Followers

Search Here...

Friday 18 March 2022

ஸ்கந்தம் 1: அத்யாயம் 5 ஸ்ரீமத் பாகவதம் Srimad Bhagavatham... வியாசரை 'பாகவதம்' எழுதச்சொல்கிறார் நாரதர்

 ஸ்கந்தம் 1: அத்யாயம் 5

ஸ்ரீமத் பாகவதம்

Srimad Bhagavatham

வியாசரை 'பாகவதம்' 

எழுதச்சொல்கிறார் நாரதர்


सूत उवाच

अथ तं सुखम् आसीन उपासीनं बृहत् छ्रवा: ।

देवर्षि: प्राह विप्रर्षिं वीणा-पाणि: स्मयन् इव ॥ 1


नारद उवाच

पाराशर्य महाभाग भवत: कच्चिद् आत्मना ।

परितुष्यति शारीर आत्मा मानस एव वा ॥ 2


जिज्ञासितं सुसम्पन्नम् अपि ते महद् अद्भ‍ुतम् ।

कृतवान् भारतं यस्त्वं सर्वार्थ परि बृंहितम् ॥ 3


जिज्ञासितम् अधीतं च ब्रह्म यत्तत् सनातनम् ।

तथापि शोचसि आत्मानम् अकृत अर्थ इव प्रभो ॥ 4


व्यास उवाच

अस्त्येव मे सर्वमिदं त्वया युक्तं

तथापि न आत्मा परितुष्यते मे ।

तत् मूलम् अव्यक्तम् अगाध बोधं

पृच्छामहे त्व आत्म-भव आत्म-भूतम् ॥ 5


स वै भवान् वेद समस्त गुह्यम् 

उपासितो यत्पुरुष: पुराण: ।

पर अवर ईशो मनसा एव विश्वं

सृजति अवति अत्ति गुणै: असङ्ग: ॥ 6


त्वं पर्यटन् अर्क इव त्रिलोकीम्

अन्तश्चरो वायुरिव आत्म साक्षी ।

परावरे ब्रह्मणि धर्मतो व्रतै:

स्‍नातस्य मे न्यूनम् अलं विचक्ष्व ॥ 7


श्रीनारद उवाच

भवता अनुदित प्रायं यशो भगवतो अमलम् ।

येनैव असौ न तुष्येत मन्ये तद् दर्शनं खिलम् ॥ 8


यथा धर्मादयश्च अर्था मुनि वर्य अनुकीर्तिता: ।

न तथा वासुदेवस्य महिमा हि अनुवर्णित: ॥ 9


न यद् वच: चित्रपदं हरे: यशो

जगत्पवित्रं प्रगृणीत कर्हिचित् ।

तद् वायसं तीर्थम् उशन्ति मानसा

न यत्र हंसा निरमन्ति उशिक् क्षया: ॥ 10


तद् वाग् विसर्गो जनता अघ विप्लवो

यस्मिन् प्रतिश्लोकम् अबद्धवति अपि ।

नामानि अनन्तस्य यशो अङ्कितानि यत्

श‍ृण्वन्ति गायन्ति गृणन्ति साधव: ॥ 11


नैष्कर्म्यम् अपि अच्युत भाव वर्जितं

न शोभते ज्ञानम् अलं निरञ्जनम् ।

कुत: पुन: शश्वद् अभद्रम् ईश्वरे

न च अर्पितं कर्म यद् अपि अकारणम् ॥ 12


अथो महाभाग भवान् अमोघ द‍ृक्

शुचिश्रवा: सत्यरतो धृतव्रत: ।

उरुक्रमस्य अखिल बन्ध मुक्तये

समाधिना अनुस्मर तद् विचेष्टितम् ॥ 13


ततो अन्यथा किञ्चन यद् विवक्षत:

पृथग् दृश: तत्कृत रूप नामभि: ।

न कर्हिचित् क्वापि च दु:स्थिता मति:

लभेत वात आहत नौ: इव: आस्पदम् ॥ 14


जुगुप्सितं धर्मकृते अनुशा-सत:

स्वभाव रक्तस्य महान् व्यतिक्रम: ।

यद् वाक्यतो धर्म इतीतर: स्थितो

न मन्यते तस्य निवारणं जन: ॥ 15 


विचक्षणो अस्य अर्हति वेदितुं विभो:

अनन्त पारस्य निवृत्तित: सुखम् ।

प्रवर्तमानस्य गुणै: अनात्मन:

ततो भवान् दर्शय चेष्टितं विभो: ॥ 16 


त्यक्त्वा स्वधर्मं चरणाम्बुजं हरे:

भजन् अपक्‍व अथ पतेत् ततो यदि ।

यत्र क्‍व वा अभद्रम् अभूद् अमुष्य किं

को वार्थ आप्त अभजतां स्वधर्मत: ॥ 17 


तस्यैव हेतो: प्रयतेत कोविदो

न लभ्यते यद् भ्रमताम् उपर्यध: ।

तद् लभ्यते दु:खवद् अन्यत: सुखं

कालेन सर्वत्र गभीर रंहसा ॥ 18


न वै जनो जातु कथञ्चन आव्रजेत्

मुकुन्द-सेवि अन्यवद् अङ्ग संसृतिम् ।

स्मरन् मुकुन्द अङ्‌घ्रि उपगूहनं पुन:

विहातुम् इच्छेन् न रस ग्रहो जन: ॥ 19


इदं हि विश्वं भगवान् इव इतरो

यतो जग त्स्थान निरोध सम्भवा: ।

तद्धि स्वयं वेद भवां तथापि ते

प्रादेश मात्रं भवत: प्रदर्शितम् ॥ 20


त्वम् आत्मना आत्मानम्  अवेहि अमोघ द‍ृक्

परस्य पुंस: परम् आत्मन: कलाम् ।

अजं प्रजातं जगत: शिवाय तद्

महानुभाव अभ्युदय अधि गण्यताम् ॥ 21


इदं हि पुंस: तपस: श्रुतस्य वा

स्विष्टस्य सूक्तस्य च बुद्धि दत्तयो: ।

अविच्युतो अर्थ: कविभि: निरूपितो

यद् उत्तमश्लोक गुणानु वर्णनम् ॥ 22 


अहं पुरा अतीतभवे अभवं मुने

दास्यास्तु कस्याश्चन वेद वादिनाम् ।

निरूपितो बालक एव योगिनां

शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥ 23


ते मयि अपेत अखिल चापले अर्भके

दान्ते अधृत क्रीडनके अनुवर्तिनि ।

चक्रु: कृपां यद्यपि तुल्यदर्शना:

शुश्रूषमाणे मुनय अल्प भाषिणि ॥ 24


उच्छिष्ट लेपान् अनुमोदितो द्विजै:

सकृत् स्म भुञ्जे तद् अपास्त किल्बिष: ।

एवं प्रवृत्तस्य विशुद्ध चेतस:

तद् धर्म एवात्म रुचि: प्रजायते ॥ 25


तत्रान्वहं कृष्णकथा: प्रगायताम्

अनुग्रहेण अश‍ृणवं मनोहरा: ।

ता: श्रद्धया मे अनुपदं विश‍ृण्वत:

प्रियश्रवसि अङ्ग ममा अभवद् रुचि: ॥ 26


तस्मिं तदा लब्ध रुचे: महामते

प्रियश्रवसि अस्खलिता मतिर्मम ।

ययाहम् एतत् सद् असत् स्वमायया

पश्ये मयि ब्रह्मणि कल्पितं परे ॥ 27


इत्थं शरत् प्रावृषिकाव रुतू हरे:

विश‍ृण्वतो मे अनुसवं यश अमलम् ।

सङ्कीर्त्यमानं मुनिभि: महात्मभि"

भक्ति: प्रवृत्त आत्म रज: तम उपहा ॥ 28


तस्य एवं मे अनुरक्तस्य प्रश्रितस्य हत एनस: ।

श्रद्दधानस्य बालस्य दान्तस्य अनुचरस्य च ॥ 29


ज्ञानं गुह्यतमं यत्तत् साक्षाद् भगवतोदितम् । 

अन्ववोचन् गमिष्यन्त: कृपया दीन वत्सला: ॥ 30


येनैव अहं भगवतो वासुदेवस्य वेधस: । 

माया अनुभावम् अविदं येन गच्छन्ति तत्पदम् ॥ 31


एतत् संसूचितं ब्रह्मं तापत्रय चिकित्सितम् ।

यद् ईश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ 32 


आमयो यश्च भूतानां जायते येन सुव्रत ।

तदेव हि आमयं द्रव्यं न पुनाति चिकित्सितम् ॥ 33 


एवं नृणां क्रिया योगा: सर्वे संसृति हेतव: ।

त एवात्म विनाशाय कल्पन्ते कल्पिता: परे ॥ 34 


यद् अत्र क्रियते कर्म भगवत् परितोषणम् ।

ज्ञानं यत्तद् अधीनं हि भक्ति योग समन्वितम् ॥ 35


कुर्वाणा यत्र कर्माणि भगवत् छिक्षया असकृत् ।

गृणन्ति गुण नामानि कृष्णस्य अनुस्मरन्ति च ॥ 36 


ॐ नमो भगवते तुभ्यं वासुदेवाय धीमहि ।

प्रद्युम्नाय अनिरुद्धाय नम: सङ्कर्षणाय च ॥ 37


इति मूर्ति अभिधानेन मन्त्र मूर्तिम् अमूर्तिकम् ।

यजते यज्ञपुरुषं स सम्यग्दर्शन: पुमान् ॥ 38


इमं स्वनिगमं ब्रह्मन् अवेत्य मद् अनुष्ठितम् ।

अदान्मे ज्ञानम् ऐश्वर्यं स्वस्मिन् भावं च केशव: ॥ 39


त्वमपि अदभ्र श्रुत विश्रुतं विभो:

समाप्यते येन विदां बुभुत्सितम् ।

प्राख्याहि दु:खै: मुहु: अर्दित आत्मनां

सङ्‍क्लेश निर्वाणम् उशन्ति नान्यथा ॥ 40


No comments: