Followers

Search Here...

Saturday, 19 July 2025

ஸ்கந்தம் 9: அத்யாயம் 9 (அம்சுமான் பரம்பரை) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 அம்சுமான் பரம்பரை

ஸ்கந்தம் 9: அத்யாயம் 9

श्रीशुक उवाच

अंशुमान् च तपः तेपे गङ्गा-आनयन-काम्यया।
कालम् महान्तम् न अशक्नोत् ततः कालेन संस्थितः ॥ १ ॥

दिलीपः तत्-सुतः तद्वत् अशक्तः कालम् एयिवान्।
भगीरथः तस्य पुत्रः तेपे सः सु-महत् तपः ॥ २ ॥

दर्शयाम् आस तम् देवी प्रसन्ना वरदा अस्मि ते।
इति उक्तः स्वम् अभिप्रायम् शशंस अवनतः नृपः ॥ ३ ॥

कः अपि धारयिता वेगम् पतन्त्याः मे मही-तले।
अन्यथा भूतलम् भित्त्वा नृप यास्ये रसातलम् ॥ ४ ॥

किम् च अहम् न भुवम् यास्ये नराः मयि आमृजन्ति अघम्।
मृजामि तत् अघम् कुत्र राजन् तत्र विचिन्त्यताम् ॥ ५ ॥


श्रीभगीरथ उवाच

साधवः न्यासिनः शान्ताः ब्रह्मिष्ठाः लोक-पावनाः।
हरन्ति अघम् ते अङ्ग-सङ्गात् तेषु अस्ति हि अघ-भित् हरिः ॥ ६ ॥

धारयिष्यति ते वेगम् रुद्रः तु आत्मा शरीरिणाम्।
यस्मिन् उत्तम् इदं प्रोतं विश्वम् शाटी-इव तन्तुषु ॥ ७ ॥

इति उक्त्वा सः नृपः देवं तपसा अतोषयत् शिवम्।
कालेन अल्पीयसा राजन् तस्य ईशः समतुष्यत ॥ ८ ॥

तथा इति राज्ञा अभिहितम् सर्व-लोक-हितः शिवः।
दधार अवहितः गङ्गाम् पाद-पूत-जलाम् हरेः ॥ ९ ॥

भगीरथः सः राजर्षिः निन्ये भुवन-पावनीम्।
यत्र स्व-पितॄणाम् देहाः भस्मी-भूताः स्म शेरते ॥ १० ॥


रथेन वायु-वेगेन प्रयान्तम् अनुधावती।
देशान् पुनन्ती निर्दग्धान् आसिञ्चत् सगर-आत्मजान् ॥ ११ ॥

यत् जल-स्पर्श-मात्रेण ब्रह्म-दण्ड-हताः अपि।
सगर-आत्मजाः दिवम् जग्मुः केवलम् देह-भस्मभिः ॥ १२ ॥

भस्मी-भूत-अङ्ग-सङ्गेन स्वर् याताः सगर-आत्मजाः।
किम् पुनः श्रद्धया देवीं ये सेवन्ते धृत-व्रताः ॥ १३ ॥

न हि एतत् परम् आश्चर्यम् स्वर्धुन्या यत् इह उदितम्।
अनन्त-चरण-अम्भोज-प्रसूतायाः भवच्छिदः ॥ १४ ॥

संनिवेश्य मनः यस्मिन् श्रद्धया मुनयः अमलाः।
त्रैगुण्यम् दुस्त्यजम् हित्वा सद्यः याताः तत् आत्मताम् ॥ १५ ॥


श्रुतः भगीरथात् जज्ञे तस्य नाभः अपरः अभवत्।
सिन्धु-द्वीपः ततः तस्मात् अयुत-आयुः ततः अभवत् ॥ १६ ॥

ऋतुपर्णः नल-सखः यः अश्व-विद्याम् अयात् नलात्।
दत्वा अक्ष-हृदयं च अस्मै सर्व-कामः तु तत्-सुतः ॥ १७ ॥

ततः सुदासः तत्-पुत्रः मदयन्ती-पतिः नृपः।
आहुः मित्र-सहम् यम् वै कल्माष-अङ्घ्रिम् उत क्वचित्।
वसिष्ठ-शापात् रक्षः अभूत् अनपत्यः स्व-कर्मणा ॥ १८ ॥


श्रीराजोवाच

किम् निमित्तः गुरोः शापः सौदासस्य महा-आत्मनः।
एतत् वेदितुम् इच्छामः कथ्यताम् न रहः यदि ॥ १९ ॥


श्रीशुक उवाच

सौदासः मृगयाम् किञ्चित् चरन् रक्षः जघान ह।
मुमोच भ्रातरम् सः अथ गतः प्रतिचिकीर्षया ॥ २० ॥

सः चिन्तयन् अघम् राज्ञः सूद-रूप-धरः गृहे।
गुरवे भोक्तु-कामाय पक्त्वा निन्ये नर-अमिषम् ॥ २१ ॥

परिवेक्ष्यमाणम् भगवान् विलोक्य अभक्ष्यम् अञ्जसा।
राजानम् अशपत् क्रुद्धः रक्षः हि एवम् भविष्यसि ॥ २२ ॥

रक्षः-कृतम् तत् विदित्वा चक्रे द्वादश-वार्षिकम्।
सः अपि अपः अञ्जलिना आदाय गुरुम् शप्तुम् समुद्यतः ॥ २३ ॥

वारितः मदयन्त्या अपः रुशतीः पादयोः जहौ।
दिशः खम् अवनीम् सर्वम् पश्यन् जीव-मयम् नृपः ॥ २४ ॥

राक्षसम् भावम् आपन्नः पादे कल्माषताम् गतः।
व्यवाय-काले ददृशे वन-उकः दम्पती द्विजौ ॥ २५ ॥

क्षुधा-आर्तः जगृहे विप्रम् तत्-पत्नी आह आकृत-अर्थवत्।
न भवान् राक्षसः साक्षात् इक्ष्वाकूणाम् महा-रथः ॥ २६ ॥

मदयन्त्याः पतिः वीर न अधर्मम् कर्तुम् अर्हसि।
देहि मे अपत्य-कामायाः अकृत-अर्थम् पतिम् द्विजम् ॥ २७ ॥

देहः अयम् मानुषः राजन् पुरुषस्य अखिल-अर्थ-दः।
तस्मात् अस्य वधः वीर सर्व-अर्थ-वधः उच्यते ॥ २८ ॥

एषः हि ब्राह्मणः विद्वान् तपः-शील-गुण-अन्वितः।
आरिराधयिषुः ब्रह्म महा-पुरुष-संज्ञितम् ॥
सर्व-भूत-आत्म-भावेन भूतेषु अन्तर्हितम् गुणैः ॥ २९ ॥

सः अयम् ब्रह्म-ऋषि-वर्यः ते राजर्षि-प्रवरात् विभो।
कथमर्हति धर्मज्ञ वधम् पितुः इव आत्मजः ॥ ३० ॥

तस्य साधोः अपापस्य भ्रूणस्य ब्रह्म-वादिनः।
कथम् वधम् यथा बभ्रोः मन्यते सत्-मतः भवान् ॥ ३१ ॥

यत् वयम् क्रियते भक्षः तर्हि माम् खाद पूर्वतः।
न जीविष्ये विना येन क्षणम् च मृतकम् यथा ॥ ३२ ॥

एवम् करुण-भाषिण्या विलपन्त्या अनाथवत्।
व्याघ्रः पशुम् इव अखादत् सौदासः शाप-मोहितः ॥ ३३ ॥

ब्राह्मणी वीक्ष्य दिधिषुम् पुरुष-अदेन भक्षितम्।
शोचन्ती आत्मानम् उर्वी-ईशम् अशपत् कुपिता सती ॥ ३४ ॥

यस्मात् मे भक्षितः पाप काम-आर्तायाः पतिः त्वया।
तव अपि मृत्यु-अधाना-आत् अ-कृत-प्रज्ञ दर्शितः ॥ ३५ ॥

एवम् मित्र-सहम् शप्त्वा पति-लोक-परायणा।
तत्-अस्थीनि समिद्धे अग्नौ प्रास्य भर्तुः गतिम् गता ॥ ३६ ॥

वि-शापः द्वादश-अब्द-अन्ते मैथुनाय समुद्यतः।
विज्ञाय ब्राह्मणी-शापम् महिष्या सः निवारितः ॥ ३७ ॥

अतः ऊर्ध्वम् सः तत्याज स्त्री-सुखम् कर्मणा अप्रजाः।
वसिष्ठः तत्-अनुज्ञातः मदयन्त्याम् प्रजाम् अधात् ॥ ३८ ॥

सा वै सप्त समाः गर्भम् अबिभ्रत् न व्यजायत।
जघ्ने अश्मन्-उदरम् तस्याः सः अश्मकः तेन कथ्यते ॥ ३९ ॥

अश्मकात् मूलकः जज्ञे यः स्त्रीभिः परिरक्षितः।
नारी-कवच इति उक्तः निःक्षत्रे मूलकः अभवत् ॥ ४० ॥

ततः दशरथः तस्मात् पुत्रः ऐडविडिः ततः।
राजा विश्वसहः यस्य खट्वाङ्गः चक्रवर्ती अभूत् ॥ ४१ ॥

यः देवैः अर्थितः दैत्यान् अवधीद् युधि दुर्जयः।
मुहूर्तम् आयुः ज्ञात्वा एत्य स्वपुरम् सन्दधे मनः ॥ ४२ ॥

न मे ब्रह्म-कुलात् प्राणाः कुल-दैवात् न च आत्मजाः।
न श्रियः न मही-राज्यम् न दाराः च अति वल्लभाः ॥ ४३ ॥

न बाल्ये अपि मतिः मह्यम् अधर्मे रमते क्वचित्।
न अपश्यम् उत्तम-श्लोकात् अन्यत् किञ्चन वस्तु अहम् ॥ ४४ ॥

देवैः काम-वरः दत्तः मह्यम् त्रि-भुवन-ईश्वरैः।
न वृणे तम् अहम् कामम् भूत-भावन-भावनः ॥ ४५ ॥

ये विक्षिप्त-इन्द्रिय-धियः देवाः ते स्व-हृदि स्थितम्।
न विन्दन्ति प्रियम् शश्वत् आत्मानम् किम् उत अपरे ॥ ४६ ॥

अथ ईश-माया-रचितेषु सङ्गम्
गुणेषु गन्धर्व-पुर-उपमेषु।
रूढम् प्रकृत्या आत्मनि विश्व-कर्तुः
भावेन हित्वा तम् अहम् प्रपद्ये ॥ ४७ ॥

इति व्यवसितः बुद्ध्या नारायण-गृहीतया।
हित्वा अन्य-भावम् अज्ञानम् ततः स्वम् भावम् आश्रितः ॥ ४८ ॥

यत् तत् ब्रह्म परम् सूक्ष्मम् अशून्यम् शून्य-कल्पितम्।
भगवान् वासुदेवः इति यम् गृणन्ति हि सात्वताः ॥ ४९ ॥


इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
नवमस्कन्धे सूर्यवंश-अनुवर्णने नवमः अध्यायः ॥

No comments: