Followers

Search Here...

Saturday, 13 December 2025

ஸ்கந்தம் 6: அத்யாயம் 18 (அதிதி, திதியின் பிள்ளைகள்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

அதிதி, திதியின் பிள்ளைகள்

ஸ்கந்தம் 6: அத்யாயம் 18

 

श्रीशुक उवाच –
पृश्निः तु पत्नी सवितुः सावित्रीं व्याहृतिं त्रयीम्।
अग्नि-होत्रं पशुं सोमं च अतुर्मास्यं महामखान् ॥ १ ॥

सिद्धिर्भगस्य भार्याङ्ग महिमानं विभुं प्रभुम्।
आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम् ॥ २ ॥

धातुः कुहूः सिनी-वाली राका च अनुमतिः तथा।
सायं दर्शमथ प्रातः पूर्ण-मासमनुक्रमात् ॥ ३ ॥

अग्नीन् पुरीष्यान् अधत्त क्रियायां सम-अनन्तरः।
चर्षणी वरुणस्यासीद्यस्यां जातो भृगुः पुनः ॥ ४ ॥

वाल्मीकीश्च महायोगी वल्मीका अद्भवत् किल।
अगस्त्यश्च वसिष्ठश्च मित्रा-वरुणयोः ऋषी ॥ ५ ॥

रेतः सिषि-चतुः कुम्भे उर्वश्याः सन्निधौ द्रुतम्।
रेवत्यां मित्र-उत्सर्ग-मरीष्टं पिप्पलं व्यधात् ॥ ६ ॥

पौलोम्याः इन्द्र आधत्त त्रीन् पुत्रानिति नः श्रुतम्।
जयन्तमृषभं तात तृतीयं मीढुषं प्रभुः ॥ ७ ॥

उरु-क्रमस्य देवस्य मायावामन-रूपिणः।
कीर्तौ पत्न्यां बृह-च्छ्लोकः तस्यासन् सौ-भगादयः ॥ ८ ॥

तत् कर्म-गुण-वीर्याणि काश्यपस्य महात्मनः।
पश्चात् वक्ष्यामहेऽदित्यां यथा वावत-तार ह ॥ ९ ॥

अथ कश्यप- दायादान् दैतेयान् कीर्तयामि ते।
यत्र भागवतः श्रीमान् प्रह्लादो बलिरेव च ॥ १० ॥

दितेः द्वावेव दायादौ दैत्य-दानव-वन्दितौ।
हिरण्यकशिपुर्नाम हिरण्याक्षश्च कीर्तितौ ॥ ११ ॥

हिरण्यकशिपोर्भार्या कयाधुर्नाम दानवी।
जम्भस्य तनया दत्ता सुषुवे चतुरः सुतान् ॥ १२ ॥

संह्रादं प्राग् अनुह्रादं ह्रादं प्रह्रादमेव च।
तत् स्वसा सिंहिका नाम राहुं विप्रचितोऽग्रहीत् ॥ १३ ॥

शिरोऽहरद्यस्य हरिश्चक्रेण पिबतोऽमृतम्।
संह्रादस्य कृतिर्भार्या-सूत पञ्चजनं ततः ॥ १४ ॥

ह्रादस्य धमनिर्भार्या-सूत वातापि-मिल्वलम्।
योऽगस्त्याय त्वतिथये पेचे वातापि-मिल्वलः ॥ १५ ॥

अनुह्रादस्य सूर्यायां बाष्कलो महिषस्तथा।
विरोचनस्तु प्राह्रादिः देव्या स्तस्याभवद् बलिः ॥ १६ ॥

बाण-ज्येष्ठं पुत्र-शतमशनायां ततोऽभवत्।
तस्य अनुभावः सु-श्लोक्यं पश्चादेवाभिधास्यते ॥ १७ ॥

बाण आराध्य गिरिशं लेभे तद्-गण-मुख्यताम्।
यत् पार्श्वे भगवानास्ते ह्यद्यापि पुर-पालकः ॥ १८ ॥

मरुतश्च दितेः पुत्राश्च त्वरिंशन्नवाधिकाः।
ताः आसन्न-प्रजा: सर्वे नीता इन्द्रेण सात्मताम् ॥ १९ ॥

श्रीराजोवाच –
कथं त आसुरं भावम् अपोह्य औत्पत्तिकं गुरो।
इन्द्रेण प्रापिताः सात्म्यं किं तत् साधु कृतं हि तैः ॥ २० ॥

इमे श्रद्दधते ब्रह्मन् नृषयः हि मया सह।
परिज्ञानाय भगवं तन्नो व्याख्यातुं अर्हसि ॥ २१ ॥

श्रीसूत उवाच –
तद् विष्णु-रातस्य स बादरायणिर्वचो
निशम्य अदृतम् अल्प-अर्थवत्।
सभाजयन् सं-निभृतेन चेतसा
जगाद् सत्रायण सर्व-दर्शनः ॥ २२ ॥

श्रीशुक उवाच –
हत-पुत्रा दितिः शक्र- पार्ष्णि-ग्रहेण विष्णुना।
मन्युना शोक-दीप्तेन ज्वलन्ती पर्यचिन्तयत् ॥ २३ ॥

कदा नु भ्रातृ-हन्तारम् इन्द्रिय-आरामम् उल्बणम्।
अक्लिन्न-हृदयं पापं घातयित्वा शये सुखम् ॥ २४ ॥

कृ-मिविड्-भस्म संज्ञा अस्ये शाभिहितस्य च।
भूत-ध्रुक् तत् कृते स्वार्थं किं वेद् निरयो यतः ॥ २५ ॥

आशासानस्य तस्य एतं ध्रुवम् उन्नद्ध-चेतसः।
मद-शोषक इन्द्रस्य भूयात्येन सुतो हि मे ॥ २६ ॥

इति भावेन सा भर्तुर आचचारास कृत् प्रियम्।
शुश्रूषया अनु-रागेण प्र-श्रयेन दमेन च ॥ २७ ॥

भक्त्या परमया राजन् मनो-ज्ञैः वल्गु-भाषितैः।
मनः जग्राह भाव-ज्ञा स स्मित-आपाङ्ग-वीक्षणैः ॥ २८ ॥

एवं स्त्रिया जडी-भूतो विद्वान् अपि विदग्धया।
बाढम् इति आह विवशो न तच्चित्रं हि योषिति ॥ २९ ॥

विलोक्य एकान्त-भूतानि भूतानि आदौ प्रजापतिः।
स्त्रियं चक्रे स्व-देहार्धं यया पुंसां मति: हृता ॥ ३० ॥

एवं शुश्रूषितस्तात भगवान् कश्यपः स्त्रिया।
प्रहस्य परम-प्रीतो दितिम् आह अभिनन्द्य च ॥ ३१ ॥

श्रीकश्यप उवाच –
वरं वरय वामोः प्रीतस्तेऽहम् अनिन्दिते।
स्त्रिया भर्तरि सुप्रीते कः काम इह च आगमः ॥ ३२ ॥

पति-एव हि नारीणां दैवतं परमं स्मृतम्।
मानसः सर्व-भूतानां वासुदेवः श्रियः पतिः ॥ ३३ ॥

स एव देवता-लिङ्गैः नाम-रूप-विकल्पितैः।
इज्यते भगवान् पुम्भिः स्त्रीभिश्च पति-रूप-धृक् ॥ ३४ ॥

तस्मात् पातिव्रता नार्यः श्रेयस्-कामा: सुमध्यमे।
यजन्ते अनन्य-भावेन पति-मात्मानं ईश्वरम् ॥ ३५ ॥

सोऽहं त्वया आर्चितो भद्रे ईदृग् भावेन भक्तितः।
तत्ते सम्पादये कामम् असतीनां सुदुर्लभम् ॥ ३६ ॥

दितिर् उवाच –
वरदो यदि मे ब्रह्मन् पुत्रम् इन्द्र-हणं वृणे।
अमृत्युं मृत-पुत्राहं येन मे घातितौ सुतौ ॥ ३७ ॥

निशम्य तद् वचो विप्रो विमनाः पर्यतप्यत।
अहो अधर्मः सुमहान् अद्य मे समुपस्थितः ॥ ३८ ॥

अहो अद्य इन्द्रिय-आरामो योषिन् मय्येह मायया।
गृहीत-चेताः कृपणः पतिष्ये नरके ध्रुवम् ॥ ३९ ॥

कोऽतिक्रमः अनु-वर्तन्त्याः स्वभावम् इह योषितः।
धिङ्मां बताबुधं स्वार्थे यदहं त्वजि-इन्द्रियः ॥ ४० ॥

शरत्-पद्म-उत्सवं वक्‌त्रं वचः च श्रवण-ामृतम्।
हृदयं क्षुर-धारा-अभं स्त्रीणां को वेद् चेष्टितम् ॥ ४१ ॥

न हि कश्चित् प्रियः स्त्रीणाम् अञ्जसा स्व-आशिष्-आत्मनाम्।
पतिं पुत्रं भ्रातरं वा घ्नन्ति अर्थे घातयन्ति च ॥ ४२ ॥

प्रतिश्रुतं ददामि इति वचस्तन्न मृषा भवेत्।
वधं नार्हति चेन्द्रोऽपि तत्र एतद् उपकल्पते ॥ ४३ ॥

इति सञ्चिन्त्य भगवान् मारीचः कुरुनन्दन।
उवाच किञ्चित् कुपित आत्मानं च विगर्हयन् ॥ ४४ ॥

श्रीकश्यप उवाच –
पुत्रः ते भविता भद्रे इन्द्र-हा देव-बान्धवः।
संवत्सरं व्रतं इदं यद्यञ्जो धारयिष्यसि ॥ ४५ ॥

दितिर् उवाच –
धारयिष्ये व्रतं ब्रह्मन् ब्रूहि कार्याणि यानि मे।
यानि चेह निषिद्धानि न व्रतं घ्नन्ति यानि तु ॥ ४६ ॥

श्रीकश्यप उवाच –
न हिंस्याद् भूत-जातानि न शपेन्न अनृतं वदेत्।
नच्छिन्द्य-आन्नख-रोमाणि न स्पृशेद् यद् अमङ्गलम् ॥ ४७ ॥

नाप्सु स्नायन् न कुप्येत न सम्भाषेत् दुर्जनैः।
न वसीता धौत-वासः स्रजं च विधृतां क्वचित् ॥ ४८ ॥

नोच्छिष्टं चण्डिका-आन्नं च सामिषं वृषल-आहृतम्।
भुञ्जीत् ओदक्यया दृष्टं पिबेन्नाञ्जलिना त्वपः ॥ ४९ ॥

नोच्छिष्ट-आस्पृष्ट-सलिला सन्ध्यायां मुक्त-मूर्धजा।
अनर्चिता असंयत-वाङ् नासं-वीता बहिश्चरेत् ॥ ५० ॥

नाधौत-पाद-प्रयता नार्द्र-पान्नो उदक-शिराः।
शयीत नापराङ् नान्यैर्न नग्ना न च सन्ध्ययोः ॥ ५१ ॥

धौत-वासा शुचिर्नित्यं सर्व-मङ्गल-संयुता।
पूजयेत् प्रातराशात् प्राग् गो-विप्राञ् श्रियम् अच्युतम् ॥ ५२ ॥

स्त्रियो वीर-वतिः चार्चेत् स्रग्-गन्ध-बली-मण्डनैः।
पतिं चार्च्य उपतिष्ठेत् ध्यायेत् कोष्ठ-गतं च तम् ॥ ५३ ॥

सांवत्सरं पुंसवनं व्रतं एतद् अविप्लुतम्।
धारयिष्यसि चेत्तुभ्यं शक्र-हा भविता सुतः ॥ ५४ ॥

बाढम् इति अभ्युपेत्याथ दिती राजन् महामनाः।
कश्यपं गर्भम् आधत्त व्रतं चाञ्जो दधार सा ॥ ५५ ॥

मातृष्व-असुरभि, प्रायम् इन्द्र आज्ञाय मानद।
शुश्रूषणेन आश्रम-स्थां दितिं पर्यचरत् कविः ॥ ५६ ॥

नित्यं वनात् सुमनस् फल-मूल-समित् कुशान्।
पत्राङ्कुर-मृदोऽपश्च काले काल उपाहरत् ॥ ५७ ॥

एवं तस्या व्रत-स्थाया व्रत-छिद्रं हरिः नृप।
प्रेप्सुः पर्यचरज्जिह्मो मृग-हेव मृग-आकृतिः ॥ ५८ ॥

नाध्य-गच्छद् व्रत-छिद्रं तत् परोऽथ महीपते।
चिन्तां तीव्रां गतः शक्रः केन मे स्याच् शिवं त्विह् ॥ ५९ ॥

एकदा सा तु सन्ध्यायाम् उच्छिष्टा व्रत-कर्-शिता।
अस्पृष्ट-वार्य-धौताङ्घ्रिः सुष्वाप विधि-मोहिता ॥ ६० ॥

लब्ध्वा तद् अन्तरं शक्रः निद्रा-अपहृत-चेतसः।
दितेः प्रविष्ट उदरं योगेशः योग-मायया ॥ ६१ ॥

च-कर्त सप्तधा गर्भं वज्रेण कनक-प्रभम्।
रुदन्तं सप्त-धैकैकं मा रोदीरिति तान् पुनः ॥ ६२ ॥

ते तमूचुः पाट्य-मानाः सर्वे प्राञ्जलयः नृप।
नो जिघांससि किम् इन्द्र भ्रातरो मरुतः तव ॥ ६३ ॥

मा भैष्ट भ्रातरो मह्यं यूयम् इत्याह कौशिकः।
अनन्य-भावान् पार्ष-दानात्मनो मरुतां गणान् ॥ ६४ ॥

न मम आर् दितेः गर्भः श्री-निवासानुकम्पया।
बहुधा कुलिश-क्षुण्णो द्रौण्यस्त्रेण यथा भवान् ॥ ६५ ॥

सकृद् इष्ट्वा आदिपुरुषं पुरुषो याति साम्यताम्।
संवत्सरं किञ्चिद् ऊनं दित्या यद्धरि-र्चितः ॥ ६६ ॥

स-जूरिन्द्रेण पञ्चाशद् देवास्ते मरुतोऽभवन्।
व्यपोह्य मातृ-दोषं ते हरिणा सोम-पाः कृताः ॥ ६७ ॥

दितिर् उत्थाय ददृशे कुमारान् अनल-प्रभान्।
इन्द्रेण सहितान् देवी पर्यतुष्यद् अनिन्दिता ॥ ६८ ॥

अथ इन्द्र-माह ताताहम् आदित्यानां भयावहम्।
अपत्यम् इच्छन्त्यचरं व्रतम् एतत् सु-दुष्करम् ॥ ६९ ॥

एकः सङ्कल्पितः पुत्रः सप्त-सप्ताभवन् कथम्।
यदि ते विदितं पुत्रः सत्यं कथय मा मृषा ॥ ७० ॥

इन्द्र उवाच –
अम्ब तेऽहं व्यवसितम् उपधार्य आगतोऽन्तिकम्।
लَب्धान्तरोऽच्छिदं गर्भम् अर्थ-बुद्धिर्न धर्मवित् ॥ ७१ ॥

कृत्तो मे सप्तधा गर्भ आसन् सप्त कुमारकाः।
तेऽपि चैकैकशो वृक्णाः सप्तधा नापि मम्रिरे ॥ ७२ ॥

ततः तत् परमाश्चर्यं वीक्ष्य अध्यवसितं मया।
महापुरुष-पूजायाः सिद्धिः काप्य-अनुषङ्गिणी ॥ ७३ ॥

आराधनं भगवत् ईह-माना निराशिषः।
ये तु न इच्छन्त्यपि परं ते स्वार्थ-कुशलाः स्मृताः ॥ ७४ ॥

आराध्यात्म-प्रदं देवं स्व-आत्मानं जगदीश्वरम्।
को वृणीते गुण-स्पर्शं बुधः स्यान् नरकेऽपि यत् ॥ ७५ ॥

तदिदं मम दौर्जन्यं बालिशस्य महीयसि।
क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भः मृत-उत्थितः ॥ ७६ ॥

श्रीशुक उवाच –
इन्द्रस्तयाः अभ्य-नुज्ञातः शुद्ध-भावेन तुष्टया।
मरुद्भिः सह तां नत्वा जगाम् त्रि-दिवं प्रभुः ॥ ७७ ॥

एवं ते सर्वम् आख्यातं यन्मां त्वं परि-पृच्छसि।
मङ्गलं मरुतां जन्म किं भूयः कथयामि ते ॥ ७८ ॥

॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठ-स्कन्धे मरुद्-उत्पत्ति-कथनं नाम अष्टादशोऽध्यायः ॥ 18॥

No comments: