 03

अत्र ते वर्णयिष्यामि गाथाम् नारायण-अन्विताम्।
नारदस्य च संवादम् ऋषेः नारायणस्य च॥ 04

एकदा नारदः लोकान् पर्यटन् भगवत्-प्रियः।
सनातनम् ऋषिम् द्रष्टुम् ययौ नारायण-आश्रमम्॥ 05

यः वै भारत-वर्षे अस्मिन् क्षेमाय स्वस्तये नृणाम्।
धर्म-ज्ञान-शम-उपेतम् आकल्पात् आस्थितः तपः॥ 06

तत्र उपविष्टम् ऋषिभिः कलाप-ग्राम-वासिभिः।
परीतम् प्रणतः अपृच्छत् इदम् एव कुरूद्वह॥ 07

तस्मै हि अवोचत् भगवान् ऋषीणाम् शृण्वताम् इदम्।
यः ब्रह्मवादः पूर्वेषाम् जनलोक-निवासिनाम्॥ 08

श्री भगवान् उवाच
स्वायम्भुवे ब्रह्म-सत्रम् जनलोके अभवत् पुरा।
तत्र-स्थानाम् मानसानाम् मुनीनाम् ऊर्ध्व-रेतसाम्॥ 09

श्वेतद्वीपम् गतवति त्वयि द्रष्टुम् तत्-ईश्वरम्।
ब्रह्मवादः सु-संवृत्तः श्रुतयः यत्र शेरते।
तत्र हि अयम् अभूत् प्रश्नः त्वम् माम् यम् अनुपृच्छसि॥ 10

तुल्य-श्रुत-तपः-शीलाः तुल्य-स्वीय-अरि-मध्यमाः।
अपि चक्रुः प्रवचनम् एकम् शुश्रूषवः अपरे॥ 11

श्री सनन्दन उवाच
स्व-सृष्टम् इदम् आपीय शयानम् सह शक्तिभिः।
तत्-अन्ते बोधयाञ्चक्रुः तत्-लिङ्गैः श्रुतयः परम्॥ 12

यथा शयानम् सम्राजम् वन्दिनः तत्-पराक्रमैः।
प्रत्यूषे अभेत्य सुश्लोकैः बोधयन्ति अनुजीविनः॥ 13

श्री श्रुतयः ऊचुः
जय जय जहि अजम् अजित दोष-गृभीत-गुणाम्।
त्वम् असि यत्-आत्मना समवरुद्ध-समस्त-भगः।
अग-जगत्-ओकसाम् अखिल-शक्ति-अवबोधक ते।
क्वचित् अजयः आत्मना च चरतः अनुचरेत् निगमः॥ 14

बृहद् उपलब्धम् एतत् अवयन्ति अवशेषतया।
यत् उदय-अस्तमयौ विकृतेः मृदि वा अविकृतात्।
अतः ऋषयः दधुः त्वयि मनो-वचन-आचरितम्।
कथम् अयथा भवन्ति भुवि दत्त-पदानि नृणाम्॥ 15

इति तव सूरयः त्र्यधिपते अखिल-लोक-मल।
क्षपण-कथा-अमृत-अब्धिम् अवगाह्य तपांसि जहुः।
किम् उ पुनः स्वधाम-विधुत-अाशय-काल-गुणाः।
परमम् भजन्ति ये पदम् अजस्र-सुख-अनुभवम्॥ 16

दृतयः इव श्वसन्ति असुभृतः यदि ते अनुविधाः।
महत्-अहम्-आदयः अण्डम् असृजन् यत्-अनुग्रहतः।
पुरुष-विधः अन्वयः अत्र चरमः अन्नमय-आदिषु।
यः सत्-असतः परम् त्वम् अथ यत् एषु अवशेषम् ऋतम्॥ 17

उदरम् उपासते यः ऋषि-वर्त्मसु कूर्प-दृशः।
परिसर-पद्धतिम् हृदयम् आरुणयोः दहरम्।
तत् उदगात् अनन्त तव धाम शिरः परम्।
पुनः इह यत् समेत्य न पतन्ति कृतान्त-मुखे॥ 18

स्व-कृत-विचित्र-योनिषु विशन् इव हेतुतया।
तरतमतः चकाससि अनलवत् स्व-कृत-अनुकृतिः।
अथ वितथासु अमूषु अवितथाम् तव धाम समम्।
विरज-धियः अनुयन्ति अभिविपण्यवः एक-रसम्॥ 19

स्व-कृत-पुरेषु अमीषु बहि: अन्तर् संवरणम्।
तव पुरुषम् वदन्ति अखिल-शक्ति-धृतः अंश-कृतम्।
इति नृ-गतिम् विविच्य कवयः निगम-अवपनम्।
भवत उपासते अङ्घ्रिम् अभवम् भुवि विश्वसिताः॥ 20


दुरवगम आत्मतत्त्व निगमाय तव आत्त-तनुः
चरित-महा-अमृत-अब्धि-परिवर्त-परिश्रमणाः।
न परिलषन्ति केचित् अपवर्गम् अपि ईश्वर ते
चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः ॥ 21


त्वत् अनुपथम् कुलायम् इदम् आत्म-सुहृत्-प्रिय-वच्
चरति तथा उन्मुखे त्वयि हिते प्रिय आत्मनि च।
न बत रमन्ति अहो असत्-उपासनया आत्म-हनः
यत् अनुशया भ्रमन्ति उरु-भये कु-शरीर-भृतः ॥ 22


निभृत-अरुत्-मनः-अक्ष-दृढ-योग-युजः हृदि यम्
मुनयः उपासते तत् अरयः अपि ययुः स्मरणात्।
स्त्रियः उरग-इन्द्र-भोग-भुज-दण्ड-विषक्त-धियः
वयम् अपि ते समाः सम-दृशः अङ्घ्रि-सरोज-सुधाः ॥ 23

कः इह नु वेद बत अवर-जन्म-लयः अग्र-सरम्
यत् उदगात् ऋषिः यम् अनु देव-गणाः उभये।
तर्हि न सन् न च असत् उभयं न च काल-जवः
किम् अपि न तत्र शास्त्रम् अवकृष्य शयीत यदा ॥ 24


जनिम् असतः सतः मृतिम् उत आत्मनि ये च भिदाम्
विपणम् अमृतम् स्मरन्ति उपदिशन्ति ते आरुपितैः।
त्रि-गुण-मयः पुमान् इति भिदा यत् अबोध-कृता
त्वयि न ततः परत्र स भवेत् अवबोध-रसे ॥ 25


स दिव मनः त्रिवृत् त्वयि विभाति असताम् अनुजात्
सत् अभिमृशन्ति अशेषम् इदम् आत्मतया आत्म-विदः।
न हि विकृतिम् त्यजन्ति कनकस्य तत् आत्मतया
स्वकृतम् अनुप्रविष्टम् इदम् आत्मतया अवसितम् ॥ 26


तव परि ये चरन्ति अखिल-सत्त्व-निकेत-तया
ते उत पद-अक्रमन्ति अविगणय्य शिरः निरृतेः।
परिवयसे पशून् इव गिरा विबुधान् अपि तान्
त्वयि कृत-सौहृदाः खलु पुनन्ति न ये विमुखाः ॥ 27


त्वम् अकरणः स्व-राज् अखिल-कारक-शक्ति-धरः
तव बलिम् उद्द्वहन्ति समदन्ति अजया अनिमिषाः।
वर्ष-भुजः अखिल-क्षितिपतेः इव विश्व-सृजः
विदधति यत्र ये त्व अधिकृताः भवतः चकिताः ॥ 28


स्थिर-चरत-जातयः स्युः अजय-उत्थ-निमित्त-युजः
विहर उदीक्षया यदि परस्य विमुक्तः ततः।
न हि परमस्य कश्चित् अपरः न परः च भवेत्
वियत् इव आपदस्य तव शून्य-तुलाम् दधतः ॥ 29


अपरिमिताः ध्रुवाः तनु-भृतः यदि सर्वगताः
तर्हि न शास्यते इति नियमः ध्रुवः न इतरथा।
अजनि च यत् मयम् तत् अविमुच्य नियन्त्र् भवेत्
समम् अनुजानताम् यत् अमतम् मत-दुष्ट-तया ॥ 30


न घटते उद्भवः प्रकृति-पुरुषयोः अजयोः
उभय-युजा भवन्ति असु-भृतः जल-बुद्बुद-वतः।
त्वयि ते इमे ततः विविध-नाम-गुणैः परमे
सरितः इव अर्णवे मधुनि लिल्युः अशेष-रसाः ॥ 31


नृषु तव मायया भ्रमम् अमीषु अवगत्य भृशम्
त्वयि सुधियः अभवे दधति भावम् अनुप्रभवम्।
कथम् अनु वर्तताम् भव-भयम् तव यत् भ्रुकुटिः
सृजति मुहुः त्रिणेमिः अभवच् शरणेषु भयम् ॥ 32

विजित-हृषीक-वायुभिः अदान्त-मनः-तुरगम्
यः इह यतन्ति यन्तुम् अतिलोलम् उपाय-खिदः।
व्यसन-शत-आन्विताः समवहाय गुरोः चरणम्
वणिजः इव अजः सन्ति अ-कृत-कर्णधराः जलधौ ॥ 33


स्व-जन-सुत-आत्म-दार-धन-धाम-धरा-असुरथैः
त्वयि सति किम् नृणाम् श्रयतः आत्मनि सर्व-रसे।
इति सद्-अजानताम् मिथुनतः रतये चरताम्
सुखयति कः नु इह स्व-विहते स्व-निरस्त-भगः ॥ 34


भुवि पुरु-पुण्य-तीर्थ-सदनानि ऋषयः विमदाः
ते उत भवत्-पद-अम्बुज-हृदः अघ-भिद्-अङ्घ्रि-जलाः।
दधति सकृत् मनः त्वयि यः आत्मनि नित्य-सुखे
न पुनः उपासते पुरुष-सार-हर-आवसथान् ॥ 35


सत् इदम् उत्थितम् सत् इति चेत् ननु तर्क-हतम्
व्यभिचरति क्व च क्व च मृषा न तथा उभय-युक्त्।
व्यवहृतये विकल्पः इषितः अन्ध-परम्परया
भ्रमयति भारती तु उरु-वृत्तिभिः उक्त-जडान् ॥ 36

न यत् इदम् अग्रे आस् न भविष्यत् अतः निधनात्
अनुमितम् अन्तरा त्वयि विभाति मृषा-एक-रसे।
अतः उपमीयते द्रविण-जाति-विकल्प-पथैः
वितथ-मनः-विलासम् ऋतम् इति अवयन्ति अबुधाः ॥ 37


स यत् अजया त्व अजाम् अनुशयीते गुणान् च जुषन्
भजति सरूपताम् तत् अनु मृत्युं अपेत-भगः।
त्वम् उत जहासि ताम् अहिः इव त्वचम् आत्त-भगः
महसि महीयसे अष्ट-गुणिते अपरिमेय-भगः ॥ 38


यदि न समुद्धरन्ति यतयः हृदि काम-जटाम्
दुरधिगमः असताम् हृदि गतः अस्मृत-कण्ठ-मणिः।
असुतृप-योगिनाम् उभयतः अपि असुखं भगवन्
अनपगत-अन्तकात् अनधिरूढ-पदात् भवतः ॥ 39

त्वत्-अवगमी न वेत्ति भवत्-उत्थ-शुभ-अशुभयोः
गुण-विगुण-अन्वयान् तर्हि देह-भृताम् च गिरः।
अनु-युगम् अन्वहम् सगुण-गीत-परम्परया
श्रवण-भृतः यतः त्वम् अपवर्ग-गतिः मनुजैः ॥ 40


द्युपतय एव ते न ययुः अन्तम् अनन्ततया
त्वम् अपि यत् अन्तः अण्ड-निचया ननु स-अवरणाः।
ख इव रजांसि वान्ति वयसा सह यत् श्रुतयः
त्वयि हि फलन्ति अतन्-निरसनेन भवन्-निधनाः॥ 41

श्री भगवान् उवाच
इति एतत् ब्रह्मणः पुत्राः आश्रुत्य आत्म-अनुशासनम्।
सनन्दनम् अथ अर्चुः सिद्धाः ज्ञात्वा आत्मनः गतिम्॥ 42

इति अशेष-समाम्नाय-
पुराण-उपनिषद्-रसः।
समुद्धृतः पूर्व-जातैः व्योम-यानैः महात्मभिः॥ 43

त्वम् च एतत् ब्रह्म-दायाद
श्रद्धया आत्म-अनुशासनम्।
धारयन् चर गां कामम्
कामानाम् भर्जनम् नृणाम्॥ 44

श्री शुकः उवाच
एवम् स ऋषिणा आदिष्टम्
गृहीत्वा श्रद्धया आत्मवान्।
पूर्णः श्रुतधरः राजन्
आह वीरव्रतः मुनिः॥ 45

नारदः उवाच
नमः तस्मै भगवते कृष्णाय अमल-कीर्तये।
यः धत्ते सर्व-भूतानाम्
अभवाय ओशतीः कलाः॥ 46

इति आद्यं ऋषिम् आnamya
तत् शिष्यांश् च महात्मनः।
ततः अगात् आश्रमं साक्षात्
पितुः द्वैपायनस्य मे॥ 47

सभाजितः भगवता
कृत-आसन-परिग्रहः।
तस्मै तत् वर्णयाम् आस
नारायण-मुखात् श्रुतम्॥ 48

इति एतत् वर्णितं राजन्
प्रण्नः प्रश्नः कृतः त्वया।
यथा ब्रह्मणि अनिर्देश्ये
निर्गुणे अपि मनः चरेत्॥ 49

यः अस्य उत्प्रेक्षकः आदि-मध्य-निधने
यः अव्यक्त-जीव-ईश्वरः
यः सृष्ट्वा इदम् अनुप्रविश्य
ऋषिणा चक्रे पुरः शास्ति ताः।
यम् सम्पद्य जहाति अजात् अनुशयी सुप्तः
कुलायं यथा
तम् कैवल्य-निरस्त-योनिम् अभयम्
ध्यायेत् अजस्रं हरिम्॥ 50

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे नारदनारायणसंवादे वेदस्तुतिर्नाम सप्ताशीतितमोऽध्यायः॥ 87

No comments:

Post a Comment