வ்ருத்தாசுரன் ஆச்சர்யமான குணம்
ஸ்கந்தம் 6: அத்யாயம் 11
श्री-शुक उवाच –
त एवम् शंसतो धर्मं वचः पत्युरचेतसः।
नैवागृह्णन् भय-त्रस्ताः पलायन-परा नृप ॥ १ ॥
विशीर्यमाणां पृत्नामासुरीमसुर-र्षभः।
कालानुकूलैः त्रिदशैः काल्यमानामनाथवत् ॥ २ ॥
दृष्ट्वा तप्यत सङ्क्रुद्ध इन्द्र-शत्रुर् अमर्षितः।
तान् निवार्यौजसा राजन् निर्भर्त्स्ये दमुवाच ह ॥ ३ ॥
किं व उच्चरितैः मातुर्धावद्भिः पृष्ठतो हतैः।
न हि भीत-वधः श्लाघ्यो न स्वर्ग्यः शूर-मानिनाम् ॥ ४ ॥
यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि।
अग्रे तिष्ठत मात्रं मे न चेद् ग्राम्य-सुखे स्पृहा ॥ ५ ॥
एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून्।
व्यनदत् सुमहाप्राणो येन लोका विचेतसः ॥ ६ ॥
तेन देवगणाः सर्वे वृत्र-विस्फोटनेन वै।
निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हताः ॥ ७ ॥
ममर्द पद्भ्यां सुर-सैन्यमातुरं
निमीलिताक्षं रण-रङ्ग-दुर्मदः।
गां कम्पयन्नुद्यत-शूल ओजसा
नालं वनं यूथपतिर् यथोन्मदः ॥ ८ ॥
विलोक्य तं वज्रधरोऽत्यमर्षितः
स्वशत्रवेऽभिद्रवते महा-गदाम्।
चिक्षेप ताम् आपततीं सुदुःसहां
जग्राह वामेन करेण लीलया ॥ ९ ॥
स इन्द्रशत्रुः कुपितो भृशं तया
महेन्द्र-वाहं गद-योग्र-विक्रमः।
जघान कुम्भस्थल उन्नदन् मृधे
तत्कर्म सर्वे समपूजयन् नृप ॥ १० ॥
ऐरावतो वृत्र-गदाभि-मृष्टो
विघूर्णितोऽद्रिः कुलिशा-हतो यथा।
अपासरद् भिन्नमुखः सहेन्द्रो
मुञ्चन्नसृक् सप्त-धनुर्भृश-आर्तः ॥ ११ ॥
न सन्न-वाहाय विषण्ण-चेतसे
प्रायुङ्क्त भूयः स गदां महात्मा।
इन्द्रोऽमृत-स्यन्दिकराभि-मर्श
वीत-व्यथ-क्षत-वाहितोऽवतस्थे ॥ १२ ॥
स तं नृपेन्द्र-आहव-काम्यया रिपुं
वज्रायुधं भ्रातृहणं विलोक्य।
स्मरंश्च तत्कर्म नृशंसमंहः
शोकेन मोहेन हसञ्जगाद् ॥ १३ ॥
श्री-वृत्र उवाच –
दिष्ट्या भवान् मे समवस्थितो रिपुः
यो ब्रह्म-हा गुरु-हा भ्रातृ-हा च।
दिष्ट्या नृणोऽद्याहमसत्तम त्वया
मच्छूल-निर्भिन्न-दृषद्धृदाचिरात् ॥ १४ ॥
यो नोऽग्रजस्य आत्म-विदो द्विजातेः
गुरोर् अपापस्य च दीक्षितस्य।
विश्रभ्य खड्गेन शिरांस्य-वृश्चय्
पशोरिवाकरुणः स्वर्ग-कामः ॥ १५ ॥
ह्री-श्री-दया-कीर्तिभिर् उज्झितं त्वां
स्वकर्मणा पुरुषादैश्च गर्ह्यम्।
कृच्छ्रेण मच्छूल-विभिन्न-दहं
अस्पृष्ट-वह्निं समदन्ति गृध्राः ॥ १६ ॥
अन्येऽनु ये त्वेह नृशंस-मज्ञा
ये ह्युद्यतास्त्राः प्रहरन्ति मह्यम्।
तैर्भूत-नाथान् सगणान् निशात्
त्रिशूल-निर्भिन्न-गलैर्यजामि ॥ १७ ॥
अथो हरे मे कुलिशेन वीर
हर्ता प्रमथ्यैव शिरो यदीह।
तत्रानृणो भूत-बलं विधाय
मनस्विनां पाद-रजः प्रपत्स्ये ॥ १८ ॥
सुरेश कस्मान्न हिनोषि वज्रं
पुरः स्थिते वैरिणि मय्यमोघम्।
मा संशयिष्ठा न गदेव वज्रं
स्यान् निष्फलं कृपणार्थेव याच्ञा ॥ १९ ॥
नन्वेष वज्रस्तव शक्र-तेजसा
हरेर्दधी-चेस्तपसा च तेजितः।
तेनैव शत्रुं जहि विष्णु-यन्त्रितो
यतो हरिर्विजयः श्रीर्गुणास्ततः ॥ २० ॥
श्री-शुक उवाच –
अहं समाधाय मनो यथाऽऽह
सङ्कर्षणस्तच्चरणारविन्दे।
त्वद्वज्र-रं होलुलित-ग्राम्य-पाशो
गतिं मुनेर्याम्यपविद्ध-लोकः ॥ २१ ॥
पुंसां किलैकान्त-धियां स्वकानां
याः सम्पदो दिवि भूमौ रसायाम्।
न राति यद् द्वेष उद्वेग-आधिः
मदः कलिर्व्यसनं सम्प्रयासः ॥ २२ ॥
त्रैवर्गिकायास-विघातमस्मत्
पतिर्विधत्ते पुरुषस्य शक्र।
ततोऽनुमेयो भगवतः प्रसादो
यो दुर्लभोऽकिञ्चन-गोचरोऽन्यैः ॥ २३ ॥
अहं हरे तव पादैक-मूल
दासानुदासो भवितास्मि भूयः।
मनः स्मरेतासुपतेर्गुणांस्ते
गृणीत वाक् कर्म करोतु कायः ॥ २४ ॥
न नाक-पृष्ठं न च पारमेष्ठ्यं
न सार्वभौमं न रसाधिपत्यम्।
न योग-सिद्धीरपुनर्भवं वा
समञ्जस त्वा विरहय्य काङ्क्षे ॥ २५ ॥
अजात-पक्षा इव मातरं खगाः
स्तन्यं यथा वत्स-तराः क्षुधार्ताः।
प्रियं प्रियेव व्युषितं विषण्णा
मनोऽरविन्दाक्ष दिदृक्षते त्वाम् ॥ २६ ॥
ममोत्तम-श्लोक-जनेषु सख्यं
संसार-चक्रे भ्रमतः स्वकर्मभिः।
त्वन्माययाऽऽत्म-आत्मज-दार-गहे
ष्वासक्त-चित्तस्य न नाथ भूयात् ॥ २७ ॥
॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे वृत्रास्येन्द्रोप्देशो नामैकादशोऽध्यायः ॥ ११ ॥

No comments:
Post a Comment