Followers

Search Here...

Saturday, 13 December 2025

ஸ்கந்தம் 6: அத்யாயம் 13 (இந்திரன் தபசு செய்ய சென்றான்.) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

இந்திரன் தபசு செய்ய சென்றான்

ஸ்கந்தம் 6: அத்யாயம் 13

 

श्री-शुक उवाच
वृत्रे हते त्रयः लोकाः विना शक्रेण भूरिद।
स-पाला हि अभवन् सद्यः विज्वरा निर्वृत-इन्द्रियाः ॥ १ ॥

देव-ऋषि-पितृ-भूतानि दैत्याः देव-अनुगाः स्वयम्।
प्रतिजग्मुः स्व-धिष्ण्यानि ब्रह्म-ईश-इन्द्र-आदयः ततः ॥ २ ॥

श्री-राजा उवाच
इन्द्रस्य अनिर्वृतेः हेतुम् श्रोतुम् इच्छामि भो मुने।
येन आसन् सुखिनः देवाः हरेः दुःखम् कुतः अभवत् ॥ ३ ॥

श्री-शुक उवाच
वृत्र-विक्रम-संविग्नाः सर्वे देवाः सह-ऋषिभिः।
तत्-वधाय अर्थयन् इन्द्रम् न ऐच्छत् भीतः बृहद्-वधात् ॥ ४ ॥

इन्द्र उवाच
स्त्री-भू-जल-द्रुमैः एनः विश्व-रूप-वध-उद्भवम्।
विभक्तम् अनुगृह्णद्भिः वृत्र-हत्याम् क्व मार्ज्मि अहम् ॥ ५ ॥

श्री-शुक उवाच
ऋषयः तत् उपाकर्ण्य महा-इन्द्रम् इदम् अब्रुवन्।
याजयिष्यामः भद्रम् ते हय-मेधेन मा स्म भैः ॥ ६ ॥

हय-मेधेन पुरुषम् परम-आत्मानम् ईश्वरम्।
इष्ट्वा नारायणम् देवम् मोक्ष्यसे अपि जगत्-वधात् ॥ ७ ॥

ब्रह्म-हा पितृ-हा गो-घ्नः मातृ-हा आचार्य-हा अघवान्।
श्वादः पुल्कसकः वा अपि शुद्ध्येरन् यस्य कीर्तनात् ॥ ८ ॥

तम् अश्व-मेधेन महा-मखेन
श्रद्धा-अन्वितः अस्माभिः अनुष्ठितेन।
हत्वा अपि स-ब्रह्म चर-अचरम् त्वम्
न लिप्यसे किम् खल-निग्रहेण ॥ ९ ॥

श्री-शुक उवाच
एवम् सञ्चोदितः विप्रैः मरुत्वान् अहनत् रिपुम्।
ब्रह्म-हत्या हते तस्मिन् आससाद वृषाकपिम् ॥ १० ॥

तया इन्द्रः स्म असहत् तापम् निर्वृतिः नाम उम् आविशत्।
ह्री-मन्तम् वाच्यताम् प्राप्तम् सुखयन्ति अपि नः गुणाः ॥ ११ ॥

ताम् ददर्श अनुधावन्तीम् चाण्डालीम् इव रूपिणीम्।
जरया वेपमान-अङ्गीम् यक्ष्म-ग्रस्ताम् असृक्-पटाम् ॥ १२ ॥

विकीर्य पलितान् केशान् तिष्ठ तिष्ठ इति भाषिणीम्।
मीन-गन्धी-असु-गन्धेन कुर्वतीम् मार्ग-दूषणम् ॥ १३ ॥

नभः गतः दिशः सर्वाः सहस्र-अक्षः विशाम्-पते।
प्राक्-उदीचीम् दिशम् तूर्णम् प्रविष्टः नृप मानसम् ॥ १४ ॥

सः आवसत् पुष्कर-नाल-तन्तून्
अलब्ध-भोगः यत् इह अग्नि-दूतः।
वर्षाणि साहस्रम् अलक्षितः अन्तः
सः चिन्तयन् ब्रह्म-वधात् विमोक्षम् ॥ १५ ॥

तावत् त्रि-नाकम् नहुषः शशास
विद्या-तपः-योग-बल-अनुभावः।
सः सम्पत्-ऐश्वर्य-मद-अन्ध-बुद्धिः
नीतः तिरश्चाम् गतिम् इन्द्र-पत्न्या ॥ १६ ॥

ततः गतः ब्रह्म-गिरा उपहूतः
ऋतम्-भर-ध्यान-निवारित-अघः।
पापः तु दिक्-देवतया हत-ओजाः
तम् न अभ्यभूत् अवितम् विष्णु-पत्न्या ॥ १७ ॥

तम् च ब्रह्म-ऋषयः अभ्येत्य हय-मेधेन भारत।
यथा-वत् दीक्षया अञ्चक्रुः पुरुष-आराधनेन ह ॥ १८ ॥

अथ इज्यमाने पुरुषे सर्व-देव-मय-आत्मनि।
अश्व-मेधे महा-इन्द्रेण वितते ब्रह्म-वादिभिः ॥ १९ ॥

सः वै त्वाष्ट्र-वधः भूयान् अपि पाप-चयः नृप।
नीतः तेन एव शून्याय नीहारः इव भानुना ॥ २० ॥

सः वाजि-मेधेन यथा-उदितेन
वितायमानेन मरीचि-मिश्रैः।
इष्ट्वा अधि-यज्ञम् पुरुषम् पुराणम्
इन्द्रः महान् आस विधूत-पापः ॥ २१ ॥

इदम् महा-आख्यानम् अशेष-पाप्मनाम्
प्रक्षालनम् तीर्थ-पद-अनुकीर्तनम्।
भक्ति-उच्छ्रयम् भक्ति-जन-अनुवर्णनम्
महा-इन्द्र-मोक्षम् विजयम् मरुत्वतः ॥ २२ ॥

पठेयुः आख्यानम् इदम् सदा बुधाः
शृण्वन्ति अथो पर्वणि पर्वणि इन्द्रियम्।
धन्यम् यशस्यम् निखिल-अघ-मोचनम्
रिपु-उञ्जयम् स्वस्ति-अयनम् तथा आयुषम् ॥ २३ ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायां
षष्ठ-स्कन्धे इन्द्र-विजयः नाम त्रयोदशः अध्यायः ॥ १३ ॥

No comments: