Followers

Search Here...

Saturday, 19 July 2025

ஸ்கந்தம் 9: அத்யாயம் 6 (சௌபரி முனிவர், மாந்தாதாவின் பெண்களை மணந்தார்) - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 சௌபரி முனிவர், மாந்தாதாவின் பெண்களை மணந்தார்

ஸ்கந்தம் 9: அத்யாயம் 6

श्रीशुक उवाच

विरूपः केतुमान् छम्भुः अम्बरीष-सुताः त्रयः।
विरूपात् पृषदश्वः अभूत् तत्-पुत्रः तु रथीतरः॥ 1

रथीतरस्य अप्रजस्य भार्यायाम् तन्तवे अर्थितः।
अङ्गिरा जनयामास ब्रह्मवर्चस्विनः सुतान्॥ 2

एते क्षेत्रे प्रसूताः वै पुनः तु आङ्गिरसाः स्मृताः।
रथीतराणाम् प्रवराः क्षत्र-उपेताः द्विजातयः॥ 3

क्षुवतः तु मनोः अजात् इक्ष्वाकुः घ्राणतः सुतः।
तस्य पुत्र-शत-ज्येष्ठाः विकुक्षि-निमि-दण्डकाः॥ 4

तेषाम् पुरस्तात् अभवन् आर्यावर्ते नृप नृपाः।
पञ्चविंशतिः पश्चात् च त्रयः मध्ये परे अन्यतः॥ 5

स एकदा अष्टका-श्राद्धे इक्ष्वाकुः सुतम् आदिशत्।
मांसम् आनियताम् मेध्यं विकुक्षे गच्छ मा-अचिरम्॥ 6

तथा इति स वनम् गत्वा मृगान् हत्वा क्रिया-अर्हणान्।
श्रान्तः बुभुक्षितः वीरः शशम् च अददात् अपस्मृतिः॥ 7

शेषम् निवेदयामास पित्रे तेन च तत् गुरुः।
चोदितः प्रोक्षणाय आह दुष्टम् एतत् अकर्मकम्॥ 8

ज्ञात्वा पुत्रस्य तत् कर्म गुरुणा अभिहितं नृपः।
देशात् निःसारयामास सुतं त्यक्त-विधिम् रुषा॥ 9

स तु विप्रेण संवादम् जापकेन समाचरन्।
त्यक्त्वा कलेवरम् योगी स तेन अवाप यत् परम्॥ 10

पितरि उपरते अभ्येत्य विकुक्षिः पृथिवीम् इमाम्।
शासत् ईजे हरिम् यज्ञैः शशाद इति विश्रुतः॥ 11

पुरञ्जयः तस्य सुतः इन्द्रवाह इति ईरितः।
ककुत्स्थः इति च अपि उक्तः शृणु नामानि कर्मभिः॥ 12

कृतान्तः आसीत् समरः देवानाम् सह दानवैः।
पार्ष्णि-ग्राहः वृतः वीरः देवैः दैत्य-पराजितैः॥ 13

वचनात् देव-देवस्य विष्णोः विश्व-आत्मनः प्रभोः।
वाहनत्वे वृतः तस्य बभूव इन्द्रः महा-वृषः॥ 14

स सन्नद्धः धनुः दिव्यम् आदाय विशिखान् चितान्।
स्तूयमानः समारुह्य युयुत्सुः ककुदि स्थितः॥ 15

तेजसा आप्यायितः विष्णोः पुरुषस्य पर-आत्मनः।
प्रतीच्याम् दिशि दैत्यानाम् न्यरुणत् त्रिदशैः पुरम्॥ 16

तैः तस्य च अभूत् प्रधनं तुमुलं लोम-हर्षणम्।
यमाय भल्लैः अनयत् दैत्यान् ये अभिययुः मृधे॥ 17

तस्य इषु-पात-अभिमुखं युग-अन्त-अग्निम् इव उल्बणम्।
विसृज्य दुद्रुवुः दैत्या हन्यमानाः स्वम् आलयम्॥ 18

जित्वा परम् धनम् सर्वम् स-श्रीकम् वज्र-पाणये।
प्रत्ययच्छत् स राजर्षिः इति नामभिः आहृतः॥ 19

पुरञ्जयस्य पुत्रः अभूत् अनेनः तत्-सुतः पृथुः।
विश्वरन्धिः ततः चन्द्रः युवनाश्वः च तत्-सुतः॥ 20

शाबस्तः तत्-सुतः येन शाबस्ती निर्ममे पुरी।
बृहदश्वः तु शाबस्तिः ततः कुवलयाश्वकः॥ 21

यः प्रिय-अर्थम् उतङ्कस्य धुन्धुनाम् आसुरम् बली।
सुतानाम् एक-विंशत्या सहस्रैः अहनत् वृतः॥ 22

धुन्धुमार इति ख्यातः तत्-सुताः ते च जज्वलुः।
धुन्धोः मुख-अग्निना सर्वे त्रयः एव अवशेषिताः॥ 23

दृढाश्वः कपिलाश्वः च भद्राश्वः इति भारत।
दृढाश्व-पुत्रः हर्यश्वः निकुम्भः तत्-सुतः स्मृतः॥ 24

बर्हेणाश्वः निकुम्भस्य कृशाश्वः अथ अस्य सेनजित्।
युवनाश्वः अभवत् तस्य सः अनपत्यः वनं गतः॥ 25

भार्या-शतेन निर्विण्णः ऋषयः अस्य कृपालवः।
इष्टिं स्म वर्तयाञ् चक्रुः ऐन्द्रीं ते सु-समाहिताः॥ 26

राजा तत् यज्ञ-सदनं प्रविष्टः निशि तर्षितः।
दृष्ट्वा शयानान् विप्रान् तान् पपौ मन्त्र-जलम् स्वयम्॥ 27

उत्थिताः ते निशम्य अथ व्युदकं कलशं प्रभो।
पप्रच्छुः कस्य कर्म एतत् पीतं पुंसवनं जलम्॥ 28

राज्ञा पीतं विदित्वा अथ ईश्वर-प्रहितेन ते।
ईश्वराय नमः चक्रुः अहो दैव-बलं बलम्॥ 29

ततः काले उपावृत्ते कुक्षिं निर्भिद्य दक्षिणम्।
युवनाश्वस्य तनयः चक्रवर्ती जजान ह॥ 30

कं धास्यति कुमारः अयम् स्तन्यम् रोरूयते भृशम्।
"मां धाता वत्स मा रोदीः" इति इन्द्रः देशनीम् अदात्॥ 31

न ममार पिता तस्य विप्र-देव-प्रसादतः।
युवनाश्वः अथ तत्र एव तपसा सिद्धिम् अन्वगात्॥ 32

त्रसद्दस्युः इति इन्द्रः अङ्ग विदधे नाम यस्य वै।
यस्मात् त्रसन्ति हि उद्विग्नाः दस्यवः रावण-आदयः॥ 33

यौवनाश्वः अथ मान्धाता चक्रवर्ती अवनीम् प्रभुः।
सप्त-द्वीप-वतीम् एकः शशास अच्युत-तेजसा॥ 34

ईजे च यज्ञं क्रतुभिः आत्म-वित् भू-रि-दक्षिणैः।
सर्व-देव-मयं देवं सर्व-आत्मकम् अति-इन्द्रियम्॥ 35

द्रव्यम् मन्त्रः विधिः यज्ञः यजमानः तथा ऋत्विजः।
धर्मः देशः च कालः च सर्वम् एतत् यत् आत्मकम्॥ 36

यावत् सूर्यः उदेति स्म यावत् च प्रतितिष्ठति।
सर्वं तत् यौवनाश्वस्य मान्धातुः क्षेत्रम् उच्यते॥ 37

शशबिन्दोः दुहितरि बिन्दुमत्याम् अधात् नृपः।
पुरुकुत्सम् अम्बरीषम् मुचुकुन्दं च योगिनम्॥ 

तेषां स्वसारः पञ्चाशत् सौभरिं वव्रिरे पतिम्। 38

यमुनाअन्तर्जले मग्नः तप्यमानः परंतपः॥ 

निर्वृतिं मीन-राजस्य वीक्ष्य मैथुन-धर्मिणः। 39
जात-स्पृहः नृपं विप्रः कन्याम् एकाम् अयाचत॥ 

सोऽपि आह "गृह्यतां ब्रह्मन् कामं कन्या स्वयं-वरे"॥ 40

सः विचिन्त्य अप्रियम् स्त्रीणाम् जरठः अयम् असम्मतः।
वली-पालित-एजत्-कः इति अहम् प्रत्युदाहृतः॥ 41

साधयिष्ये तथा आत्मानम् सुर-स्त्रीणाम् अपि ईप्सितम्।
किं पुनः मनुज-इन्द्राणाम् इति व्यवसितः प्रभुः॥ 42

मुनिः प्रवेशितः क्षत्त्रा कन्या-अन्तःपुरम् ऋद्धिमत्।
वृतः सः राज-कन्याभिः एकः पञ्चाशता वरः॥ 43

तासाम् कलिः अभूत् भूयान् तत्-अर्थे अपोह्य सौहृदम्।
मम अनुरूपः न अयम् वा इति तत्-गत-चेतसाम्॥ 44

सः बहु-ऋचः ताभिः अपारणीय-
तपः-श्रिया अनर्घ्य-परिच्छदेषु।
गृहेषु नाना-उपवन-अमल-अम्भः
सरःसु सौगन्धिक-काननेषु॥ 45

महार्ह-शय्या-आसन-वस्त्र-भूषण-
स्नान-अनुलेप-अभ्यवहार-माल्यकैः।
सु-अलङ्कृत-स्त्री-पुरुषेषु नित्यदा
रेमे अनुगायन् द्विज-भृङ्ग-वन्दिषु॥ 46

यत् गार्हस्थ्यम् तु संवीक्ष्य सप्त-द्वीप-वती-पतिः।
विस्मितः स्तम्भम् अजहात् सार्व-भौम-श्रिया अन्वितम्॥ 47

एवम् गृहेषु अभिरतः विषयान् विविधैः सुखैः।
सेवमानः न च अतुष्यत आज्य-स्तोकैः इव अनलः॥ 48

सः कदाचित् उपासीनः आत्मा-अपह्नवम् आत्मनः।
ददर्श बहु-ऋच-आचार्यः मीन-सङ्ग-समुत्थितम्॥ 49

अहो इमम् पश्यत मे विनाशम्
तपस्विनः सत्-चरित-व्रतस्य।
अन्तः-जले वारि-चर-प्रसङ्गात्
प्रच्यावितम् ब्रह्म चिरम् धृतम् यत्॥ 50

सङ्गम् त्यजेत् मिथुन-व्रतीनाम् मुमुक्षुः।
सर्व-आत्मना न विसृजेत् बहिः-इन्द्रियाणि।
एकः चरन् रहसि चित्तम् अनन्त-ईशे
युञ्जीत तत्-व्रतिषु साधुषु चेत् प्रसङ्गः॥ 51

एकः तपस्वी अहम् अथ अम्भसि मत्स्य-सङ्गात्
पञ्चाशत् असम् उत पञ्च-सहस्र-सर्गः।
न अन्तम् व्रजामि उभय-कृत्यम् मनः-रथानाम्
माया-गुणैः हृत-मतिः विषये अर्थ-भावः॥ 52

एवम् वसन् गृहे कालम् विरक्तः न्यासम् आस्थितः।
वनम् जगाम अनुययुः तत्-पत्न्यः पति-देवताः॥ 53

तत्र तप्त्वा तपः तीक्ष्णम् आत्म-कर्शनम् आत्मवान्।
सः एव अग्निभिः आत्मानम् युयोज परम-आत्मनि॥ 54

ताः स्व-पत्युः महा-राज निरीक्ष्य अध्यात्मिकीम् गतिम्।
अन्वीयुः तत्-प्रभावेण अग्निम् शान्तम् इव अर्चिषः॥ 55

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे सौभर्याख्याने षष्ठोऽध्यायः ॥6॥

No comments: