புரூரவஸ் பரம்பரை
ஸ்கந்தம் 9: அத்யாயம் 15
श्री-शुक उवाच
ऐलस्य च उर्वशी-गर्भात् षट् आसन् आत्मजाः नृप।
आयुः श्रुत-आयुः सत्य-आयुः रयः अथ विजयः जयः ॥ १ ॥
श्रुत-आयोः वसुमान् पुत्रः सत्य-आयोः च श्रुत-अञ्जयः।
रयस्य सुतः एकः च जयस्य तनयः अमितः ॥ २ ॥
भीमः तु विजयस्य अथ काञ्चनः होत्रकः ततः।
तस्य जह्नुः सुतः गङ्गाम् गण्डूषीकृत्य यः अपिबत्।
जह्नोः तु पूरुः तत्-पुत्रः बलाकः च आत्मजः अजकः ॥ ३ ॥
ततः कुशः कुशस्य अपि कुशाम्बुः तनयः वसुः।
कुशनाभः च चत्वारः गाधिः आसीत् कुशाम्बुजः ॥ ४ ॥
तस्य सत्यवतीम् कन्याम् ऋचीकः अयाचत द्विजः।
वरम् विसदृशम् मत्वा गाधिः भार्गवम् अब्रवीत् ॥ ५ ॥
एकतः श्याम-कर्णानाम् हयानाम् चन्द्र-वर्चसाम्।
सहस्रम् दीयताम् शुल्कम् कन्यायाः कुशिकाः वयम् ॥ ६ ॥
इति उक्तः तत् मतम् ज्ञात्वा गतः सः वरुण-अन्तिकम्।
आनीय दत्त्वा तान् अश्वान् उपयेमे वर-अननाम् ॥ ७ ॥
सः ऋषिः प्रार्थितः पत्न्या श्वश्र्वा च अपत्य-काम्यया।
श्रपयित्वा उभयैः मन्त्रैः चरुम् स्नातुम् गतः मुनिः ॥ ८ ॥
तावत् सत्यवती मात्रा स्व-चरुम् याचिता सती।
श्रेष्ठम् मत्वा तया अयच्छत् मात्रे मातुः अदत् स्वयं ॥ ९ ॥
तत् विज्ञाय मुनिः प्राह पत्नीम् कष्टम् अकारषीः।
घोरः दण्ड-धरः पुत्रः भ्राता ते ब्रह्म-वित् तमः ॥ १० ॥
प्रसादितः सत्यवत्या मा एवम् भूः इति भार्गवः।
अथ तर्हि भवेत् पौत्रः जमदग्निः ततः अभवत् ॥ ११ ॥
सा च अभूत् सु-महा-पुण्या कौशिकी लोक-पावनी।
रेणोः सुताम् रेणुकाम् वै जमदग्निः उवाह याम् ॥ १२ ॥
तस्याम् वै भार्गव-ऋषेः सुताः वसुमत्-आदयः।
यवीयान् जज्ञे एतेषाम् रामः इति अभिविश्रुतः ॥ १३ ॥
यम् आहुः वासुदेव-अंशम् हैहयानाम् कुल-अन्तकम्।
त्रिः-सप्त-कृत्वः यः इमाम् चक्रे निः-क्षत्रियां महीम् ॥ १४ ॥
दुष्टम् क्षत्रम् भुवः भारम् अब्रह्मण्यम् अनीनशत्।
रजः-तमः-आवृतम् अहन् फल्गुन्याम् अपि कृते अहसि ॥ १५ ॥
श्री-राजा उवाच
किम् तत् अंहो भगवतঃ राजन्यैः अजित-आत्मभिः।
कृतम् येन कुलम् नष्टम् क्षत्रियाणाम् अभीक्ष्णशः ॥ १६ ॥
श्री-शुक उवाच
हैहयानाम् अधिपतिः अर्जुनः क्षत्रिय-ऋषभः।
दत्तम् नारायणस्य अंशम् आराध्य परिकर्मभिः ॥ १७ ॥
बाहून् दश-शतम् लेभे दुर्धर्षत्वम् अरातिषु।
अव्याहत-इन्द्रिय-ओजः श्री-तेजः-वीर्य-यशः-बलम् ॥ १८ ॥
योग-ईश्वरत्वम् ऐश्वर्यम् गुणाः यत्र अणिम-आदयः।
चचार अव्याहत-गतिः लोकेषु पवनः यथा ॥ १९ ॥
स्त्री-रत्नैः आवृतः क्रीडन् रेवाम् भसि मद-उत्कटः।
वैजयन्तीम् स्रजम् बिभ्रत् रुरोध सरितम् भुजैः ॥ २० ॥
विप्लावितम् स्व-शिबिरम् प्रति-स्रोतः-सरित्-जलैः।
न अमृष्यत तस्य तत् वीर्यम् वीर-मानी दश-अननः ॥ २१ ॥
गृहीतः लीलया स्त्रीणाम् समक्षम् कृत-किल्बिषः।
माहिष्मत्याम् सन्-निरुद्धः मुक्तः येन कपिः यथा ॥ २२ ॥
सः एकदा तु मृगयाम् विचरन् विपिने वने।
यदृच्छया आश्रम-पदम् जमदग्नेः उपाविशत् ॥ २३ ॥
तस्मै सः नर-देवाय मुनिः अर्हणम् आहरत्।
स-सैन्य-अमात्य-वाहाय हविष्मत्या तपो-धनः ॥ २४ ॥
सः वीरः तत्र तत् दृष्ट्वा आत्म-ऐश्वर्य-अतिशायनम्।
तत् न आद्रियत अग्नि-होत्र्याम् स-अभिलाषः सः हैहयः ॥ २५ ॥
हविः-धानीम् ऋषेः दर्पात् नरान् हर्तुम् अचोदयत्।
ते च माहिष्मतीम् निन्युः स-व्त्साम् क्रन्दतीम् बलात् ॥ २६ ॥
अथ राजनि निर्याते रामः आश्रमम् आगतः।
श्रुत्वा तत् तस्य दौर्मात्म्यम् चुक्रोध अहिः इव आहतः ॥ २७ ॥
घोरम् आदाय परशुम् स-तूणम् चर्म कार्मुकम्।
अन्वधावत दुर्धर्षः मृग-इन्द्रः इव यूथपम् ॥ २८ ॥
तम् आपतन्तम् भृगु-वर्यम् ओजसा
धनुः-धरम् बाण-परश्वध-अयुधम्।
ऐणेय-चर्म-अम्बरम् अर्क-धामभिः
युतम् जटाभिः ददृशे पुरीम् विशन् ॥ २९ ॥
अचोदयत् हस्ति-रथ-अश्व-पत्तिभिः
गदा-असि-बाण-ऋष्टि-शतघ्नि-शक्तिभिः।
अक्षौहिणीः सप्त-दश अति-भीषणाः
ता रामः एकः भगवान् असूदयत् ॥ ३० ॥
यतः यतः असौ प्रहरत् परश्वधः
मनः-अनिल-ओजाः पर-चक्र-सूदनः।
ततः ततः छिन्न-भुज-ऊरु-कन्धराः
निपेतुः उर्व्याम् हत-सूत-वाहनाः ॥ ३१ ॥
दृष्ट्वा स्व-सैन्यम् रुधिर-ओघ-कर्दमे
रण-अजिरे राम-कुठार-सायकैः।
विवृक्ण-चर्म-ध्वज-चाप-विग्रहम्
निपातितम् हैहयः आपतत् रुषा ॥ ३२ ॥
अथ अर्जुनः पञ्च-शतेषु बाहुभिः
धनुःषु बाणान् युगपत् सः सन्दधे।
रामाय रामः अस्त्र-भृताम् समग्रणीः
तान् एक-धन्व-एषुभिः आच्छिनत् समम् ॥ ३३ ॥
पुनः स्व-हस्तैः अचलान् मृधे अङ्घ्रिपान्
उत्क्षिप्य वेगात् अभिधावतः युधि।
भुजान् कुठारेण कठोर-नेमिना
चिच्छेद रामः प्रसभम् तु अहेः इव ॥ ३४ ॥
कृत्त-बाहोः शिरः तस्य गिरेः श्रृङ्गम् इव आहरत्।
हते पितरि तत्-पुत्राः अयुतम् दुद्रुवुः भयात् ॥ ३५ ॥
अग्नि-होत्रीम् उपावर्त्य स-व्त्साम् पर-वीर-हा।
समुपेत्य आश्रमम् पित्रे परिक्लिष्टाम् समर्पयत् ॥ ३६ ॥
स्व-कर्म तत् कृतम् रामः पित्रे भ्रातृभ्यः एव च।
वर्णयामास तत् श्रुत्वा जमदग्निः अभाषत ॥ ३७ ॥
राम राम महा-बाहो भवान् पापम् अकार्षीत्।
अवधीः नर-देवम् यत् सर्व-देव-मयम् वृथा ॥ ३८ ॥
वयम् हि ब्राह्मणाः तात क्षमया अर्हणताम् गताः।
यया लोक-गुरुः देवः पारमेष्ठ्यम् अगात् पदम् ॥ ३९ ॥
क्षमया रोचते लक्ष्मीः ब्राह्मी सौरी यथा प्रभा।
क्षमिणाम् आशु भगवान् तुष्यते हरिः ईश्वरः ॥ ४० ॥
राज्ञः मूर्धा-अभिषिक्तस्य वधः ब्रह्म-वधात् गुरुः।
तीर्थ-संसेवया च अंहः जहि अङ्ग अच्युत-चेतनः ॥ ४१ ॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायां नवम-स्कन्धे पञ्चदशोऽध्यायः ॥ १५ ॥
No comments:
Post a Comment