வராஹ ஸ்துதி
ஸ்கந்தம் 3: அத்யாயம் 13
श्रीशुक उवाच
निशम्य वाचं वदतो मुने: पुण्यतमां नृप ।
भूय: पप्रच्छ कौरव्यो वासुदेव कथा आदृत: ॥ 1
विदुर उवाच
स वै स्वायम्भुव: सम्राट् प्रिय: पुत्र: स्वयम्भुव: ।
प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने ॥ 2
चरितं तस्य राजर्षे आदिराजस्य सत्तम ।
ब्रूहि मे श्रद्दधानाय विष्वक्सेन आश्रयो हि असौ ॥ 3
श्रुतस्य पुंसां सुचिर श्रमस्य
ननु अञ्जसा सूरिभि: इडित: अर्थ: ।
तत्तद् गुण अनुश्रवणं मुकुन्द-
पादारविन्द हृदयेषु येषाम् ॥ 4
श्रीशुक उवाच
इति ब्रुवाणं विदुरं विनीतं
सहस्र-शीर्ष्ण: चरण उपधानम् ।
प्रहृष्ट रोमा भगवत्कथायां
प्रणीयमानो मुनि: अभ्यचष्ट ॥ 5
मैत्रेय उवाच
यदा स्व-भार्यया सार्धं जात: स्वायम्भुवो मनु: ।
प्राञ्जलि: प्रणत: च इदं वेद-गर्भम् अभाषत ॥ 6
त्वमेक: सर्वभूतानां जन्मकृद् वृत्तिद: पिता ।
तथापि न: प्रजानां ते शुश्रूषा केन वा भवेत् ॥ 7
तद् विधेहि नमस्तुभ्यं कर्मसु ईड्य आत्म-शक्तिषु ।
यत्कृत्वा इह यशो विष्वग् अमुत्र च भवेद्-गति: ॥ 8
ब्रह्मोवाच
प्रीत: तुभ्यम् अहं तात स्वस्ति स्ताद् वां क्षिती-ईश्वर ।
यत् निर्व्य-लीकेन हृदा शाधि मा इति आत्मना अर्पितम् ॥ 9
एतावति आत्मजै: वीर कार्या हि अपचिति: गुरौ ।
शक्त्या अप्रमत्तै: गृह्येत स-आदरं गत-मत्सरै: ॥ 10
स त्वम् अस्याम् अपत्यानि सदृशानि आत्मनो गुणै: ।
उत्पाद्य शास धर्मेण गां यज्ञै: पुरुषं यज ॥ 11
परम् शुश्रूषणं मह्यम् स्यात् प्रजा रक्षया नृप ।
भगवान् ते प्रजा-भतु: हृषीकेशः अनु-तुष्यति ॥ 12
येषां न तुष्टो भगवान् यज्ञलिङ्गो जनार्दन: ।
तेषां श्रमो हि अपार्थाय यदात्मा न अदृत: स्वयम् ॥ 13
मनुर् उवाच
आदेशे अहं भगवतो वर्तेय अमीव सूदन ।
स्थानं तु इह अनुजानीहि प्रजानां मम च प्रभो ॥ 14
यद् ओक: सर्वभूतानां मही मग्ना महा अम्भसि ।
अस्या उद्धरणे यत्नो देव देव्या विधीयताम् ॥ 15
मैत्रेय उवाच
परमेष्ठी तु अपां मध्ये तथा सन्नाम् अवेक्ष्य गाम् ।
कथम् एनां समुन्नेष्य इति दध्यौ धिया चिरम् ॥ 16
सृजतो मे क्षिति: वार्भि:प्लाव्यमाना रसां गता ।
अथ अत्र किम् अनुष्ठेयम् अस्माभि: सर्ग योजितै: ।
यस्याहं हृदयाद् आसं स ईशो विदधातु मे ॥ 17
इति अभिध्यायतो नासा विवरात्स हसानघ ।
वराह तोको निरगाद अङ्गुष्ठ परिमाणक: ॥ 18
तस्य अभिपश्यत: खस्थ: क्षणेन किल भारत ।
गज-मात्र: प्रववृधे तद् अद्भुतम् अभूत् महत् ॥ 19
मरीचि प्रमुखै र्विप्रै: कुमारै: मनुना सह ।
हृष्ट्वा तत् सौकरं रूपं तर्कयामास चित्रधा ॥ 20
किम् एतत् सूकर व्याजं सत्त्वं दिव्यम् अवस्थितम् ।
अहो बत आश्चर्यम् इदं नासाया मे विनि:सृतम् ॥ 21
दृष्टो अङ्गुष्ठ शिरो मात्र: क्षणाद् गण्ड-शिला-सम: ।
अपि स्विद् भगवानेष यज्ञो मे खेदयन् मन: ॥ 22
इति मीमांसत: तस्य ब्रह्मण: सह सूनुभि: ।
भगवान् यज्ञ-पुरुषो जगर्ज अगेन्द्र सन्निभ: ॥ 23
ब्रह्माणं हर्षयाम् आस हरिस्तांश्च द्विज उत्तमान् ।
स्व-गर्जितेन ककुभ: प्रतिस्वनयता विभु: ॥ 24
निशम्य ते घर्घरितं स्व-खेद
क्षयिष्णु माया मय सूकरस्य ।
जन: तप:सत्य निवासिन: ते
त्रिभि: पवित्रै: मुनयो अगृणन् स्म ॥ 25
तेषां सतां वेद वितान मूर्ति:
र्ब्रह्म अवधार्य आत्म गुण अनुवादम् ।
विनद्य भूयो विबुध उदयाय
गजेन्द्र लीलो जलम् आविवेश ॥ 26
उत्क्षिप्त-वाल: ख-चर: कठोर:
सटा विधुन्वन् खर रोमशत्वक् ।
खुर आहत अभ्र: सित-दंष्ट्र ईक्षा-
ज्योति: बभासे भगवान् महीध्र: ॥ 27
घ्राणेन पृथ्व्या: पदवीं विजिघ्रन्
क्रोड अपदेश: स्वयम् अध्वर अङ्ग: ।
कराल दंष्ट्रो अपि अकराल दृग्भ्याम्
उद्वीक्ष्य विप्रान् गृणतो अविशत् कम् ॥ 28
स वज्र कूट अङ्ग निपात.वेग
विशीर्ण कुक्षि: स्तनयन् उदन्वान् ।
उत्सृष्ट दीर्घ उर्मि भुजैरिव आर्त:
चुक्रोश यज्ञेश्वर पाहि मेति ॥ 29
खुरै: क्षुरप्रै: दरयन् तद् आप:
उत्पार-पारं त्रिपरू रसायाम् ।
ददर्श गां तत्र सुषुप्सु: अग्रे
यां जीव-धानीं स्वयम् अभ्य धत्त ॥ 30
स्व-दंष्ट्रयो उद्धृत्य महीं निमग्नां
स उत्थित: संरुरुचे रसाया: ।
तत्रापि दैत्यं गदया आपतन्तं
सुनाभ सन्दीपित तीव्र मन्यु: ॥ 31
जघान रुन्धानम् असह्य विक्रमं
स लीलया इभं मृग-राड इव अम्भसि ।
तद्-रक्त पङ्क-अङ्कित गण्ड तुण्डो
यथा गजेन्द्रो जगतीं विभिन्दन् ॥ 32
तमाल नीलं सित दन्त कोट्या
क्ष्माम् उत्क्षिपन्तं गज-लीलया अङ्ग ।
प्रज्ञाय बद्ध अञ्जलयो अनुवाकै:
र्विरिञ्चि मुख्या उपतस्थु: ईशम् ॥ 33
ऋषय ऊचु:
जितं जितं ते अजित यज्ञ-भावन
त्रयीं तनुं स्वां परिधुन्वते नम: ।
यद् रोम गरेर्षु निलिल्यु: अद्धय:
तस्मै नम: कारण सूकराय ते ॥ 34
रूपं तवैतद् ननु दुष्कृत आत्मनां
दुर्दर्शनं देव यद् अध्वरात्मकम् ।
छन्दांसि यस्य त्वचि बर्हि रोमसु
आज्यं दृशि तु अङ्घ्रिषु चातु: होत्रम् ॥ 35
स्रक् तुण्ड आसीत् स्रुव ईश नासयो:
इडा उदरे चमसा: कर्ण रन्ध्रे ।
प्राशित्रम् आस्ये ग्रसने ग्रहास्तु ते
यत् चर्वणं ते भगवन् अग्नि होत्रम् ॥ 36
दीक्षा अनुजन्म उपसद: शिरोधरं
त्वं प्राय-णीय उदय-नीय दंष्ट्र: ।
जिह्वा प्रवर्ग्य: तव शीर्षकं क्रतो:
सत्य आवसथ्यं चितयो असवो हि ते ॥ 37
सोम: तु रेत: सवनानि अवस्थिति:
संस्था विभेदा: तव देव धातव: ।
सत्राणि सर्वाणि शरीर सन्धि:
त्वम् सर्वयज्ञ क्रतु: इष्टि बन्धन: ॥ 38
नमो नमस्ते अखिल मन्त्र देवता
द्रव्याय सर्व क्रतवे क्रिय आत्मने ।
वैराग्य भक्त्या आत्म-जय-अनुभावित
ज्ञानाय विद्या-गुरवे नमो नम: ॥ 39
दंष्ट्र अग्र कोट्या भगवं त्वया धृता
विराजते भूधर भू: सभूधरा ।
यथा वनान् नि:सरतो दता धृता
मतङ् गजेन्द्रस्य सपत्र पद्मिनी ॥ 40
त्रयी-मयं रूपमिदं च सौकरं
भू-मण्डलेन अथ दता धृतेन ते ।
चकास्ति शृङ्गोढ घनेन भूयसा
कुलाचल इन्द्रस्य यथैव विभ्रम: ॥ 41
संस्थापय एनां जगतां स-तस्थुषां
लोकाय पत्नीमसि मातरं पिता ।
विधेम च अस्यै नमसा सह त्वया
यस्यां स्वतेजो अग्निम् इव अरणि अवधा: ॥ 42
क: श्रद्दधीत अन्यतम: तव प्रभो
रसां गताया भुव उद्वि-बर्हणम् ।
न विस्मयो असौ त्वयि विश्व विस्मये
यो माययेदं ससृजे अति-विस्मयम् ॥ 43
विधुन्वता वेदमयं निजं वपु:
जन: तप:सत्य निवासिनो वयम् ।
सटा शिख उद्धूत शिव अम्बु बिन्दुभि:
विमृज्यमाना भृशम् ईश पाविता: ॥ 44
स वै बत भ्रष्ट मति: तवैषते
य: कर्मणां पारम् अपार कर्मण: ।
यद् योग माया गुण योग मोहितं
विश्वं समस्तं भगवन् विधेहि शम् ॥ 45
मैत्रेय उवाच
इति उपस्थीय-मानो असौ मुनिभि: ब्रह्म वादिभि: ।
सलिले स्व-खुर-आक्रान्त उपाधत्त अविता वनिम् ॥ 46
स इत्थं भगवान् उर्वीं विष्वक्सेन: प्रजापति: ।
रसाया लीलया उन्नीताम् अप्सु न्यस्य ययौ हरि: ॥ 47
य एवमेतां हरि-मेधसो हरे: ।
कथां सुभद्रां कथनीय-मायिन: ।
शृण्वीत भक्त्या श्रवयेत वा उशतीं
जनार्दनो अस्याशु हृदि प्रसीदति ॥ 48
तस्मिन् प्रसन्ने सकल आशिषां प्रभौ
किं दुर्लभं ताभि: अलं लव आत्मभि: ।
अनन्य दृष्टया भजतां गुह आशय:
स्वयं विधत्ते स्वगतिं पर: पराम् ॥ 49
को नाम लोके पुरुषार्थ सारवित्
पुरा-कथानां भगवत् कथा सुधाम् ।
आपीय कर्ण-अञ्जलिभि: भव अपहाम्
अहो विरज्येत विना नरेतरम् ॥ 50
No comments:
Post a Comment