தேவர்கள் விஷ்ணுவிடம் பிரார்த்தித்தனர்
ஸ்கந்தம் 8: அத்யாயம் 5
श्री-शुक उवाच
राजन् उदितम् एतत् ते हरेः कर्म-अघ-नाशनम्।
गजेन्द्र-मोक्षणं पुण्यं रैवतं तु अन्तरं श्रृणु॥ १॥
पञ्चमः रैवतः नाम मनुः तामस-सोदरः।
बलि-विन्ध्य-आदयः तस्य सुता अर्जुन-पूर्वकाः॥ २॥
विभुः इन्द्रः सुर-गणाः राजन् भूतरय-आदयः।
हिरण्य-रोमा वेद-शिरा ऊर्ध्व-बाहु-आदयः द्विजाः॥ ३॥
पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुर-सत्तमैः।
तयोः स्व-कलया जज्ञे वैकुण्ठः भगवान् स्वयं॥ ४॥
वैकुण्ठः कल्पितः येन लोकः लोक-नमस्कृतः।
रमया प्रार्थ्यमानेन देव्या तत्-प्रिया-काम्यया॥ ५॥
तस्य अनुभवः कथितः गुणाः च परम-उदयाः।
भौमान् रेणून् स विममे यः विष्णोः वर्णयेत् गुणान्॥ ६॥
षष्ठः चक्षुषः पुत्रः चाक्षुषः नाम वै मनुः।
पूरु-पुरुष-सुद्युम्न-प्रमुखाः चाक्षुष-आत्मजाः॥ ७॥
इन्द्रः मन्त्र-द्रुमः तत्र देवा आप्य-आदयः गणाः।
मुनयः तत्र वै राजन् हविष्मत्-वीरक-आदयः॥ ८॥
तत्र अपि देवः सम्भूत्याम् वैराजस्य अभवत् सुतः।
अजितः नाम भगवान् अंशेन जगतः पतिः॥ ९॥
पयो-धिम् येन निर्मथ्य सुराणाम् साधिता सुधा।
भ्रममाणः अम्भसि धृतः कूर्म-रूपेण मन्दरः॥ १०॥
श्री-राजा उवाच
यथा भगवता ब्रह्मन् मथितः क्षीर-सागरः।
यदर्थं वा यतः च अद्रिम् दधार अम्बु-चर-आत्मना॥ ११॥
यथा अमृतम् सुरैः प्राप्तम् किम् च अन्यत् अभवत् ततः।
एतत् भगवतः कर्म वदस्व परम-आद्भुतम्॥ १२॥
त्वया सङ्कथ्यमानेन महिम्ना सात्वताम् पतेः।
न अति-तृप्यति मे चित्तम् सु-चिरं ताप-तापितम्॥ १३॥
श्री-सूत उवाच
सम्पृष्टः भगवान् एवम् द्वैपायन-सुतः द्विजाः।
अभिनन्द्य हरेः वीर्यम् अभ्याचष्टुं प्रचक्रमे॥ १४॥
श्री-शुक उवाच
यदा युद्धे असुरैः देवा बध्यमानाः शित-आयुधैः।
गत-आसवः निपतिताः न उत्तिष्ठन् स्म भूयशः॥ १५॥
यदा दुर्वाससः शापात् स-इन्द्राः लोकाः त्रयः नृप।
निः-श्रीकाः च अभवन् तत्र न ऐशुः इज्या-आदयः क्रियाः॥ १६॥
निशाम्य एतत् सुर-गणाः महेन्द्र-वरुण-आदयः।
न अध्यगच्छन् स्वयं मन्त्रैः मन्त्रयन्तः विनिश्चितम्॥ १७॥
ततः ब्रह्म-सभाम् जग्मुः मेरुः मूर्धनि सर्वशः।
सर्वम् विज्ञापयाञ्चक्रुः प्रणताः परमेष्ठिने॥ १८॥
स विलोक्य इन्द्र-वाय्व्-आदीन् निः-सत्त्वान् विगत-प्रभान्।
लोकान् अमङ्गल-प्रायान् असुरान् यथा विभुः॥ १९॥
समाहितेन मनसा संस्मरन् पुरुषम् परम्।
उवाच उत्फुल्ल-वदनः देवान् स भगवान् परः॥ २०॥
अहं भवः यूयम् अथ असुर-आदयः।
मनुष्य-तिर्यक्-द्रुम-घर्म-जातयः॥
यस्य अवतार-अंश-कलाविसर्जिताः।
व्रजाम सर्वे शरणं तम् अव्ययम्॥ २१॥
न यस्य वध्यः न च रक्षणीयः।
न उपेक्षणीयः अरणीय-पक्षः।
अथ अपि सर्ग-स्थिति-संयम-अर्थम्।
धत्ते रजः-सत्त्व-तमांसि काले॥ २२॥
अयम् च तस्य स्थिति-पालन-क्षणः।
सत्त्वं जुषाणस्य भवाय देहिनाम्।
तस्मात् व्रजामः शरणं जगत्-गुरुम्।
स्वानाम् सः नः धास्यति शं सुर-प्रियः॥ २३॥
श्री-शुक उवाच
इति आभाष्य सुरान् वेधाः सह देवैः अरि-दम।
अजितस्य पदं साक्षात् जगाम तमसः परम्॥ २४॥
तत्र अदृष्ट-स्वरूपाय श्रुत-पूर्वाय वै विभो।
स्तुतिम् अब्रूत दैवीभिः गीर्भिः तु अवहित-इन्द्रियः॥ २५॥
श्री-ब्रह्मा उवाच
अविक्रियम् सत्यम् अनन्तम् आद्यम्।
गुहा-आशयम् निष्कलम् अप्रतर्क्यम्।
मनः-अग्रयानम् वचसा अनिरुक्तम्।
नमामहे देव-वरं वरेण्यम्॥ २६॥
विपश्चितम् प्राण-मनः-धियात्मना।
अर्थ-इन्द्रिय-आभासम् अनिद्रम् अव्रणम्।
छाया-आतपौ यत्र न गृध्र-पक्षौ।
तम् अक्षरम् खं त्रि-युगम् व्रजामहे॥ २७॥
अजस्य चक्रम् तु अज-ये र्यमाणम्।
मनः-मयम् पञ्च-दश-अरम् आशु।
त्रि-नाभि विद्युच्-चलम् अष्ट-नेमि।
यत् अक्षम् आहुः तम् ऋतम् प्रपद्ये॥ २८॥
यः एक-वर्णम् तमसः परम् तत्।
अलोकम् अव्यक्तम् अनन्त-पारम्।
आसाञ्चकार उपसुपर्णम् एनम्।
उपासते योग-रथेन धीराः॥ २९॥
न यस्य कश्चित् अतितर्ति मायाम्।
यया जनः मुह्यति वेद न अर्थम्।
तम् निर्जित-आत्म-आत्म-गुणम् परेशम्।
नमाम भूतेषु समम् चरन्तम्॥ ३०॥
इमे वयम् यत् प्रियया एव तन्वा।
सत्त्वेन सृष्टाः बहिः अन्तः आविः।
गतिम् न सूक्ष्माम् ऋषयः च विद्महे।
कुतः असुर-आद्याः इतर-प्रधानाः॥ ३१॥
पादौ मही इयम् स्व-कृता एव यस्य।
चतुर्विधः यत्र हि भूत-सर्गः।
सः वै महा-पुरुषः आत्म-तन्त्रः।
प्रसीदताम् ब्रह्म महा-विभूतिः॥ ३२॥
अम्भः तु यत् रेतः उदार-वीर्यम्।
सिध्यन्ति जीवन्ति उत वर्धमानाः।
लोकाः त्रयः अथ अखिल-लोक-पालाः।
प्रसीदताम् ब्रह्म महा-विभूतिः॥ ३३॥
सोमम् मनः यस्य सम्-आमनन्ति।
दिव्-ओकसाम् यः बलम् अन्ध आयुः।
ईशः नगानाम् प्रजनः प्रजानाम्।
प्रसीदताम् नः सः महा-विभूतिः॥ ३४॥
अग्निः मुखम् यस्य तु जात-वेदा।
जातः क्रिया-काण्ड-निमित्त-जन्मा।
अन्तः-समुद्रे अनुपचन् स्व-धातून्।
प्रसीदताम् नः सः महा-विभूतिः॥ ३५॥
यत् चक्षुः आसीत् तरणिः देव-यानम्।
त्रयी-मयः ब्रह्मणः एष धिष्ण्यम्।
द्वारम् च मुक्तेः अमृतम् च मृत्युः।
प्रसीदताम् नः सः महा-विभूतिः॥ ३६॥
प्राणात् अभूत् यस्य चर-अचराणाम्।
प्राणः सहः बलम् ओजः च वायुः।
अन्वा अस्म सम्राजम् इव अनुगा वयम्।
प्रसीदताम् नः सः महा-विभूतिः॥ ३७॥
श्रोत्रात् दिशः यस्य हृतः च खानि।
प्रजज्ञिरे खं पुरुषस्य नाभ्याः।
प्राण-इन्द्रिय-आत्मा असु-शरीर-केतम्।
प्रसीदताम् नः सः महा-विभूतिः॥ ३८॥
बलात् महेन्द्रः त्रि-दशाः प्रसादात्।
मन्योर् गिरीशः धिषणात् विरिञ्चः।
खेभ्यः तु छन्दांसि ऋषयः मेढ्रतः कः।
प्रसीदताम् नः सः महा-विभूतिः॥ ३९॥
श्रीः वक्षसः पितरः छायया आसन्।
धर्मः स्तनात् इतःः पृष्ठतः अभूत्।
द्यौः यस्य शीर्ष्णः अप्सरसः विहारात्।
प्रसीदताम् नः सः महा-विभूतिः॥ ४०॥
विप्रः मुखम् ब्रह्म च यस्य गुह्यम्।
राजन्यः आसीत् भुजोः बलम् च।
ऊर्वोः विट् ओजः अङ्घ्रिः अवेदः शूद्रौ।
प्रसीदताम् नः सः महा-विभूतिः॥ ४१॥
लोभः अधरात् प्रीतिः उपरि अभूत् धुतिः।
नःतः पशव्यः स्पर्शेन कामः।
भ्रुवोः यमः पक्ष्म-भवः तु कालः।
प्रसीदताम् नः सः महा-विभूतिः॥ ४२॥
द्रव्यम् वयः कर्म गुणान् विशेषम्।
यत् योग-माया-विहितान् वदन्ति।
यत् दुर्विभाव्यम् प्रबुध-अपबाधम्।
प्रसीदताम् नः सः महा-विभूतिः॥ ४३॥
नमः अस्तु तस्मै उपशान्त-शक्तये।
स्व-राज्य-लाभ-प्रतिपूरित-आत्मने।
गुणेषु माया-रचितेषु वृत्तिभिः।
न सज्जमानाय नभः-स्वद्-ऊतये॥ ४४॥
सः त्वं नः दर्शय आत्मानम् अस्मत्-करण-गोचरम्।
प्रपन्नानाम् दिदृक्षूणाम् स-स्मितम् ते मुख-अम्बुजम्॥ ४५॥
तैः तैः स्वेच्छा-धृतै रूपैः काले काले स्वयम् विभो।
कर्म दुर्विषहम् यत् नः भगवन् तत् करोति हि॥ ४६॥
क्लेश-भूरि-अल्प-साराणि कर्माणि विफलानि वा।
देहिनाम् विषय-आर्तानाम् न तथा एव अर्पितम् त्वयि॥ ४७॥
न अवमः कर्म-कल्पः अपि विफलाय ईश्वर-अर्पितः।
कल्पते पुरुषस्य एषः सः हि आत्मा दयितः हितः॥ ४८॥
यथा हि स्कन्ध-शाखानाम् तरोः मूल-अवसेचनम्।
एवम् आराधनम् विष्णोः सर्वेषाम् आत्मनः च हि॥ ४९॥
नमः तुभ्यम् अनन्ताय दुर्वितर्क्य-आत्म-कर्मणे।
निर्गुणाय गुण-ईशाय सत्त्व-स्थाय च साम्प्रतम्॥ ५०॥
No comments:
Post a Comment