துரியோதனன்
அடைந்த அவமானம்
ஸ்கந்தம் 10: அத்யாயம் 75
श्री राज उवाच
अजातशत्रो: तं दृष्ट्वा राजसूय-महोदयम्।
सर्वे मुमुदिरे ब्रह्मन् नृ-देवा: ये समागताः ॥1॥
दुर्योधनम् वर्जयित्वा राजान: स-ऋषय: सुरा:।
इति श्रुतं न: भगवन् तत्र कारणम् उच्यताम् ॥2॥
ऋषि: उवाच
पितामहस्य ते यज्ञे राजसूये महात्मन:।
बान्धवाः परिचर्यायाम् तस्य आसन् प्रेम-बंधनाः ॥3॥
भीम: महानस-अध्यक्ष: धन-अध्यक्ष: सुयोधन:।
सहदेव: तु पूजायाम् नकुल: द्रव्य-साधने ॥4॥
गुरु-शुश्रूषणे जिष्णु: कृष्ण: पाद-अवनेजने।
परिवेषणे द्रुपदजा कर्ण: दाने महा-मनाः ॥5॥
युयुधान: विकर्ण: च हार्दिक्य: विदुर-आदयः।
बाह्लीक-पुत्रा: भूर्य-आद्याः ये च सन्तर्दन-आदयः ॥6॥
निरूपिता: महा-यज्ञे नाना-कर्मसु ते तदा।
प्रवर्तन्ते स्म राजेन्द्र राज्ञ: प्रिय-चिकीर्षव: ॥7॥
ऋत्विक्-सदस्य-बहु-वित्सु सुहृत्-तमेषु
स्विष्टेषु सूनृत-समर्हण-दक्षिणाभि:।
चैद्ये च सात्वत-पते: चरणम् प्रविष्टे
चक्रु: तत: तु अवभृथ-स्नपनम् द्यु-नद्याम् ॥8॥
मृदङ्ग-शङ्ख-पणव-धुन्धुर्य-आनक-गोमुखाः।
वादित्राणि विचित्राणि नेदु: अवभृथ-उत्सवे ॥9॥
नर्तक्य: ननृतु: हृष्टा: गायका: यूथश: जगु:।
वीणा-वेणु-तल-उन्नाद: तेषाम् स दिवम् अस्पृशत् ॥10॥
चित्र-ध्वज-पताका-अग्रै: इभ-इन्द्र-स्यन्दन-अर्वभि:।
स्व-अलङ्कृतै: भटै: भूपा: निर्ययु: रुक्म-मालिन: ॥11॥
यदु-सृञ्जय-काम्बोज-कुरु-केकय-कोशलाः।
कम्पयन्त: भुवम् सैन्यै: यजमान-पुर:सराः ॥12॥
सदस्य-ऋत्विक्-द्विज-श्रेष्ठा: ब्रह्म-घोषेण भूयसा।
देव-ऋषि-पितृ-गन्धर्वा: तुष्टुवु: पुष्प-वर्षिण: ॥13॥
स्व-अलङ्कृता: नराः नार्य: गन्ध-स्रक्-भूषण-अम्बरै:।
विलिम्पन्त्य: अभिषिञ्चन्त्य: विजह्रु: विविधै: रसै: ॥14॥
तैल-गोरस-गन्ध-उद हरिद्रा-सान्द्र-कुंकुमै:।
पुम्भि: लिप्ता: प्रलिंपन्त्य: विजह्रु: वार-योषितः ॥15॥
गुप्ता: नृभि: निरगमन् उपलब्धुम् एतत्
देव्य: यथा दिवि विमान-वरै: नृ-देव्य:।
ता: मातुलेय-सखिभि: परिषिच्यमानाः
स-व्रीड-हास-विकसत्-वदना विरेजुः ॥16॥
ता: देवरान् उत सखीन् सिषिचु: दृतीभि:
क्लिन्न-अम्बराः विवृत-गात्र-कुच-ऊरु-मध्याः।
औत्सुक्य-मुक्त-कबरा: च्यवमान-माल्याः
क्षोभम् दधु: मलधिया: रुचिरै: विहारै: ॥17॥
स सम्राट् रथम् आरूढ: स-अश्वम् रुक्म-मालिनम्।
व्यरोचत स्व-पत्नीभि: क्रियाभि: क्रतुराट् इव ॥18॥
पत्नी-संयाज-अवभृथ्यै: चरित्वा ते तम् ऋत्विजः।
आचान्तम् स्नापयाञ्चक्रु: गङ्गायाम् सह कृष्णया ॥19॥
देव-दुन्दुभय: नेदु: नर-दुन्दुभिभि: समम्।
मुमुचु: पुष्प-वर्षाणि देव-ऋषि-पितृ-मानवाः ॥20॥
सस्नु: तत्र तत: सर्वे वर्ण-आश्रम-युता: नराः।
महा-पातक्य: अपि यत: सद्य: मुच्येत किल्बिषात् ॥21॥
अथ राजा अहते क्षौमे परिधाय स्व-अलङ्कृत:।
ऋत्विक्-सदस्य-विप्र-आदीन् अनर्च आभरण-अम्बरै: ॥22॥
बन्धु-ज्ञाति-नृपान् मित्र-सुहृद: अन्यांश् च सर्वश:।
अभीक्ष्णम् पूजयामास नारायण-पर: नृप: ॥23॥
सर्वे जनाः सुर-रुच: मणि-कुण्डल-स्रक्
उष्णीष-कञ्चुक-दुकूल-महा-अर्घ्य-हाराः।
नार्यश् च कुण्डल-युग-आलक-वृन्द-जुष्ट-
वक्त्र-श्रिय: कनक-मेखलया विरेजुः ॥24॥
अथ ऋत्विज: महा-शीलाः सदस्या: ब्रह्मवादिन:।
ब्रह्म-क्षत्रिय-विट्-शूद्रा: राजान: ये समागताः ॥25॥
देव-ऋषि-पितृ-भूतानि लोक-पालाः सह अनुगा:।
पूजिता: तम् अनुज्ञाप्य स्व-धामानि ययु: नृप ॥26॥
हरिदासस्य राजर्षे: राजसूय-महोदयम्।
न एव अत्रप्यन् प्रशंसन्त: पिबन् मर्त्य: अमृतम् यथा ॥27॥
तत: युधिष्ठिर: राजा सुहृत्-सम्बन्धि-बान्धवान्।
प्रेम्णा निवारयामास कृष्णम् च त्याग-कातर: ॥28॥
भगवान् अपि तत्र अङ्ग न्यवात्सीत् तत्-प्रिय-अङ्कर:।
प्रस्थाप्य यदु-वीरान् च साम्ब-आदीन् च कुशस्थलीम् ॥29॥
इत्थम् राजा धर्म-सुत: मनोरथ-महा-अर्णवम्।
सुदुस्तरम् समुत्तीर्य कृष्णेन आसीत् गत-ज्वर: ॥30॥
एक-दान्त-अपुरे तस्य वीक्ष्य दुर्योधन: श्रियम्।
अतप्यत् राजसूयस्य महत्त्वम् च अच्युत-आत्मन: ॥31॥
यस्मिन् नरेन्द्र-दिति-इन्द्र-सुर-इन्द्र-लक्ष्मी:
नाना विभान्ति किल विश्व-सृज-उपकॢप्ताः।
ताभि: पतीन् द्रुपद-राज-सुता उपतस्थे
यस्याम् विषक्त-हृदय: कुरु-राट् अतप्यत् ॥32॥
यस्मिन् तदा मधु-पते: महिषी-सहस्रं
श्रोणी-भरेण शनकै: क्वणत्-अङ्घ्रि-शोभम्।
मध्ये सु-चारु-कुच-कुङ्कुम-शोण-हारम्
श्रीमान्-मुखं प्रचल-कुण्डल-कुन्तल-आढ्यम् ॥33॥
सभायाम् मय-कल्प्तायाम् क्वापि धर्म-सुत: अधिराट्।
वृत: अनुजै: बन्धुभि: च कृष्णेन अपि स्व-चक्षुषा ॥34॥
आसीन: काञ्चने साक्षात् आसने मघवान् इव।
पारमेष्ठ्य-श्रिया जुष्ट: स्तूयमान: च वन्दिभि: ॥35॥
तत्र दुर्योधन: मानी परीतः भ्रातृभि: नृप।
किरीट-माली न्यविशत् असि-हस्त: क्षिपन् रुषा ॥36॥
स्थले अभ्यगृह्णात् वस्त्र-अन्तम् जलम् मत्वा स्थले अपतत्।
जले च स्थलवत् भ्रान्त्या मय-माया-विमोहित: ॥37॥
जहास भीम: तम् दृष्ट्वा स्त्रिय: नृपतय: अपरे।
निवार्यमाणा: अपि अङ्ग राज्ञा कृष्ण-अनुमोदिताः ॥38॥
स व्रीडित: अवाक्-वदन: रुषा ज्वलन्
निष्क्रम्य तूष्णीं प्रययौ गज-अह्वयम्।
हाहेति शब्द: सुमहान् अभूत् सताम्
अजात-शत्रु: विमनाः इव अभवत्।
बभूव तूष्णीं भगवान् भुव: भरम्
समुज्जिहीर्षु: भ्रमति स्म यत् दृशा ॥39॥
एतत् ते अभिहितं राजन् यत् पृष्ट: अहम् इह त्वया।
सुयोधनस्य दौ:आत्म्यम् राजसूये महा-क्रतौ ॥40॥
No comments:
Post a Comment