ருக்மிணியை கண்ணன் சீண்டுகிறான்
ஸ்கந்தம் 10: அத்யாயம் 60
श्रीशुक उवाच
कर्हिचित् सुखम् आसीनम् स्व-तल्प-स्थम् जगत्-गुरुम्।
पतिम् पर्यचरत् भैष्मी व्यजनेन सखी-जनैः ॥ १ ॥
यः तु एतत्-लीलया विश्वम् सृजति अत्ति अवति ईश्वरः।
सः हि जातः स्व-सेतूनाम् गोपी-ईथाय यदुषु अजः ॥ २ ॥
तस्मिन् अन्तः-गृहे भ्राजन् मुक्ता-दाम-विलम्बिना।
विराजिते वितानेन दीपैः मणि-मयैः अपि ॥ ३ ॥
मल्लिका-दामभिः पुष्पैः द्वि-रेफ-कुल-नादितैः।
जाल-रन्ध्र-प्रविष्टैः च गोभिः चन्द्र-मसः अमलैः ॥ ४ ॥
पारिजात-वन-आमोद- वायुना उद्यान-शालिना।
धूपैः अगुरु-जैः राजन् जाल-रन्ध्र-विनिर्गतैः ॥ ५ ॥
पयः-फेन-निभे शुभ्रे पर्यङ्के कशिपु-उत्तमे।
उपतस्थे सुख-आसीनम् जगताम् ईश्वरम् पतिम् ॥ ६ ॥
वाल-व्यजनम् आदाय रत्न-दण्डम् सखी-करात्।
तेन वीजयती देवी उपासाम्-चक्रे ईश्वरम् ॥ ७ ॥
सा उपाच्युतम् क्वणयती मणि-नूपुराभ्याम्
रेजे अङ्गुलीय-वलय-व्यजन-अग्र-हस्ता।
वस्त्र-अन्त-गूढ-कुच-कुङ्कुम-शोण-हार-
भासा नितम्ब-धृतया च परार्ध्य-काञ्च्या ॥ ८ ॥
ताम् रूपिणीम् श्रीयम् अनन्य-गतिम् निरीक्ष्य
या लीलया धृत-तनोः अनुरूप-रूपा।
प्रीतः स्मयन् अलक-कुण्डल-निष्क-कण्ठ-
वक्त्र-उल्लसत्-स्मित-सुधाम् हरिः आबभाषे ॥ ९ ॥
श्री-भगवान् उवाच
राज-पुत्री इप्सिताः भूपैः लोक-पाल-विभूतिभिः।
महा-अनुभावैः श्रीमत्भिः रूप-औदार्य-बल-उर्जितैः ॥ १० ॥
तान् प्राप्तान् अर्थिनः हित्वा चैद्य-आदीन् स्मर-दुर्मदान्।
दत्ता भ्रात्रा स्व-पित्रा च कस्मात् नः ववृषे असमान् ॥ ११ ॥
राजभ्यः बिभ्यतः सु-भ्रु समुद्रम् शरणम् गतान्।
बलवत्भिः कृत-द्वेषान् प्रायः त्यक्त-नृप-आसनान् ॥ १२ ॥
अस्पष्ट-वर्त्मनाम् पुंसाम् अलोक-पथम् ईयुषाम्।
आस्थिताः पदवीं सु-भ्रु प्रायः सीदन्ति योषितः ॥ १३ ॥
निष्किञ्चनाः वयम् शश्वत् निष्किञ्चन-जन-प्रियाः।
तस्मात् प्रायेण न हि आढ्याः माम् भजन्ति सु-मध्यमे ॥ १४ ॥
ययोः आत्म-समम् वित्तम् जन्म ऐश्वर्य आकृतिः भवः।
तयोः विवाहः मैत्री च न उत्तम-अधमयोः क्वचित् ॥ १५ ॥
वैदर्भ्यः एतत् अविज्ञाय त्वया दीर्घ-समीक्षया।
वृता वयम् गुणैः हीनाः भिक्षुभिः श्लाघिता मुधा ॥ १६ ॥
अथ आत्मनः अनुरूपम् वै भजस्व क्षत्रिय-ऋषभम्।
येन त्वम् आशिषः सत्याः इह अमुष्य च लप्स्यसे ॥ १७ ॥
चैद्य-शाल्व-जरासन्ध-दन्तवक्त्र-आदयः नृपाः।
मम द्विषन्ति वाम-उरु रुक्मी च अपि तव आग्रजः ॥ १८ ॥
तेषाम् वीर्य-मद-अन्धानाम् दृप्तानाम् स्मय अनुत्तये।
आनिता असि मया भद्रे तेजः अपहरतः असताम् ॥ १९ ॥
उदासीनाः वयम् नूनम् न स्त्री-अपत्य-अर्थ-कामुकाः।
आत्म-लब्ध्या आस्महे पूर्णाः गेहयोः ज्योतिः-अक्रियाः ॥ २० ॥
श्री-शुक उवाच –
एतावत् उक्त्वा भगवान् आत्मानं वल्लभाम् इव।
मन्यमानाम् अविश्लेषात् तत्-दर्प-घ्नः उपारमत्॥२१॥
इति त्रि-लोक-ईश-पतेः ततः आत्मनः
प्रियस्य देव्या-श्रुत-पूर्वम् अप्रियम्।
आश्रुत्य भीता हृदि जात-वेपथुः
चिन्तां दुरन्तां रुदती जगाम ह॥२२॥
पदा सुजातेन नख-अरुण-श्रिया
भुवं लिखन्ती अश्रुभिः अञ्जन-असितैः।
आसिञ्चती कुङ्कुम-रूषितौ स्तनौ
तस्थौ अधो-मुख्या अति-दुःख-रुद्ध-वाक्॥२३॥
तस्याः सुदुःख-भय-शोक-विनष्ट-बुद्धेः
हस्तात् श्लथ-द्वलयतः व्यजनं पपात।
देहः च विक्लव-धियः सहसा एव मुह्यन्
रम्भा इव वायु-विहता प्रविकीर्य केशान्॥२४॥
तत् दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेम-बन्धनम्।
हास्य-प्रौढिम् अजानन्त्याः करुणः सः अन्वकम्पत॥२५॥
पर्यङ्कात् अवरुह्य आशु ताम् उत्थाप्य चतुर्भुजः।
केशान् समुह्य तत्-वक्त्रं प्रामृजत् पद्म-पाणिना॥२६॥
प्रमृज्य अश्रु-कलं नेत्रे स्तनौ च उपहतौ शुचा।
आश्लिष्य बाहुना राजन् अनन्य-विषयां सतीम्॥२७॥
सान्त्वयामास सान्त्व-ज्ञः कृपया कृपणां प्रभुः।
हास्य-प्रौढि-भ्रमत्-चित्ताम् अतद्-अर्हां सतां गतिः॥२८॥
श्री-भगवान् उवाच –
मा मा वैदर्भि असूयथा जाने त्वां मत्-परायणाम्।
त्वत्-वचः श्रोतु-कामेन क्ष्वेल्या आचरितं अङ्गने॥२९॥
मुखं च प्रेम-संरम्भ-स्फुरित-अधरम् ईक्षितुम्।
कटाक्ष-इपारुण-अपाङ्गं सुन्दर-भ्रुकुटी-तटम्॥३०॥
अयं हि परमः लाभः गृहेषु गृह-मेधिनाम्।
यत् नर्मैः ईयते यामः प्रियया भीरु भामिनि॥३१॥
श्री-शुक उवाच –
सा एवं भगवता राजन् वैदर्भी परि-सान्त्विता।
ज्ञात्वा तत्-परिहास-उक्तिं प्रियत्-त्याग-भयं जहौ॥३२॥
बभाष ऋषभं पुंसां वीक्षन्ती भगवत्-मुखम्।
स-व्रीड-हास-रुचिर-स्निग्ध-अपाङ्गेन भारत॥३३॥
श्री-रुक्मिणी उवाच –
नु एवम् एतत् अरविन्द-विलोचन आह
यत् वै भवान् भगवतः असदृशी विभूम्नः।
क्व स्वे महिम्नि अभिरतः भगवन् त्रि-अधीशः
क्व अहं गुण-प्रकृतिः अज्ञ-गृहीत-पादा॥३४॥
सत्यं भयात् इव गुणेभ्यः उरु-क्रम-अन्तः
शेते समुद्रः उपलम्भन-मात्रः आत्मा।
नित्यम् कथम् इन्द्रिय-गणैः कृत-विग्रहः त्वम्
त्वत्-सेवकैः नृप-पदं विधुतं तमः-अन्धम्॥३५॥
त्वत्-पाद-पद्म-मकरन्द-जुषाम् मुनीनाम्
वर्त्म आस्फुटं नृप-शुभिः ननु दुर्विभाव्यम्।
यस्मात् अलौकिकम् इव इहितम् ईश्वरस्य
भूमन् तव इहितम् अथ अनु ये भवन्तम्॥३६॥
निःकिञ्चनः ननु भवान् न यतः अस्ति किञ्चित्
यस्मै बलिं बलि-भुजः अपि हरन्ति अज-आद्याः।
न त्वा विदन्ति असु-तृपः अन्तकम् आढ्य-ताः-अन्धाः
प्रेष्ठः भवान् बलि-भुजाम् अपि ते अपि तुभ्यम्॥३७॥
त्वं वै समस्त-पुरुष-अर्थ-मयः फल-आत्मा
यत् वाञ्छया सुमतयः विसृजन्ति कृत्स्नम्।
तेषां विभो समुचितः भवतः समाजः
पुंसः स्त्रियाः च रतयोः सुख-दुःखिनोः न॥३८॥
त्वं न्यस्त-दण्डम् मुनिभिः गदित-अनुभाव
आत्मा आत्मदः च जगताम् इति मे वृतः असि।
हित्वा भवत्-भ्रुवः उदीरित-काल-वेग
ध्वस्त-आशिषः अब्ज-भवन-अकपतीन् कुतः अन्ये॥३९॥
जाड्यं वचः तव गद-अग्रज यः तु भूपान्
विद्राव्य शार्ङ्ग-निनदेन जहर्थ माम् त्वम्।
सिंहः यथा स्व-बलिम् ईशः पशून् स्व-भागं
तेभ्यः भयात् यद् उदधिं शरणं प्रपन्नः॥४०॥
No comments:
Post a Comment