பலி சக்கரவர்த்தி மேல் உலகங்களை கைப்பற்றினான்
ஸ்கந்தம் 8: அத்யாயம் 15
श्रीराजा उवाच।
बलेः पद-त्रयम् भूमेः कस्मात् हरिः अयाचत।
भूत्वा ईश्वरः कृपण-वल्ल-लभ्त-अर्थः अपि बबन्ध तम्॥ 1॥
एतत् वेदितुम् इच्छामः महत् कौतूहलम् हि नः।
यज्ञ-ईश्वरस्य पूर्णस्य बन्धनम् च अपि अनागसः॥ 2॥
श्रीशुक उवाच।
पराजित-श्रीः असुभिः च हापितः
हि इन्द्रेण राजन् भृगुभिः सः जीवितः।
सर्व-आत्मना तान् अभजत् भृगून् बलिः
शिष्यः महात्मा अर्थ-निवेदनेन॥ 3॥
तम् ब्राह्मणाः भृगवः प्रीयमाणाः
अयाजयन् विश्वजिता त्रिणाकम्।
जिगीषमाणम् विधिना अभिषिच्य
महा-अभिषेकेण महा-अनुभावाः॥ 4॥
ततः रथः काञ्चन-पट्ट-नद्धः
हयाः च हर्यश्व-तुरङ्ग-वर्णाः।
ध्वजः च सिंहेन विराजमानः
हुताशनात् आस हविः-भिः इष्टात्॥ 5॥
धनुः च दिव्यम् पुरट-उपनद्धम्
तूण-अवरिक्तौ कवचम् च दिव्यम्।
पितामहः तस्य ददौ च माला-
अम्लान-पुष्पाम् जलजम् च शुक्रः॥ 6॥
एवम् सः विप्र-अर्जित-योधन-अर्थः
तैः कल्पित-स्वस्त्य-यनः अथ विप्रान्।
प्रदक्षिणीकृत्य कृत-प्रणामः
प्रह्लादम् आमन्त्र्य नमः चकार॥ 7॥
अथ आरुह्य रथम् दिव्यम् भृगु-दत्तम् महा-रथः।
सुस्रक्-धरः अथ संनह्य धन्वी खड्गी धृते-षुधिः॥ 8॥
हेम-अङ्ग-दल-सत्-बाहुः स्फुरन्-मकर-कुण्डलः।
रराज रथम् आरूढः धिष्ण्य-अस्थ इव हव्य-वाट्॥ 9॥
तुल्य-ऐश्वर्य-बल-श्रीभिः स्व-यूथैः दैत्य-यूथ-पैः।
पिबद्भिः इव खम् दृग्भिः दहद्भिः परिधीन् इव॥ 10॥
वृतः विकर्षन् महतीम् आसुरीम् ध्वजिनीम् विभुः।
ययौ इन्द्र-पुरीम् स्वृद्धाम् कम्पयन् इव रोदसी॥ 11॥
रम्याम् उपवन-उद्यानैः श्रीमत्-भिः नन्दन-आदिभिः।
कूजत्-विहङ्ग-मिथुनैः गायन्-मत्त-मधु-व्रतैः॥ 12॥
प्रवाल-फल-पुष्प-उरु-भार-शाखा-अमर-द्रुमैः।
हंस-सारस-चक्राह्व-कारण्डव-कुल-आकुलाः।
नलिन्यः यत्र क्रीडन्ति प्रमदाः सुर-सेविताः॥ 13॥
आकाश-गङ्गया देव्या वृताम् परिखा-भूतया।
प्राकार-एण अग्नि-वर्णेन साट्टालेन उन्नतेन च॥ 14॥
रुक्म-पट्ट-कपाटैः च द्वारैः स्फटिक-गोपुरैः।
जुष्टाम् विभक्त-प्रपथाम् विश्वकर्म-विनिर्मिताम्॥ 15॥
सभा-चत्वर-रथ्या-आढ्याम् विमानैः न्यर्बुदैः युताम्।
शृङ्गाटकैः मणि-मयैः वज्र-विद्रुम-वेदिभिः॥ 16॥
यत्र नित्य-वयः-रूपाः श्यामाः विरज-वससः।
भ्राजन्ते रूपवत्-नार्यः हि अर्चिः-भिः इव वह्नयः॥ 17॥
सुर-स्त्री-केश-विभ्रष्ट नव-सौगन्धिक-स्रजाम्।
यत्र आमोदम् उपादाय मार्गे आवाति मारुतः॥ 18॥
हेम-जाल-आक्ष-निर्गच्छत्-धूमेन अगुरु-गन्धिना।
पाण्डुरेण प्रतिच्छन्नम् मार्गे यान्ति सुर-प्रियाः॥ 19॥
मुक्ता-वितानैः मणि-हेम-केतुभिः
नाना-पताका-वलभी-भिः आवृताम्।
शिखण्डि-पारावत-भृङ्ग-नादिताम्
वैमानिक-स्त्री-कल-गीतम् मङ्गलाम्॥ 20॥
मृदङ्ग-शङ्ख-अनक-दुन्दुभि-स्वनैः
स-ताल-वीणा-मुरज-अर्ष्टि-वेणुभिः।
नृत्यैः स-वाद्यैः उपदेव-गीतकैः
मनोरमाम् स्व-प्रभया जित-प्रभाम् ॥ 21 ॥
याम् न व्रजन्ति अधर्मिष्ठाः खलाः भूत-द्रुहः शठाः।
मानिनः कामिनः लुब्धाः एभिः हीनाः व्रजन्ति यत् ॥ 22 ॥
ताम् देव-धानीम् सः वरूथिनी-पतिः
बहि: समन्तात् रुरुधे पृतन्यया।
आचार्य-दत्तम् जलजम् महा-स्वनम्
दध्मौ प्रयुञ्जन् भयम् इन्द्र-योषिताम् ॥ 23 ॥
मघवान् तम् अभिप्रेत्य बलेः परमम् उद्यमम्।
सर्व-देव-गण-उपेतः गुरुम् एतत् उवाच ह ॥ 24 ॥
भगवन् उद्यमः भूयान् बलेः नः पूर्व-वैरणः।
अविषह्यम् इमम् मन्ये केन आसीत् तेजसा-उर्जितः ॥ 25 ॥
न एनम् कश्चित् कुतः वा अपि प्रति-व्योढुम् अधीश्वरः।
पिबन् इव मुखेन इदम् लिहन् इव दिशः दश।
दहन् इव दिशः दृग्भिः संवर्त-अग्निः इव उत्थितः ॥ 26 ॥
ब्रूहि कारणम् एतस्य दुर्धर्षत्वस्य मद्-रिपोः।
ओजः सहः बलम् तेजः यत् एतत् समुद्यमः ॥ 27 ॥
श्री-गुरुः उवाच।
जानामि मघवन् शत्रोः उन्नतेः अस्य कारणम्।
शिष्याय उपभृतम् तेजः भृगुभिः ब्रह्म-वादिभिः ॥ 28 ॥
भवत्-विधः भवान् वा अपि वर्जयित्वा ईश्वरम् हरिम्।
न अस्य शक्तः पुरः स्थातुम् कृतान्तस्य यथा जनाः ॥ 29 ॥
तस्मात् निलयम् उत्सृज्य यूयम् सर्वे त्रिविष्टपम्।
यात कालम् प्रतीक्षन्तः यतः शत्रोः विपर्ययः ॥ 30 ॥
एषः विप्र-बल-उदर्कः सम्प्रति ऊर्जित-विक्रमः।
तेषाम् एव अपमानेन स-अनुबन्धः विनङ्क्ष्यति ॥ 31 ॥
एवम् सुमन्त्रित-अर्थाः ते गुरुणा अर्थ-अनुदर्शिना।
हित्वा त्रिविष्टपम् जग्मुः गीर्वाणाः काम-रूपिणः ॥ 32 ॥
देवेषु अथ निलीनेषु बलिः वैरोचनः पुरीम्।
देव-धानीम् अधिष्ठाय वशम् निन्ये जगत्-त्रयम् ॥ 33 ॥
तम् विश्व-जयिनम् शिष्यं भृगवः शिष्य-वत्सलाः।
शतेन अश्वमेधानाम् अनु-व्रतम् अयाजयन् ॥ 34 ॥
ततः तत्-अनुभावेन भुवन-त्रय-विश्रुताम्।
कीर्तिम् दिक्षु वितन्वानः सः रेज उदु-राट् इव ॥ 35 ॥
बुभुजे च श्रियम् स्व-ऋद्धाम् द्विज-देव-उपलम्भिताम्।
कृत-कृत्यम् इव आत्मानम् मन्यमानः महा-मनाः ॥ 36 ॥
No comments:
Post a Comment