Followers

Search Here...

Friday, 23 May 2025

ஸ்கந்தம் 10: அத்யாயம் 80 (ஸுதாமா துவாரகை கிளம்பினார் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

 ஸுதாமா துவாரகை

கிளம்பினார்.

ஸ்கந்தம் 10: அத்யாயம் 80

श्री-राजा उवाच
भगवन् यानि च अन्यानि मुकुन्दस्य महा-आत्मनः ।
वीर्याणि अनन्त-वीर्यस्य श्रोतुम् इच्छामहे प्रभो ॥1॥

कः नु श्रुत्वा असकृत् ब्रहन् उत्तमः-श्लोक-सत्-कथाः ।
विरमेत विशेष-ज्ञः विषण्णः काम-मार्गणैः ॥2॥

सा वाक् या या तस्य गुणान् गृणीते
करौ च तत्-कर्म-करौ मनः च ।
स्मरेत् वसन्तम् स्थिर-जङ्गमेषु
शृणोति तत्-पुण्य-कथाः सः कर्णः ॥3॥

शिरः तु तस्य उभय-लिङ्गम् आनमेत्
तत् एव यत् पश्यति तत् हि चक्षुः ।
अङ्गानि विष्णोः अथ तत्-जनानाम्
पाद-उदकम् यानि भजन्ति नित्यम् ॥4॥

सूतः उवाच —
विष्णु-रातेन सम्पृष्टः भगवान् बादरायणिः ।
वासुदेवे भगवति निमग्न-हृदयः अब्रवीत् ॥5॥

श्री-शुकः उवाच —
कृष्णस्य आसीत् सखा कश्चित् ब्राह्मणः ब्रह्म-वित्तमः ।
विरक्तः इन्द्रिय-अर्थेषु प्रशान्त-आत्मा जित-इन्द्रियः ॥6॥

यदृच्छया उपपन्नेन वर्तमानः गृह-आश्रमी ।
तस्य भार्या कुचैलस्य क्षुत्-क्षामा च तथा-विदा ॥7॥

पति-व्रता पतिम् प्राह म्लायता वदनेन सा ।
दरिद्रा सीदमाना सा वेपमाना अभिगम्य च ॥8॥

नु ब्रहन् भगवतः सखा साक्षात् श्रियः पतिः ।
ब्रह्मण्यः च शरण्यः च भगवान् सात्वत-ऋषभः ॥9॥

तम् उपैहि महा-भाग साधूनाम् च परायणम् ।
दास्यति द्रविणम् भूरि सीदते ते कुटुम्बिने ॥10॥

आस्ते अधुना द्वारवत्याम् भोज-वृष्णि-अन्धक-ईश्वरः ।
स्मरतः पाद-कमलम् आत्मानम् अपि यच्छति ।
किम् नु अर्थ-कामान् भजतः न अति-अभीष्टान् जगत्-गुरुः ॥11॥

सः एवम् भार्यया विप्रः बहुशः प्रार्थितः मृदु ।
अयम् हि परमः लाभः उत्तम-श्लोक-दर्शनम् ॥12॥

इति सञ्चिन्त्य मनसा गमनाय मतिम् दधे ।
अपि अस्ति उपायनम् किञ्चित् गृहे कल्याणि दीयताम् ॥13॥

याचित्वा चतुरः मुष्टीन् विप्रान् पृथुक-तण्डुलान् ।
चैल-खण्डेन तान् बद्ध्वा भर्त्रे प्रादात् उपायनम् ॥14॥

सः तान् आदाय विप्र-अग्र्यः प्रययौ द्वारकाम् किल ।
कृष्ण-सन्दर्शनम् मम कथम् स्यात् इति चिन्तयन् ॥15॥

त्रीणि गुल्मानि अतीत्य तिस्रः कक्षाः च सः द्विजः ।
विप्रः अगम्य अन्धक-वृष्णीनाम् गृहेषु अच्युत-धर्मिणाम् ॥16॥

गृहम् द्वि-अष्ट-सहस्राणाम् महिषीणाम् हरेः द्विजः ।
विवेश एकतमम् श्रीमत् ब्रह्म-आनन्दम् गतः यथा ॥17॥

तम् विलोक्य अच्युतः दूरात् प्रिया-पर्यङ्कम् आस्थितः ।
सहसा उत्थाय च अभ्येत्य दोर्भ्याम् पर्यग्रहीत् मुदा ॥18॥

सख्युः प्रियस्य विप्र-ऋषेः अङ्ग-सङ्गात् निर्वृतः ।
प्रीतः व्यमुञ्चत् अम्बु-बिन्दून् नेत्राभ्याम् पुष्कर-ईक्षणः ॥19॥

अथ उपवेश्य पर्यङ्के स्वयम् सख्युः समर्हणम् ।
उपहृत्य अवनिज्य आस्य पादौ पाद-अवनेजनी ॥20॥

अग्रहीत् शिरसा राजन् भगवन् लोक-पावनः ।
विलिम्पत् दिव्य-गन्धेन चन्दन-अगुरु-कुङ्कमैः ॥21॥

धूपैः सुरभिभिः मित्रम् प्रदीप-आवलिभिः मुदा ।
अर्चित्वा आवेद्य ताम्बूलम् गाम् च स्वागतम् अब्रवीत् ॥22॥

कुचैलम् मलिनम् क्षामम् द्विजम् धमनि-संततम् ।
देवी पर्यचरत् साक्षात् चामर-व्यजनेन वै ॥23॥

अन्तःपुर-जनः दृष्ट्वा कृष्णेन अमल-कीर्तिना ।
विस्मितः अभूत् अति-प्रीत्या अवधूतम् सभाजितम् ॥24॥

किम् अनेन कृतम् पुण्यम् अवधूतेन भिक्षुणा ।
श्रिया हीनेन लोके अस्मिन् गर्हितेन अधमेन च ॥25॥

यः असौ त्रि-लोक-गुरुणा श्री-निवासेन सम्भृतः ।
पर्यङ्क-स्थाम् श्रियम् हित्वा परिष्वक्तः अग्रजः यथा ॥26॥

कथयन् चक्रतुः गाथाः पूर्वाः गुरुकुले सतः ।
आत्मनः ललिताः राजन् करौ गृह्य परस्परम् ॥27॥

श्री-भगवान् उवाच —
अपि ब्रहन् गुरुकुलात् भवता लब्ध-दक्षिणात् ।
समावृत्तेन धर्म-ज्ञ भार्या उढा सदृशी न वा ॥28॥

प्रायः गृहेषु ते चित्तम् अकाम-विहितम् तथा ।
न एव अति-प्रीयसे विद्वन् धनेषु विदितम् हि मे ॥29॥

केचित् कुर्वन्ति कर्माणि कामैः अहत-चेतसः ।
त्यजन्तः प्रकृतिः दैवीः यथा अहम् लोक-सङ्ग्रहम् ॥30॥

कच्चित् गुरुकुले वासम् ब्रहन् स्मरसि नः यतः ।
द्विजः विज्ञाय विज्ञेयं तमसः पारम् अश्नुते ॥31॥

सः वै सत्कर्मणाम् साक्षात् द्विजातेः इह सम्भवः ।
आद्यः अङ्गः यत्र आश्रमिणाम् यथा अहम् ज्ञानदः गुरुः ॥32॥

नु अर्थ-कोविदाः ब्रहन् वर्ण-आश्रमवताम् इह ।
ये मया गुरुणा वाचा तरन्ति अञ्जः भव-अर्णवम् ॥33॥

न अहम् इज्या-प्रजातिभ्याम् तपसा उपशमेन वा ।
तुष्येयम् सर्व-भूत-आत्मा गुरु-शुश्रूषया यथा ॥34॥

अपि नः स्मर्यते ब्रहन् वृत्तम् निवसताम् गुरौ ।
गुरु-दारैः च उदितानाम् इन्धन-आयने क्वचित् ॥35॥

प्रविष्टानाम् महाअरण्यम् अपर्तौ सुमहत् द्विज ।
वात-वर्षम् अभूत् तीव्रम् निष्ठुराः स्तनयित्नवः ॥36॥

सूर्यः च अस्तम् गतः तावत् तमसा च आवृता दिशः ।
निम्नम् कूलम् जल-मयम् न प्राज्ञायत किञ्चन ॥37॥

वयम् भृशम् तत्र महा-अनिल-अम्बुभिः
निहन्यमानाः मुहुः अम्बु-सम्प्लवे ।
दिशः अविदन्तः अथ परस्परम् वने
गृहीत-हस्ताः परिबभ्रिम आतुराः ॥38॥

एतत् विदित्वा उदिते रवौ सान्दीपनिः गुरुः ।
अन्वेषमाणः नः शिष्यन् आचार्यः अपश्यत् आतुरान् ॥39॥

अहो हे पुत्रकाः यूयम् अस्मत्-अर्थे अति-दुःखिताः ।
आत्मा वै प्राणिनाम् प्रेष्ठः तम् अनादृत्य मत्-पराः ॥40॥

एतत् एव हि सत्-शिष्यैः कर्तव्यम् गुरु-निष्कृतम् ।
यत् वै विशुद्ध-भावेन सर्व-अर्थ-आत्म-अर्पणम् गुरौ ॥41॥

तुष्टः अहम् भोः द्विज-श्रेष्ठाः सत्याः सन्तु मनोरथाः ।
छन्दांसि अयात-यामानि भवन्तु इह परत्र च ॥42॥

इत्थम् विधानि अनेकानि वसताम् गुरु-वेश्मसु ।
गुरोः अनुग्रहेण एव पुमान् पूर्णः प्रशान्तये ॥43॥

श्री-ब्राह्मणः उवाच —
किम् अस्माभिः अनिर्वृत्तम् देव-देव जगत्-गुरो ।
भवता सत्य-कामेन येषाम् वासः गुरौ अभूत् ॥44॥

यस्य छन्दः-मयम् ब्रह्म देह आवपनम् विभो ।
श्रेयसाम् तस्य गुरुषु वासः अत्यन्त-विडम्बनम् ॥45॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे श्रीदामचरिते अशीतितमोऽध्यायः ॥८०॥


No comments: