புரூரவஸ் பரம்பரை
ஸ்கந்தம் 9: அத்யாயம் 2
श्री-शुकः उवाच।
एवम् गते अथ सुद्युम्ने मनुः वैवस्वतः सुते।
पुत्र-कामः तपः तेपे यमुनायाम् शतम् समाः ॥ १ ॥
ततः अयजत् मनुः देवम् अपत्य-अर्थम् हरिम् प्रभुम्।
इक्ष्वाकु-पूर्वजान् पुत्रान् लेभे स्व-सदृशान् दश ॥ २ ॥
पृषध्रः तु मनोः पुत्रः गो-पालः गुरुणा कृतः।
पालयाम् आस गाः यत्तः रात्र्याम् वीर-आसन-व्रतः ॥ ३ ॥
एकदा प्राविशत् गोष्ठम् शार्दूलः निशि वर्षति।
शयानाः गावः उत्थाय भीताः ताः बभ्रमुः व्रजे ॥ ४ ॥
एकाम् जग्राह बलवान् सा चुक्रोश भय-आतुरा।
तस्याः तत् क्रन्दितम् श्रुत्वा पृषध्रः अभिससार ह ॥ ५ ॥
खड्गम् आदाय तरसा प्रलीन-उडुगणे निशि।
अजानन् अहनत् बभ्रोः शिरः शार्दूल-शङ्कया ॥ ६ ॥
व्याघ्रः अपि वृक्ण-श्रवणः निस्त्रिंश-अग्र-आहतः ततः।
निश्चक्राम भृशम् भीतः रक्तम् पथि समुत्सृजन् ॥ ७ ॥
मन्यमानः हतम् व्याघ्रम् पृषध्रः पर-वीर-हा।
अद्राक्षीत् स्व-हताम् बभ्रुम् व्युष्टायाम् निशि दुःखितः ॥ ८ ॥
तम् शशाप कुल-आचार्यः कृत-अगसम् अकामतः।
न क्षत्र-बन्धुः शूद्रः त्वम् कर्मणा भविता अमुना ॥ ९ ॥
एवम् शप्तः तु गुरुणा प्रत्यगृह्णात् कृत-अञ्जलिः।
अधारयत् व्रतम् वीरः ऊर्ध्व-रेता मुनि-प्रियः ॥ १० ॥
वासुदेवे भगवति सर्व-आत्मनि परे अमले।
एकान्तित्वम् गतः भक्त्या सर्व-भूत-सुहृत् समः ॥ ११ ॥
विमुक्त-सङ्गः शान्त-आत्मा संयत-अक्षः अ-परिग्रहः।
यदृच्छया उपपन्नेन कल्पयन् वृत्तिम् आत्मनः ॥ १२ ॥
आत्मनि आत्मानम् आधाय ज्ञान-तृप्तः समाहितः।
विचचार महीम् एताम् जड-अन्ध-बधिर-आकृतिः ॥ १३ ॥
एवम्-वृत्तः वनम् गत्वा दृष्ट्वा दाव-अग्निम् उत्थितम्।
तेन उपयुक्त-करणः ब्रह्म प्राप परम् मुनिः ॥ १४ ॥
कविः कनीयान् विषयेषु निःस्पृहः
विसृज्य राज्यं सह बन्धुभिः वनम्।
निवेश्य चित्ते पुरुषं स्व-रोचिषम्
विवेश कैशोर-वयाः परम् गतः ॥ १५ ॥
करूषात् मानवाद् आसन् कारूषाः क्षत्र-जातयः।
उत्तर-आ-पथ-गोप्तारः ब्रह्मण्या धर्म-वित्सलाः ॥ १६ ॥
धृष्टात् धार्ष्टम् अभूत् क्षत्रम् ब्रह्म-भूयम् गतं क्षितौ।
नृगस्य वंशः सुमतिः भूत-ज्योतिः ततः वसुः ॥ १७ ॥
वसोः प्रतीकः तत् पुत्रः ओघवान् ओघवत् पिता।
कन्या च ओघवती नाम सुदर्शनः उवाह ताम् ॥ १८ ॥
चित्रसेनः नरिष्यन्तात् ऋक्षः तस्य सुतः अभवत्।
तस्य मीढ्वान् ततः कूर्चः इन्द्रसेनः तु तत् सुतः ॥ १९ ॥
वीतिहोत्रः तु इन्द्रसेनात् तस्य सत्य-श्रवाः अभूत्।
उरु-श्रवाः सुतः तस्य देव-दत्तः ततः अभवत् ॥ २० ॥
ततः अग्निवेश्यः भगवान् अग्निः स्वयम् अभूत् सुतः।
कानीनः इति विख्यातः जातूकर्ण्यः महान् ऋषिः ॥ २१ ॥
ततः ब्रह्म-कुलम् जातम् आग्निवेश्यायनम् नृप।
नरिष्यन्त-अन्वयः प्रोक्तः दिष्ट-वंशम् अतः शृणु ॥ २२ ॥
नाभागः दिष्ट-पुत्रः अन्यः कर्मणा वैश्यताम् गतः।
भलन्दनः सुतः तस्य वत्सप्रीतिः भलन्दनात् ॥ २३ ॥
वत्सप्रीतेः सुतः प्रांशुः तत् सुतम् प्रमतिम् विदुः।
खनित्रः प्रमतेः तस्मात् चाक्षुषः अथ विविंशतिः ॥ २४ ॥
विविंशति-सुतः रम्भः खनिनेत्रः अस्य धार्मिकः।
करन्धमः महाराज तस्य आसीत् आत्मजः नृप ॥ २५ ॥
तस्य आवीक्षित् सुतः यस्य मरुत्तः चक्रवर्ती अभूत्।
संवर्तः अयाजयत् यम् वै महा-योगी अङ्गिरः-सुतः ॥ २६ ॥
मरुत्तस्य यथा यज्ञः न तथा अन्यस्य कश्चन।
सर्वम् हिरण्मयम् तु आसीत् यत् किञ्चित् च अस्य शोभनम् ॥ २७ ॥
अमाद्यत् इन्द्रः सोमेन दक्षिणाभिः द्विजातयः।
मरुतः परिवेष्टारः विश्वे-देवाः सभासदः ॥ २८ ॥
मरुत्तस्य दमः पुत्रः तस्य आसीत् राज्यवर्धनः।
सुधृतिः तत् सुतः जज्ञे सौधृतेयः नरः सुतः ॥ २९ ॥
तत् सुतः केवलः तस्मात् बन्धुमान् वेगवान् ततः।
बन्धुः तस्य अभवत् यस्य तृणबिन्दुः महीपतिः ॥ ३० ॥
तम् भेजे अलम्बुषा देवी भजनीय-गुण-आलयम्।
वर-अप्सरा यतः पुत्राः कन्या च एडविटा अभवत् ॥ ३१ ॥
तस्याम् उत्पादयामास विश्रवाः धनदम् सुतम्।
प्रादाय विद्याम् परमाम् ऋषिः योगेश्वरात् पितुः ॥ ३२ ॥
विशालः शून्यबन्धुः च धूम्रकेतुः च तत् सुताः।
विशालः वंश-कृत् राजा वैशालीम् निर्ममे पुरीम् ॥ ३३ ॥
हेमचन्द्रः सुतः तस्य धूम्राक्षः तस्य च आत्मजः।
तत् पुत्रात् संयमात् आसीत् कृशाश्वः सहदेवजः ॥ ३४ ॥
कृशाश्वात् सोमदत्तः अभूत् यः अश्वमेधैः इडस्पतिम्।
इष्ट्वा पुरुषम् आप अग्र्याम् गतिम् योगेश्वर-आश्रितः ॥ ३५ ॥
सौमदत्तिः तु सुमतिः तत् सुतः जनमेजयः।
एते वैशाल-भूपालाः तृणबिन्दोः यशोधराः ॥ ३६ ॥
No comments:
Post a Comment