பலி சக்கரவர்த்திக்கு சுதல லோகத்தில் இடம் கொடுத்தார்
ஸ்கந்தம் 8: அத்யாயம் 21
श्रीशुक उवाच
सत्यं समीक्ष्य अब्ज-भवः नख-इन्दुभिः
हत-स्व-धाम-द्युतिः आवृतः अभ्यगात्।
मरीचि-मिश्राः ऋषयः बृहद्-व्रताः
सनन्दन-आद्याः नर-देव-योगिनः॥1॥
वेद-उपवेदाः नियमान्विताः यमाः
तर्क-इतिहास-अङ्ग-पुराण-संहिताः।
ये च अपरे योग-समीर-दीपित
ज्ञान-अग्निना रन्धित-कर्म-कल्मषाः।
ववन्दिरे यत्-स्मरण-अनुभावतः
स्वायम्भुवं धाम गताः अ-कर्मकम्॥2॥
अथ अङ्घ्रये प्रोन्नमिताय विष्णोः
उपाहरत् पद्म-भवः अर्हण-उदकम्।
समर्च्य भक्त्या अभ्यगृणात् शुचि-श्रवाः
यत्-नाभि-पङ्केरुह-सम्भवः स्वयम्॥3॥
धातुः कमण्डलु-जलं तद् उरुक्रमस्य
पाद-अवनेजन-पवित्रतया नरेन्द्र।
स्वर्धुनी अभूत् नभसि सा पतती
निमार्ष्टि लोक-त्रयं भगवतः विशद-ईश-किर्तिः॥4॥
ब्रह्म-आदयः लोक-नाथाः स्व-नाथाय समादृताः।
स-अनुगाः बलिम् आजह्रुः संक्षिप्त-आत्म-विभूतये॥5॥
तोयैः समर्हणैः स्रग्भिः दिव्य-गन्ध-अनुलेपनैः।
धूपैः दीपैः सुरभिभिः लाज-अक्षत-फल-अङ्कुरैः॥6॥
स्तवनैः जय-शब्दैः च तद्-वीर्य-महिमा-अङ्कितैः।
नृत्य-वादित्र-गीतैः च शङ्ख-दुन्दुभि-निःस्वनैः॥7॥
जाम्बवान् ऋक्ष-राजः तु भेरी-शब्दैः मनोजवः।
विजयम् दिक्षु सर्वासु महोत्सवम् अघोषयत्॥8॥
महीम् सर्वाम् हृताम् दृष्ट्वा त्रि-पद-व्याजया अञ्चया।
ऊचुः स्व-भर्तुः असुराः दीक्षितस्य अत्य-अमर्षिताः॥9॥
न वा अयम् ब्रह्म-बन्धुः विष्णुः माया-विनाम् वरः।
द्विज-रूप-प्रतिच्छन्नः देव-कार्यं चिकीर्षति॥10॥
अनेन याचमानेन शत्रुणा वटु-रूपिणा।
सर्वस्वम् नः हृतम् भर्तुः न्यस्त-दण्डस्य बर्हिषि॥11॥
सत्य-व्रतस्य सततम् दीक्षितस्य विशेषतः।
न अनृतम् भाषितुं शक्यम् ब्रह्मण्यस्य दया-वतः॥12॥
तस्मात् अस्य वधः धर्मः भर्तुः शुश्रूषणम् च नः।
इति आयुधानि जगृहुः बलेः-अनुचराः-असुराः॥13॥
ते सर्वे वामनं हन्तुं शूल-पट्टिश-पाणयः।
अनिच्छन्तः बलेः राजन् प्राद्रवन् जात-मन्यवः॥14॥
तान् अभिद्रवतः दृष्ट्वा दिति-ज-अनिकपान् नृप।
प्रहस्य अनुचराः विष्णोः प्रत्यषेधन् उदायुधाः॥15॥
नन्दः सुनन्दः अथ जयः विजयः प्रबलः बलः।
कुमुदः कुमुदाक्षः च विष्वक्सेनः पतत्त्रि-राट्॥16॥
जयन्तः श्रुत-देवः च पुष्पदन्तः अथ सात्वतः।
सर्वे नाग-अयुत-प्राणाः चमूं ते जघ्नुः आसुरीम्॥17॥
हन्यमानान् स्वकान् दृष्ट्वा पुरुष-अनुचरैः बलिः।
वारयामास संरब्धान् काव्य-शापम् अनुस्मरन्॥18॥
हे विप्रचित्ते हे राहो हे नेमे श्रूयताम् वचः।
मा युध्यत निवर्तध्वम् न नः कालः अयम् अर्थ-कृत्॥19॥
यः प्रभुः सर्व-भूतानाम् सुख-दुःख-उपपत्तये।
तम् न अति-वर्तितुम् दैत्याः पौरुषैः ईश्वरः पुमान्॥20॥
यो नः भवाय प्राक्-आसीत् अभवाय दिवौकसाम्।
सः एव भगवान् अद्य वर्तते तत्-विपर्ययम्॥21॥
बलेन सचिवैः बुद्ध्या दुर्गैः मन्त्र-औषध-आदिभिः।
साम-आदिभिः उपायैः च कालम् न अत्येति वै जनः॥22॥
भवद्भिः निर्जिताः हि एते बहुशः अनुचराः हरेः।
दैवेन ऋद्धैः ते एव अद्य युधि जित्वा नदन्ति नः॥23॥
एतान् वयम् विजेष्यामः यदि दैवम् प्रसीदति।
तस्मात् कालम् प्रतीक्षध्वम् यः नः अर्थत्वाय कल्पते॥24॥
श्री-शुकः उवाच।
पत्युः निगदितम् श्रुत्वा दैत्य-दानव-यूथपाः।
रसाम् निविविशुः राजन् विष्णु-पार्षद-ताडिताः॥25॥
अथ तार्क्ष्य-सुतः ज्ञात्वा विराट् प्रभु-चिकीर्षितम्।
बबन्ध वारुणैः पाशैः बलिम् सूत्ये अहनि क्रतौ॥26॥
हाहाकारः महान् आसीत् रोदस्योः सर्वतः उदिशम्।
गृह्यमाणे असुर-पतौ विष्णुना प्रभविष्णुना॥27॥
तम् बद्धम् वारुणैः पाशैः भगवान् आह वामनः।
नष्ट-श्रियम् स्थिर-प्रज्ञम् उदार-यशसम् नृप॥28॥
पदानि त्रीणि दत्तानि भूमेः मह्यम् त्वया असुर।
द्वाभ्याम् क्रान्ता मही सर्वा तृतीयम् उपकल्पय॥29॥
यावत् तपति असौ गोभिः यावत् इन्दुः सह उडुभिः।
यावत् वर्षति पर्जन्यः तावती भूः इयम् तव॥30॥
पदा एकेन मया क्रान्तः भूः-लोकः खम् दिशः तनः।
स्वः-लोकः तु द्वितीयेन पश्यतः ते स्वम् आत्मना॥31॥
प्रतिश्रुतम् अदातुः ते निरये वासः इष्यते।
विश त्वम् निरयम् तस्मात् गुरुणा च अनुमोदितः॥32॥
वृथा मनोरथः तस्य दूरे स्वर्गः पतति अधः।
प्रतिश्रुतस्य अदानेन यः अर्थिनम् विप्रलम्भते॥33॥
विप्रलब्धः ददामि इति त्वया अहम् च आढ्यमानिना।
तत् व्यलीक-फलम् भुङ्क्ष्व निरयम् कतिचित् समाः॥34॥
No comments:
Post a Comment