ஸுக ஸ்துதி
ஸ்கந்தம் 2: அத்யாயம் 4
सूत उवाच
वैयासके: इति वच: तत्त्व निश्चयम् आत्मन: ।
उपधार्य मतिं कृष्णे औत्तरेय: सतीं व्यधात् ॥
आत्म जाय सुत आगार पशु द्रविण बन्धुषु ।
राज्ये च अविकले नित्यं विरूढां ममतां जहौ ॥
पप्रच्छ च इमम् एव अर्थं यन्मां पृच्छथ सत्तमा: ।
कृष्ण अनुभाव श्रवणे श्रद्दधानो महामना: ॥
संस्थां विज्ञाय संन्यस्य कर्म त्रै वर्गिकं च यत् ।
वासुदेवे भगवति आत्म भावं दृढं गत: ॥
राजोवाच
समीचीनं वचो ब्रह्मन् सर्वज्ञस्य तव अनघ ।
तमो विशीर्यते मह्यं हरे: कथयत: कथाम् ॥
भूय एव विवित्सामि भगवान् आत्ममायया ।
यथेदं सृजते विश्वं दुर्विभाव्यम् अधीश्वरै: ॥
यथा गोपायति विभु: यथा संयच्छते पुन: ।
यां यां शक्तिम् उपाश्रित्य पुरु-शक्ति: पर: पुमान् ।
आत्मानं क्रीडयन् क्रीडन् करोति विकरोति च ॥
नूनं भगवतो ब्रह्मन् हरे: अद्भुत कर्मण: ।
दुर्विभाव्यम् इव आभाति कविभि: च अपि चेष्टितम् ॥
यथा गुणांस्तु प्रकृते: युगपत् क्रमश: अपि वा ।
बिभर्ति भूरिश: तु एक: कुर्वन् कर्माणि जन्मभि: ॥
विचिकित्सितम् एतत् मे ब्रवीतु भगवान् यथा ।
शाब्दे ब्रह्मणि निष्णात: परस्मिं च भवान् खलु ॥
सूत उवाच
इति उपामन्त्रितो राज्ञा गुण अनुकथने हरे: ।
हृषीकेशम् अनुस्मृत्य प्रतिवक्तुं प्रचक्रमे ॥
श्री शुक उवाच
नम: परस्मै पुरुषाय भूयसे
सद् उद्भव: स्थान निरोध लीलया ।
गृहीत शक्ति त्रितयाय देहिनाम्
अन्त: भवाय अनुपलक्ष्य वर्त्मने ॥
भूयो नम: सद् वृजिन: छिदे: असताम्
असम्भवाय अखिल सत्त्व मूर्तये ।
पुंसां पुन: पारमहंस्य आश्रमे
व्यवस्थितानाम् अनुमृग्य दाशुषे ॥
नमो नमस्तेस्तु ऋषभाय सात्वतां
विदूर काष्ठाय मुहु: कुयोगिनाम् ।
निरस्त साम्य अतिशयेन राधसा
स्वधामनि ब्रह्मणि रंस्यते नम: ॥
यत् कीर्तनं यत् स्मरणं यत् ईक्षणं
यत् वन्दनं यत् स्रवणं यत् अर्हणम् ।
लोकस्य सद्यो विधुनोति कल्मषं
तस्मै सुभद्र: स्रवसे नमो नम: ॥
विचक्षणा यत् चरण: उपसादनात्
सङ्गं व्युदस्य: उभयत: अन्तरात्मन: ।
विन्दन्ति हि ब्रह्मगतिं गतक्- लमा:
तस्मै सुभद्र: श्रवसे नमो नम: ॥
तपस्विनो दान परा यशस्विनो
मनस्विनो मन्त्र विद: सुमङ्गला: ।
क्षेमं न विन्दन्ति विना यत् अर्पणं
तस्मै सुभद्र श्रवसे नमो नम: ॥
किरात हूण आन्ध्र पुलिन्द पुल्कशा
आभीर शुम्भा यवना: खस आदय: ।
ये अन्ये च पापा यत् अपाश्रय आश्रया:
शुध्यन्ति तस्मै प्रभविष्णवे नम: ॥
स एष आत्मा आत्मवताम् अधीश्वर-
त्रयी मयो धर्म मय: तपो मय: ।
गत व्यलीकै: अज शङ्कर आदिभि:
वितर्क्य लिङ्गो भगवान् प्रसीदताम् ॥
श्रिय:-पति: यज्ञ-पति: प्रजा-पति:
धियां-पति: लोक-पति: धरा-पति: ।
पति: गति: च अन्धक वृष्णि सात्वतां
प्रसीदतां मे भगवान् सतां-पति: ॥
यद् अङ्घ्र्य ध्यान समाधि धौतया
धिया अनुपश्यन्ति हि तत्त्वम् आत्मन: ।
वदन्ति च एतत् कवयो यथा-रुचं
स मे मुकुन्दो भगवान् प्रसीदताम् ॥
प्रचोदिता येन पुरा सरस्वती
वितन्वता अजस्य सतीं स्मृतिं हृदि ।
स्वलक्षणा प्रादुरभूत् किल आस्यत:
स मे ऋषीणाम् ऋषभ: प्रसीदताम् ॥
भूतै: महद्भि: य इमा: पुरो विभु:
निर्माय शेते यद् अमूषु पूरुष: ।
भुङ्क्ते गुणान् षोडश षोडश आत्मक:
स अलङ्कृषीष्ट भगवान् वचांसि मे ॥
नमस्तस्मै भगवते वासुदेवाय वेधसे ।
पपु: ज्ञानमयं सौम्या यत् मुख अम्बुरुह आसवम् ॥
एतद् एव आत्म भू राजन् नारदाय विपृच्छते ।
वेद गर्भो अभ्यधात् साक्षाद् यद् आह हरि: आत्मन: ॥