Followers

Search Here...

Saturday, 19 July 2025

ஸ்கந்தம் 9: அத்யாயம் 1 (பெண்ணாக மாறிய சுத்யும்னன்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 பெண்ணாக மாறிய சுத்யும்னன்

ஸ்கந்தம் 9: அத்யாயம் 1

श्री-राजा उवाच।
मन्वन्तराणि सर्वाणि त्वया उक्तानि श्रुतानि मे।
वीर्याणि अनन्त-वीर्यस्य हरेः तत्र कृतानि च ॥ १ ॥

यः असौ सत्यव्रतः नाम राजर्षिः द्रविड-ईश्वरः।
ज्ञानम् यः अतीत-कल्प-अन्ते लेभे पुरुष-सेवया ॥ २ ॥

सः वै विवस्वतः पुत्रः मनुः आसीत् इति श्रुतम्।
त्वत्तः तस्य सुताः च उक्ताः इक्ष्वाकु-प्रमुखाः नृपाः ॥ ३ ॥

तेषाम् वंशम् पृथक् ब्रह्मन् वंश्य-अनुचरितानि च।
कीर्तयस्व महा-भाग नित्यम् शुश्रूषताम् हि नः ॥ ४ ॥

ये भूताḥ ये भविष्याः च भवन्ति अद्यतनाः च ये।
तेषाम् नः पुण्य-कीर्तीनाम् सर्वेषाम् वद विक्रमान् ॥ ५ ॥


श्री-सूत उवाच।
एवम् परीक्षित-राज्ञा सदसि ब्रह्म-वादिनाम्।
पृष्टः प्रोवाच भगवान् शुकः परम-धर्म-वित् ॥ ६ ॥


श्री-शुक उवाच।
श्रूयताम् मानवः वंशः प्राचुर्येण परन्तप।
न शक्यते विस्तरतः वक्तुम् वर्ष-शतैः अपि ॥ ७ ॥

पर-अवरेषाम् भूतानाम् आत्मा यः पुरुषः परः।
सः एव आसीत् इदम् विश्वम् कल्प-अन्ते अन्यत् न किञ्चन ॥ ८ ॥

तस्य नाभेः समभवत् पद्म-कोशः हिरण्मयः।
तस्मिन् जज्ञे महाराज स्वयंभूः चतुर्-आननः ॥ ९ ॥

मरीचिः मनसः तस्य जज्ञे तस्य अपि कश्यपः।
दाक्षायण्याम् ततः अदित्याम् विवस्वान् अभवत् सुतः ॥ १० ॥

ततः मनुः श्राद्ध-देवः संज्ञायाम् आस भारत।
श्रद्धायाम् जनयामास दश पुत्रान् सः आत्मवान् ॥ ११ ॥

इक्ष्वाकुः नृगः शर्यातिः दिष्टः धृष्टः करूषकान्।
नरिष्यन्तम् पृषध्रम् च नभगम् च कविम् विभुः ॥ १२ ॥

अप्रजस्य मनोः पूर्वम् वसिष्ठः भगवान् किल।
मित्र-वरुणयोः इष्टिम् प्रजा-अर्थम् अकरोत् प्रभुः ॥ १३ ॥

तत्र श्रद्धा मनोः पत्नी होतारम् समयाचत।
दुहितुः अर्थम् उपागम्य प्रणिपत्य पयः-व्रता ॥ १४ ॥

प्रेषितः अध्वर्युना होता ध्यायन् तत् सु-समाहितः।
हविषि व्यचरत् तेन वषट्कारम् गृणन् द्विजः ॥ १५ ॥


होतः तत् व्यभिचारेण कन्या ऐला नाम सा अभवत्।
ताम् विलोक्य मनुः प्राह न अति-हृष्ट-मनाः गुरुम् ॥ १६ ॥

भगवन् किम् इदम् जातम् कर्म वः ब्रह्म-वादिनाम्।
विपर्ययम् अहो कष्टम् मा एवम् स्यात् ब्रह्म-विक्रिया ॥ १७ ॥

यूयम् मन्त्र-विदः युक्ताः तपसा दग्ध-किल्बिषाः।
कुतः संकल्प-वैषम्यम् अनृतम् विबुधेषु इव ॥ १८ ॥

तत् निशम्य वचः तस्य भगवान् प्रपितामहः।
होतः व्यतिक्रमम् ज्ञात्वा बभाषे रवि-नन्दनम् ॥ १९ ॥

एतत् संकल्प-वैषम्यम् होतुः ते व्यभिचारतः।
तथापि साधयिष्ये ते सुप्रजाः त्वम् स्व-तेजसा ॥ २० ॥

एवं व्यवसितो राजन् भगवान् स महा-यशाः।
अस्तौषीत् आदि-पुरुषम् इलायाः पुंस्त्व-काम्यया ॥ २१ ॥

तस्मै काम-वरं तुष्टः भगवान् हरिः ईश्वरः।
ददौ इलाम् अभवत् तेन सुद्युम्नः पुरुष-ऋषभः ॥ २२ ॥

सः एकदा महा-राज विचरन् मृगयाम् वने।
वृतः कतिपय-अमात्यैः अश्वम् आरुह्य सैन्धवम् ॥ २३ ॥

प्रगृह्य रुचिरं चापं शरान् च परम-अद्‍भुतान्।
दंशितः अनु-मृगं वीरः जगाम दिशम् उत्तराम् ॥ २४ ॥

सः कुमारः वनम् मेरोः अधः-ताट् प्रविवेश ह।
यत्र आस्ते भगवान् शर्वः रममाणः सह उर्मया ॥ २५ ॥

तस्मिन् प्रविष्टः एव असौ सुद्युम्नः पर-वीर-हा।
अपश्यत् स्त्रियम् आत्मानम् अश्वं च वडवाम् नृप ॥ २६ ॥

तथा तत्-अनुगाः सर्वे आत्म-लिङ्ग-विपर्ययम्।
दृष्ट्वा विमनसः अभूवन् विक्षमाणाः परस्-परम् ॥ २७ ॥


श्री-राजा उवाच।
कथम् एवम्-गुणः देशः केन वा भगवन् कृतः।
प्रश्नम् एनम् समाचक्ष्व परम् कौतूहलम् हि नः ॥ २८ ॥


श्री-शुक उवाच।
एकदा गिरिशम् द्रष्टुम् ऋषयः तत्र सुव्रताः।
दिशः वितिमिर-आभासाः कुर्वन्तः समुपागमन् ॥ २९ ॥

तान् विलोक्य अम्बिका देवी विवासा व्रीडिता भृशम्।
भर्तुः अङ्कात् समुत्थाय नीवीम् आशु अथ पर्यधात् ॥ ३० ॥

ऋषयः अपि तयोः वीक्ष्य प्रसङ्गम् रममाणयोः।
निवृत्ताः प्रययुः तस्मात् नर-नारायण-आश्रमम् ॥ ३१ ॥

तत् इदं भगवान् आह प्रियायाः प्रिया-काम्यया।
स्थानम् यः प्रविशेत् एतत् सः वै योषित् भवेत् इति ॥ ३२ ॥

ततः ऊर्ध्वं वनम् तत् वै पुरुषाः वर्जयन्ति हि।
सा च अनुचर-संयुक्ता विचचार वनात् वनम् ॥ ३३ ॥


अथ ताम् आश्रम-अभ्याशे चरन्तीम् प्रमद-उत्तमाम्।
स्त्रीभिः परिवृताम् वीक्ष्य चकमे भगवान् बुधः ॥ ३४ ॥

सा अपि तम् चकमे सुभ्रूः सोम-राज-सुतम् पतिम्।
सः तस्याम् जनयामास पुरूरवसम् आत्मजम् ॥ ३५ ॥


एवं स्त्रीत्वम् अनुप्राप्तः सुद्युम्नः मानवः नृपः।
सस्मार स्व-कुल-आचार्यम् वसिष्ठम् इति शुश्रुम ॥ ३६ ॥

सः तस्य ताम् दशाम् दृष्ट्वा कृपया भृश-पीडितः।
सुद्युम्नस्य आशयन् पुंस्त्वम् उपाधावत शङ्करम् ॥ ३७ ॥

तुष्टः तस्मै सः भगवान् ऋषये प्रियम् आवहन्।
स्वाम् च वाचम् ऋताम् कुर्वन् इदम् आह विशाम्-पते ॥ ३८ ॥

मासम् पुमान् सः भविता मासम् स्त्री तव गोत्रजः।
इत्थम् व्यवस्थया कामम् सुद्युम्नः अवतु मेदिनीम् ॥ ३९ ॥

आचार्य-अनुग्रहात् कामम् लब्ध्वा पुंस्त्वम् व्यवस्थया।
पालयामास जगतीम् न अभ्यनन्दन् स्म तम् प्रजाः ॥ ४० ॥

तस्य उत्कलः गयः राजन् विमलः च सुताः त्रयः।
दक्षिण-अपथ-राजानः बभूवुः धर्म-वत्सलाः ॥ ४१ ॥

ततः परिणते काले प्रतिष्ठान-पतिः प्रभुः।
पुरूरवसः उत्सृज्य गाम् पुत्राय गतः वनम् ॥ ४२ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे इलोपाख्याने प्रथमोध्याऽयः ॥ 1॥

No comments: