Followers

Search Here...

Friday, 11 April 2025

ஸ்கந்தம் 10: அத்யாயம் 31 (கண்ணனை பிரிந்து கோபிகைகள் பாடுகிறார்கள் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணனை பிரிந்து கோபிகைகள் பாடுகிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 31


गोप्यः ऊचुः —
जयति ते अधिकम् जन्मना व्रजः
श्रयते इन्दिरा शश्वत् अत्र हि ।
दयित दृश्यताम् दिक्षु तावकाः
त्वयि धृत-आसवाः त्वाम् विचिन्वते ॥१॥

शरत्-उदाशये साधु-जात-सत्
सरसिज-उदर-श्रीम् उषा दृशा ।
सुरत-नाथ ते अशुल्क-दासिका
वरद निघ्नतः न इह किम् वधः ॥२॥

विष-जल-आप्ययात् व्याल-राक्षसात्
वर्ष-मारुतात् वैद्युत-अनलात् ।
वृष-मय-आत्मजात् विश्वतः भयात्
ऋषभ ते वयम् रक्षिता मुहुः ॥३॥

न खलु गोपीका-आनन्दनः भवाः
न अखिल-देहिनाम् अन्तर-आत्म-दृक् ।
विखनस-आर्थितः विश्व-गुप्तये
सखः उदेयिवान् सात्वताम् कुले ॥४॥

विरचित-अभयम् वृष्णि-धूर्य ते
चरणम् ईयुषाम् संसृतेः भयात् ।
कर-सरोरुहम् कान्त कामदम्
शिरसि धेहि नः श्री-कृत-ग्रहम् ॥५॥

व्रज-जन-आर्ति-हन् वीर योषिताम्
निज-जन-स्मय-ध्वंसन-स्मित ।
भज सखे भवत् किंकरीः स्म नः
जल-रुह-आननम् चारु दर्शय ॥६॥

प्रणत-देहिनाम् पाप-कर्त्सनम्
तृण-चर-अनुगम् श्री-निकेतनम् ।
फणि-फणा-अर्पितम् ते पद-अम्बुजम्
कृणु कुचेषु नः कृन्धि हृत्-शयम् ॥७॥

मधुरया गिरा वल्गु-वाक्यया
बुध-मनोज्ञया पुष्कर-ईक्षण ।
विधि-कर-ईरिमा वीर मुह्यतीः
रध-रस-ईधुना आप्याययस्व नः ॥८॥

तव कथा-अमृतम् तप्त-जीवनम्
कविभिः ईडितम् कल्मष-अपहम् ।
श्रवण-मङ्गलम् श्रीमत् आततम्
भुवि गृणन्ति ते भूरिदा जनाः ॥९॥

प्रहसितम् प्रिय प्रेम-वीक्षणम्
विहरणम् च ते ध्यान-मङ्गलम् ।
रहसि संविदः याः हृत्-इस्पृशः
कुहक नः मनः क्षोभयन्ति हि ॥१०॥

चलसि यत् व्रजात् चारयन् पशून्
नलिन-सुन्दरम् नाथ ते पदम् ।
शिल-तृण-अङ्कुरैः सीदति इति नः
कलिलताम् मनः कान्त गच्छति ॥११॥

दिन-परिक्षये नील-कुन्तलैः
वन-रुह-आननम् बिभ्रत्-आवृतम् ।
घन-रजः-स्वलम् दर्शयन् मुहुः
मनसि नः स्मरम् वीर यच्छसि ॥१२॥

प्रणत-कामदम् पद्मजा-अर्चितम्
धरणि-मण्डनम् ध्येयम् आपदि ।
चरण-पङ्कजम् शान्तम् अम् च ते
रमण नः स्तनेषु अर्पय अधिहन् ॥१३॥

सुरत-वर्धनम् शोक-नाशनम्
स्वरित-वेणुना सुष्ठु चुम्बितम् ।
इतर-राग-विस्मारणम् नृणाम्
वितर वीर नः ते अधर-अमृतम् ॥१४॥

अटति यत् भवान् अह्नि काननम्
त्रुटिः युगायते त्वाम् अपश्यताम् ।
कुटिल-कुन्तलम् श्री-मुखम् च ते
जडः उदीक्षताम् पक्ष्म-कृत् दृशाम् ॥१५॥

पति-सुत-अन्वय-भ्रातृ-बान्धवान्
अति-विलङ्घ्य ते अन्त्य-अच्युत-आगताः ।
गति-विदः तव उद्गीत-मोहिताः
कितव योषितः कः त्यजेत् निशि ॥१६॥

रहसि संविदम् हृत्-शय-उदयं
प्रहसित-आननम् प्रेम-वीक्षणम् ।
बृहद्-उरः श्रियः वीक्ष्य धाम ते
मुहु: अति-स्पृहा मुह्यते मनः ॥१७॥

व्रज-वन-औकसाम् व्यक्तिः अङ्ग ते
वृजिन-हन्त्री अलम् विश्व-मङ्गलम् ।
त्यज मनाक् च नः त्वत्-स्पृहा-आत्मनाम्
स्वजन-हृत्-रुजाम् यत् निषूदनम् ॥१८॥

यत् ते सुजात-चरण-अम्बुरुहम् स्तनेषु
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेन अटवीम् अटसि तत् व्यथते न किम् स्वित्
कूर्पादिभिः भ्रमति धीः भवत्-आयुषाम् नः ॥१९॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं 
नामैकत्रिंशोऽध्यायः ॥ ३१ ॥ 

ஸ்கந்தம் 10: அத்யாயம் 30 (கண்ணனை கோபியர்கள் தேடுகிறார்கள் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணனை கோபியர்கள் தேடுகிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 30


श्री-शुकः उवाच –
अन्तर्हिते भगवति सहसा एव व्रज-अङ्गनाः।
अतप्यन् तम् अचक्षाणाः करिण्यः इव यूथपम्॥ 1

गति-अनुराग-स्मित-विभ्रम-ईक्षितैः
मनोरम-आलाप-विहार-विभ्रमैः।
आक्षिप्त-चित्ताः प्रमदाः रमा-पतेः
ताः ताः विचेष्टाः जगृहुः तत्-आत्मिकाः॥ 2

गति-स्मित-प्रेक्षण-भाषण-आदिषु
प्रियाः प्रियस्य प्रति-रूढ-मूर्तयः।
असौ अहम् इति अबलाः तत्-आत्मिकाः
न्यवेदिषुः कृष्ण-विहार-विभ्रमाः॥ 3

गायन्त्यः उच्चैः अमुम् एव संहताः
विचिक्युः उन्मत्तक-वद् वनात् वनम्।
पप्रच्छुः आकाशवत् अन्तरम् बहिः
भूतेषु सन्तम् पुरुषम् वनस्पतीन्॥ 4

दृष्टः वः कचित् अश्वत्थ-प्लक्ष-न्यग्रोधाः
नः मनः-नन्द-सूनुः गतः हृत्वा
प्रेम-हास-आवलोकनैः॥ 5

कचित् कुरबक-अशोक-नाग-पुन्नाग-चम्पकाः।
राम-अनुजः मानिनीनाम् इतः
दर्प-हर-स्मितः दृष्टः॥ 6

कचित् तुलसि कल्याणि गोविन्द-चरण-प्रिये।
सह त्वा आलि-कुलैः बिभ्रत् दृष्टः ते
अति-प्रियः अच्युतः॥ 7

मालति अदर्शि वः कचित् मल्लिके जाति-यूथिके।
प्रीतिम् वः जनयन् यातः कर-स्पर्शेन माधवः॥ 8

चूत-प्रियाल-पनस-आसनक-ओविदार-
जम्बु-अर्क-बिल्व-बकुल-आम्र-कदम्ब-नीपाः।
ये अन्ये पर-अर्थ-भवकाः यमुना-उपकूलाः
शंसन्तु कृष्ण-पदवीं रहित-आत्मनाम् नः॥ 9

किं ते कृतम् क्षिति-तपः बत केशव-अङ्घ्रि-
स्पर्श-उत्सव-उत्पुलकित-अङ्गरुहैः विभासि।
अपि अङ्घ्रि-सम्भवः उरुक्रम-विक्रमात् वा
आहो वराह-वपुषः परिरम्भणेन॥ 10

अपि एण-पत्न्याः उपगतः प्रियया इह गात्रैः
तन्वन् दृशाम् सखि सु-निर्वृतिम् अच्युतः वः।
कान्त-अङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः
कुन्द-स्रजः कुल-पतेः इह वाति गन्धः॥ 11॥

बाहुं प्रियांसः उपधाय गृहीत-पद्मः
राम-अनुजः तुलसि-कालि-कुलैः मद-अन्धैः।
अन्वीयमानः इह वः तरवः प्रणामम्
किम् वा अभिनन्दति चरन् प्रणय-आवलोकैः॥ 12॥

पृच्छते इमाः लताः बाहून् अपि आश्लिष्टाः वनस्पतेः।
नूनम् तत्-करज-स्पृष्टाः बिभ्रति उत्पुलकान् अहो॥ 13॥

इति उन्मत्त-वचः गोप्यः कृष्ण-अन्वेषण-कातराः।
लीलाम् भगवतः ताः ताः हि अनुचक्रुः तत्-आत्मिकाः॥ 14॥

कस्याःचित् पूतनायन्त्याः कृष्ण-आयन्त्या अपिबत् स्तनम्।
तोकायित्वा रुदति अन्या पद-आहन् शकट-आयतीम्॥ 15॥

दैत्यायित्वा जहार अन्याम् एकः कृष्ण-अर्भ-भावनाम्।
रिङ्गयामास का अपि अङ्घ्री कर्षन्ती घोष-निःस्वनैः॥ 16॥

कृष्ण-राम-आयिते द्वे तु गोप-आयन्त्यः च काश्चन।
वत्स-आयतीम् हन्ति च अन्या तत्र एका तु बक-आयतीम्॥ 17॥

आहूय दूर-गाम् यद्वत् कृष्णः तम् अनु कुर्वतीम्।
वेणुम् क्वणन्तीम् क्रीडन्तीम् अन्याः शंसन्ति साधु इति॥ 18॥

कस्याञ्चित् स्व-भुजम् न्यस्य चलन्त्या आह अपरा ननु।
कृष्णः अहम् पश्यत गतिम् ललिताम् इति तत्-मनाः॥ 19॥

मा भैष्ट वात-वर्षाभ्याम् तत्-त्राणम् विहितम् मया।
इति उक्त्वा एकेन हस्तेन यतन्त्युः निनिदहे अम्बरम्॥ 20॥

आरुह्य एका पदा आक्रम्य शिरसि आह अपराम् नृप ।
दुष्टा अहे गच्छ जातः अहम् खलानाम् ननु दण्डकृत् ॥२१॥

तत्र एकः उवाच हे गोपाः दावाग्निम् पश्यत उलबणम् ।
चक्षूंषि आशु अपिदध्वम् वः विधास्ये क्षेमम् अञ्जसा ॥२२॥

बद्धानि अया स्रजा काचित् तन्वी तत्र उलूखले ।
भीता सुदृक् पिधाय आस्यम् भेजे भीति विडम्बनम् ॥२३॥

एवम् कृष्णम् पृच्छमानाः वृन्दावन लताः तरून् ।
व्यचक्षत वन-उद्देशे पदानि परमात्मनः ॥२४॥

पदानि व्यक्तम् एतानि नन्दसूनोः महात्मनः ।
लक्ष्यन्ते हि ध्वज-अम्भोज-वज्र-अङ्कुश-यव-आदिभिः ॥२५॥

तैः तैः पदैः तत् पदवीम् अन्विच्छन्त्यः अग्रतः अबलाः ।
वध्वः पदैः सुपृक्तानि विलोक्य आर्ताः समब्रुवन् ॥२६॥

कस्याः पदानि च एतानि यातायाः नन्दसूनुना ।
अंस-न्यस्त-प्रकोष्ठायाः करेणुः करिणा यथा ॥२७॥

अनया आराधितः नूनम् भगवान् हरिः ईश्वरः ।
यत् नः विहाय गोविन्दः प्रीतः याम् अनयत् रहः ॥२८॥

धन्याः अहो अमी आल्यः गोविन्द-अङ्घ्र्य-अब्ज-रेणवः ।
यान् ब्रह्म-ईशौ रमा देवी दधुः मूर्ध्नि अघनुत्तये ॥२९॥

तस्याः अमूनि नः क्षोभम् कुर्वन्ति उच्चैः पदानि यत् ।
या एका अपहृत्य गोपीनाम् रहः भुङ्क्ते अच्युत-अधरम् ॥३०॥

न लक्ष्यन्ते पदानि अत्र तस्याः नूनम् तृण-अङ्कुरैः ।
खिद्यत् सुजात-अङ्घ्रि-तलाम् उन्निन्ये प्रेयसीम् प्रियः ॥३१॥

इमानि अधिकम् अग्नानि पदानि वहतः वधूम् ।
गोप्यः पश्यत कृष्णस्य भार-आक्रान्तस्य कामिनः ॥३२॥

अत्र अवरोपिता कान्ता पुष्प-हेतोः महात्मना ।
अत्र प्रसून-अवचयः प्रिय-अर्थे प्रेयसा कृतः ।
प्रपद-आक्रमणः एते पश्यत असकले पदे ॥३३॥

केश-प्रसाधनम् तु अत्र कामिन्याः कामिना कृतम् ।
तानि चूडयता कान्ताम् उपविष्टम् इह ध्रुवम् ॥३४॥

रेमे तया च आत्म-रतः आत्मा-रामः अपि अखण्डितः ।
कामिनाम् दर्शयन् दैन्यम् स्त्रीणाम् चैव दुरात्मताम् ॥३५॥

इति एवम् दर्शयन्त्यः ताः चेरुः गोप्यः विचेतसः ।
याम् गोपीम् अनयत् कृष्णः विहाय अन्याः स्त्रियः वने ॥३६॥

सा च मेने तदा आत्मानम् वरिष्ठम् सर्व-योषिताम् ।
हित्वा गोपीः कामयानाः माम् असौ भजते प्रियः ॥३७॥

ततः गत्वा वन-उद्देशम् दृप्ता केशवम् अब्रवीत् ।
न पारये अहम् चलितुम् नय माम् यत्र ते मनः ॥३८॥

एवम् उक्तः प्रियाम् आह स्कन्धम् आरुह्यताम् इति ।
ततः च अन्तर्दधे कृष्णः सा वधूः अन्वतप्यत ॥३९॥

हा नाथ रमण प्रेष्ठ क्व असि क्व असि महा-भुज ।
दास्याः ते कृपणायाः मे सखे दर्शय सन्निधिम् ॥४०॥

अन्विच्छन्त्यः भगवतः मार्गम् गोप्यः अविदूरितः ।
ददृशुः प्रिय-विश्लेष-मोहिताम् दुःखिताम् सखीम् ॥४१॥

तया कथितम् आकर्ण्य मान-प्राप्तिम् च माधवात् ।
अवमानम् च दौःआत्म्यात् विस्मयम् परमम् ययुः ॥४२॥

ततः अविशन् वनम् चन्द्र-ज्योत्स्ना यावत् विभाव्यते ।
तमः प्रविष्टम् आलक्ष्य ततः निववृतुः स्त्रियः ॥४३॥

तत्-मनस्काः तत्-अलापाः तत्-विचेष्टाः तत्-आत्मिकाः ।
तत्-गुणान् एव गायन्त्यः न आत्म-गारा-अणि सस्मरुः ॥४४॥

पुनः पुलिनम् आगत्य कालिन्द्याः कृष्ण-भावनाः ।
समवेताः जगुः कृष्णम् तत्-आगमन-काङ्क्षिताः ॥४५॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां 
कृष्णान्वेषणं नाम त्रिंशोऽध्यायः ॥ 30 ॥ 

ஸ்கந்தம் 10: அத்யாயம் 29 (கண்ணனோடு ராஸம் ஆட கோபிகைகள் வருகிறார்கள் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

கண்ணனோடு ராஸம் ஆட கோபிகைகள் வருகிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 29


श्री शुक उवाच –
भगवान् अपि ताः रात्रीः शरत्-उत्फुल्ल-मल्लिकाः।
वीक्ष्य रन्तुम् मनः चक्रे योगमायाम् उपाश्रितः॥ 1

तत् ऊडु-राजः ककुभः करैः मुखम्
प्राच्या विलिम्पन् अरुणेन शान्तमैः।
सः अर्षणीनाम् उदगात् शुचः मृजन्
प्रियः प्रियायाः इव दीर्घ-दर्शनः॥ 2

दृष्ट्वा कुमुद-व्रतम् अखण्ड-मण्डलम्
रमा-ननाभम् नव-कुङ्कुम-अरुणम्।
वनम् च तत् कोमल-गोभी रञ्जितम्
जगौ कलम् वाम-दृशाम् मनोहरम्॥ 3

निशम्य गीतम् तत् अनङ्ग-वर्धनम्
व्रज-स्त्रियः कृष्ण-गृहीत-मानसाः।
आजग्मुः अन्योन्यम् अलक्षित-उद्यमाः
सः यत्र कान्तः जवलोल-कुण्डलः॥ 4

दुहन्त्यः अभिययुः काश्चित् दोहम् हित्वा समुत्सुकाः।
पयः अधिश्रित्य संयावम् अनुद्वास्य अपराः ययुः॥ 5

परिवेषयन्त्यः तत् हित्वा पाययन्त्यः शिशून् पयः।
शुश्रूषन्त्यः पतीन् काश्चित् अश्नन्त्यः अपास्य भोजनम्॥ 6

लिम्पन्त्यः प्रमृजन्त्यः अन्याः अञ्जन्त्यः काश्चित् लोचने।
व्यत्यस्त-वस्त्राभरणाः काश्चित् कृष्ण-अन्तिकम् ययुः॥ 7

ताः वार्यमाणाः पतिभिः पितृभिः भ्रातृ-बन्धुभिः।
गोविन्द-अपहृत-आत्मानः न न्यवर्तन्त मोहिताः॥ 8

अन्तर्गृह-गताः काश्चित् गोप्यः अलब्ध-विनिर्गमाः।
कृष्णम् तत्-भावना-युक्ताः दध्युः मीलित-लोचनाः॥ 9

दुःसह-प्रेष्ठ-विरह-तीव्र-ताप-धुत-अशुभाः।
ध्यान-प्राप्त-अच्युत-आश्लेष-निर्वृत्या क्षीण-मङ्गलाः॥ 10

तम् एव परम-आत्मानम् जार-बुद्ध्या अपि सङ्गताः।
जहुः गुण-मयम् देहम् सद्यः प्रक्षीण-बन्धनाः॥ 11

राजा उवाच -
कृष्णम् विदुः परम् कान्तम् न तु ब्रह्म-तया मुने।
गुण-प्रवाह-उपरमः तासाम् गुण-धियाम् कथम्॥ 12

श्री-शुकः उवाच -
उक्तम् पुरस्तात् एतत् ते चैद्यः सिद्धिम् यथा गतः।
द्विषन् अपि हृषीकेशम् किम् उत आधोक्षज-प्रियाः॥ 13

नृणाम् निःश्रेयस-अर्थाय व्यक्तिः भगवतः नृप।
अव्ययस्य अप्रमेयस्य निर्गुणस्य गुण-आत्मनः॥ 14

कामम् क्रोधम् भयम् स्नेहम् ऐक्यम् सौहृदम् एव च।
नित्यम् हरौ विदधतः यान्ति तत्-मयताम् हि ते॥ 15

न च एवम् विस्मयः कार्यः भवता भगवति अज।
योग-ईश्वर-ईश्वरे कृष्णे यत् एतत् विमुच्यते॥ 16

ताः दृष्ट्वा अन्तिकम् आयाताः भगवान् व्रज-योषितः।
अवदत् वदताम् श्रेष्ठः वाचः पेशैः विमोहयन्॥ 17

श्री-भगवान् उवाच -
स्वागतम् वः महा-भागाः प्रियम् किम् करवाणि वः।
व्रजस्य अनामयम् कच्चित् ब्रूत आगमन-कारणम्॥ 18

रजनिः एषा घोर-रूपा घोर-सत्त्व-निषेविता।
प्रतियात व्रजम् न इह स्थेयम् स्त्रीभिः सु-मध्यमाः॥ 19

मातरः पितरः पुत्राः भ्रातरः पतयः च वः।
विचिन्वन्ति हि अपश्यन्तः मा कृध्वम् बन्धु-साध्वसम्॥ 20

दृष्टम् वनम् कुसुमितम् राके-इश-करे-रञ्जितम्।
यमुना-अनिल-लील-इजत् तरु-पल्लव-शोभितम्॥ 21

तत् यात माचिरम् गोष्ठम् शुश्रूषध्वम् पतीन् सतीः।
क्रन्दन्ति वत्साः बालाः च तान् पाययत दुह्यत॥ 22

अथवा मत्त्-अभिस्नेहात् भवत्यः यन्त्रित-आशयाः।
आगताः हि उपपन्नम् वः प्रीयन्ते मयि जन्तवः॥ 23

भर्तुः शुश्रूषणम् स्त्रीणाम् परः धर्मः हि अमायया।
तत्-बन्धूनाम् च कल्याण्यः प्रजानाम् च अनु-पोषणम्॥ 24

दुःशीलः दुर्भगः वृद्धः जडः रोगी-अधनः अपि वा।
पतिः स्त्रीभिः न हातव्यः लोक-इप्सुभिः अपातकी॥ 25

अस्वर्ग्यम् अयशस्यम् च फल्गु कृच्छ्रम् भयावहम्।
जुगुप्सितम् च सर्वत्र औपपत्यं कुल-स्त्रियः॥ 26

श्रवणात् दर्शनात् ध्यानात् मयि भावः अनु-कीर्तनात्।
न तथा सन्निकर्षेण प्रतियात ततः गृहान्॥ 27

श्री-शुकः उवाच -
इति विप्रियम् आकर्त्य गोप्यः गोविन्द-भाषितम्।
विषण्णाः भग्न-सङ्कल्पाः चिन्ताम् आपुः दुरत्ययाम्॥ 28

कृत्वा मुखानि अवशुचः श्वसनेन शुष्यत्
बिम्ब-अधराणि चरणेन भुवम् लिखन्त्यः।
अस्रैः उपात्त-मषिभिः कुच-कुङ्कुमानि
तस्थुः मृजन्त्यः उरु-दुःख-भराः स्म तूष्णीम्॥ 29

प्रेष्ठम् प्रिय-इतरम् इव प्रतिभाषमाणम्
कृष्णम् तत्-अर्थ-विनिवर्तित-सर्व-कामाः।
नेत्रे विमृज्य रुदित-उपहते स्म किञ्चित्
संरम्भ-गद्गद-गिरः अब्रुवत अनुरक्ताः॥ 30

श्री-गोप्यः ऊचुः –
मा एवम् विभो अर्हति भवान् गदितुम् नृशंसम्
सन्त्यज्य सर्व-विषयान् तव पाद-मूलम्।
भक्ताः भजस्व दुरवग्रह मा त्यज अस्मान्
देवः यथा आदि-पुरुषः भजते मुमुक्षून्॥ 31

यत्-पति-अपत्सुहृदाम् अनुवृत्तिः अङ्ग
स्त्रीणाम् स्व-धर्मः इति धर्म-विदा त्वया उक्तम्।
अस्तु एवम् एतत् उपदेश-पदे त्वयि ईशे
प्रेष्ठः भवाम् तनु-भृताम् किल बन्धुः आत्मा॥ 32

कुर्वन्ति हि त्वयि रतिम् कुशलाः स्व-आत्मन्
नित्य-प्रिये पति-सुत-आदिभिः आर्तिदैः किम्।
तत् नः प्रसीद परम-ईश्वर मा स्म छिन्ध्याः
आशाम् भृताम् त्वयि चिरात् अरविन्द-नेत्र॥ 33

चित्तम् सुखेन भवत-आपहृतम् गृहेषु
यत् निर्विशति उत करौ अपि गृह्य-कृत्ये।
पादौ पदम् न चलतः तव पाद-मूलात्
यामः कथम् व्रजम् अथो करवाम किम् वा॥ 34

सिञ्च अङ्ग नः त्वत्-अधर-अमृत-पूर-केण
हास-अवलोक-कल-गीत-ज-हृच्-छया-अग्निम्।
नः चेत् वयम् विरह-ज-अग्नि-उपयुक्त-देहाः
ध्यानेन याम पदयोः पदवीम् सखे ते॥ 35

यः हि अंबुज-आक्ष तव पाद-तलम् रमायाः
दत्त-क्षणम् क्वचित् अरण्य-जन-प्रियस्य।
अस्प्राक्ष्म तत्-प्रभृति न अन्य-समक्षम् अङ्ग
स्थातुम् त्वया अभिरमिता बत पारयामः॥ 36

श्रीः यत्-पद-अम्बुज-रजः चकमे तुलस्याः
लब्ध्वा अपि वक्षसि पदम् किल भृत्य-जुष्टम्।
यस्याः स्व-वीक्षण-कृते अन्य-असुर-प्रयासः
तत्-वत् वयम् च तव पाद-रजः प्रपन्नाः॥ 37

तत् नः प्रसीद वृजिन-अर्दन ते अङ्घ्रि-मूलम्
प्राप्ताः विसृज्य वसतीः त्वत्-उपासना-आशाः।
त्वत्-सुन्दर-स्मित-निरीक्षण-तीव्र-काम
तप्त-आत्मनाम् पुरुष-भूषण देहि दास्यम्॥ 38

वीक्ष्य आलक-आवृत-मुखम् तव कुण्डल-श्री
गण्ड-स्थल-अधर-सुधाम् हसित-अवलोकम्।
दत्त-अभयम् च भुज-दण्ड-युगम् विलोक्य
वक्षः श्रियः एक-रमणम् च भवाम दास्यः॥ 39

का स्त्री अङ्ग ते कल-पद-आयत-मूर्छितेन
सम्मोहिता आर्य-चरितात् न चलेत् त्रि-लोक्याम्।
त्रैलोक्य-सौभगम् इदम् च निरीक्ष्य रूपम्
यत् गो-द्विज-द्रुम-मृगाः पुलकानि अबिभ्रन्॥ 40

व्यक्तं भवान् व्रज-भय-आर्ति-हरः अभिजातः
देवः यथा आदि-पुरुषः सुर-लोक-गोप्ता।
तत् नः निधेहि कर-पङ्कजम् आर्त-बन्धो
तप्त-स्तनेषु च शिरःसु च किङ्करीणाम्॥ 41

श्री-शुकः उवाच –
इति विक्लवितम् तासाम् श्रुत्वा योग-ईश्वर-ईश्वरः।
प्रहस्य स-अदयं गोपीः आत्मा-रामः अपि अरीरमत्॥ 42

ताभिः समेताभिः उदार-चेष्टितः
प्रिये-क्षण-उत्फुल्ल-मुखीभिः अच्युतः।
उदार-हास-द्विज-कुन्द-दीधतिः
व्यरोचत ऐण-अङ्कः इव उडुभिः वृतः॥ 43

उपगीयमानः उद्गायन् वनिता-शत-यूथपः।
मालाम् बिभ्रत् वैजयन्तीम् व्यचरत् मण्डयन् वनम्॥ 44

नद्याः पुलिनम् आविश्य गोपीभिः हिम-वालुकम्।
रेमे तत्-तरल-आनन्द-कुमुद-आमोद-वायुना॥ 45

बाहु-प्रसार-परिरम्भ-कर-आलका-उरु
नीवी-स्तन-आलभन-नर्म-नख-अग्र-पातैः।
क्ष्वेलि-आवलोक-हसितैः व्रज-सुन्दरीणाम्
उत्तम्भयन् रति-पतिम् रमयाञ्चकार॥ 46

एवम् भगवतः कृष्णात् लब्ध-मानाः महा-आत्मनः।
आत्मानम् मेनिरे स्त्रीणाम् मानिन्यः अभ्यधिकम् भुवि॥ 47

तासाम् तत् सौभग-मदम् वीक्ष्य मानम् च केशवः।
प्रशमाय प्रसादाय तत्र एव अन्तरधीयत॥ 48॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे भगवतो रासक्रीडावर्णनं नाम एकोन्त्रिंशोऽध्यायः ॥ 29 ॥

ஸ்கந்தம் 10: அத்யாயம் 28 (நந்தகோபரை கண்ணன் காக்கிறான் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

 நந்தகோபரை கண்ணன் காக்கிறான்

ஸ்கந்தம் 10: அத்யாயம் 28


श्री शुक उवाच
एकादश्याम् निराहारः समभ्यर्च्य जनार्दनम् ।
स्नातुं नन्दः तु कालिन्द्याम् द्वादश्याम् जलम् आविशत् ॥ 1

तम् गृहीत्वा अनयत् भृत्यः वरुणस्य असुरः अन्तिकम् ।
अविज्ञाय असुरीम् वेलाम् प्रविष्टम् उदकम् निशि ॥ 2

चुक्रुशुः तम् अपश्यन्तः कृष्ण राम इति गोपकाः ।
भगवान् तत् उपश्रुत्य पितरम् वरुण आहृतम्
तत् अन्तिकम् गतः राजन् स्वानाम् अभयदः विभुः ॥ 3

प्राप्तम् वीक्ष्य हृषीकेशम् लोकपालः सपर्यया ।
महत्या पूजयित्वा आह तत् दर्शन महोत्सवः ॥ 4

श्री वरुण उवाच
अद्य मे निभृतः देहः अद्य एव अर्थः अधिगतः प्रभो ।
त्वत् पाद-भाजः भगवन् अवापुः पारम् अध्वनः ॥ 5

नमः तुभ्यम् भगवते ब्रह्मणे परमात्मने ।
न यत्र श्रूयते माया लोक-सृष्टि-विकल्पना ॥ 6

अजानता मामकेन मूढेन अकार्य वेदिना ।
आनीतः अयम् तव पिता तत् भवान् क्षन्तुम् अर्हति ॥ 7

मम अपि अनुग्रहम् कृष्ण कर्तुम् अर्हसि अशेष-दृक् ।
गोविन्द नीयताम् एषः पिता ते पितृवत्सल ॥ 8

श्री शुक उवाच
एवम् प्रसादितः कृष्णः भगवान् ईश्वर-ईश्वरः ।
आदाय अगात् स्व-पितरम् बन्धूनाम् च आवहन् मुदम् ॥ 9

नन्दः तु अतीन्द्रियम् दृष्ट्वा लोकपालम् महा-उदयम् ।
कृष्णे च सन्नतिम् तेषाम् ज्ञातिभ्यः विस्मितः अब्रवीत् ॥ 10

ते तु औत्सुक्य-धियः राजन् मत्वा गोपाः तम् ईश्वरम्।
अपि नः स्व-गतिम् सूक्ष्माम् उपाधास्यति अधीश्वरः॥ 11

इति स्वानाम् सः भगवान् विज्ञाय अखिल-दृक् स्वयम्।
सङ्कल्प-सिद्धये तेषाम् कृपया एतत् अचिन्तयत्॥ 12

जनः वै लोके एतस्मिन् अविद्या-काम-कर्मभिः।
उच्चावचासु गतिषु न वेद स्वाम् गतिम् भ्रमन्॥ 13

इति सञ्चिन्त्य भगवान् महा-कारुणिकः हरिः।
दर्शयामास लोकम् स्वम् गोपानाम् तमसः परम्॥ 14

सत्यम् ज्ञानम् अनन्तम् यत् ब्रह्म ज्योतिः सनातनम्।
यत् हि पश्यन्ति मुनयः गुण-अपाये समाहिताः॥ 15

ते तु ब्रह्म-ह्रदम् नीताः मग्नाः कृष्णेन च उद्धृताः।
ददृशुः ब्रह्मणः लोकम् यत्र आक्रूरः अध्यगात् पुरा॥ 16

नन्द-आदयः तु तम् दृष्ट्वा परम-आनन्द-निर्वृताः।
कृष्णम् च तत्र छन्दोभिः स्तूयमानम् सुविस्मिताः॥ 17

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टाविंशोऽध्यायः॥28॥

Wednesday, 2 April 2025

ஸ்கந்தம் 10: அத்யாயம் 27 (இந்திரன் ஸ்துதி - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham

இந்திரன் ஸ்துதி

ஸ்கந்தம் 10: அத்யாயம் 27


श्री शुक उवाच - गोवर्धने धृते शैले आसारात् रक्षिते व्रजे। गोलोकात् आव्रजत् कृष्णं सुरभिः शक्रः एव च ॥ 1 विविक्तः उपसङ्गम्य व्रीडीतः कृत-हेलनः। पस्पर्श पादयोः एनं किरीटेन अर्क-वर्चसा ॥ 2 दृष्ट-श्रुत-अनुभावः अस्य कृष्णस्य अमित-तेजसः। नष्ट-त्रि-लोक-ईश-मदः इन्द्रः आह कृत-अञ्जलिः ॥ 3 इन्द्र उवाच - विशुद्ध-सत्त्वं तव धाम शान्तं तपः-मयं ध्वस्त-रजस्-तमस्कम्। माया-मयः अयं गुण-सम्प्रवाहः न विद्यते ते अग्रहण-अनुबन्धः ॥ 4 कुतः नु तत्-हेतवः ईश तत्-कृताः लोभ-आदयः ये अभुध-लिङ्ग-भावाः। तथापि दण्डं भगवान् बिभर्ति धर्मस्य गुप्त्यै खल-निग्रहाय ॥ 5 पिता गुरुः त्वं जगताम् अधीशः दुरत्ययः कालः उपात्त-दण्डः। हिताय स्वेच्छा-तनुभिः समीहसे मानं विधुन्वन् जगत्-ईश-मानिनाम् ॥ 6 ये मत्-विध-आज्ञाः जगत्-ईश-मानिनः त्वां वीक्ष्य काले अभयम् आशु तत्-मदम्। हित्वा आर्य-मार्गं प्रभजन्ति अपस्मयाः ईहा खलानाम् अपि ते अनुशासनम् ॥ 7 सः त्वं मम ऐश्वर्य-मद-अप्लुतस्य कृत-अगसः ते अविदुषः प्रभावम्। क्षन्तुं प्रभो अथ अर्हसि मूढ-चेतसः मैवं पुनः भूः मतिः ईश मे असती ॥ 8 तव अवतारः अयम् अधोक्षज-इह स्वयं-भराणाम् उरु-भार-जन्मनाम्। चमू-पतिनाम् अभवाय देव भवाय युष्मत् चरण-अनुवर्तिनाम् ॥ 9 नमः तुभ्यम् भगवते पुरुषाय महात्मने। वासुदेवाय कृष्णाय सात्वताम् पतये नमः ॥ 10 स्वच्छन्द-उपात्त-देहाय विशुद्ध-ज्ञान-मूर्तये। सर्वस्मै सर्व-बीजाय सर्व-भूत-आत्मने नमः ॥ 11 मया इदम् भगवन् गोष्ठ-नाशाय आसार-वा-युभिः। चेष्टितं विहते यज्ञे मानिना तीव्र-मन्युना ॥ 12 त्वया ईश अनुगृहीतः अस्मि ध्वस्त-स्तम्भः वृथा-उद्यमः। ईश्वरं गुरुम् आत्मानं त्वाम् अहं शरणं गतः ॥ 13 श्री शुक उवाच - एवम् सङ्कीर्तितः कृष्णः मघोना भगवानम् उम्। मेघ-गम्भीरया वाचा प्रहसन् इदम् अब्रवीत् ॥ 14 श्री भगवान् उवाच - मया ते अकारि मघवन् मख-भङ्गः अनुगृह्णता। मद्-अनुस्मृतये नित्यं मतस्य इन्द्र-श्रिया भृशम् ॥ 15 माम् ऐश्वर्य-श्री-मद-अन्धः दण्ड-पाणिं न पश्यति। तं भ्रंशयामि सम्पद्भ्यः यस्मै च इच्छामि अनुग्रहम् ॥ 16 गम्यतां शक्र भद्रं वः क्रियतां मे अनुशासनम्। स्थीयतां स्व-धिकारेषु युक्तैः वः स्तम्भ-वर्जितैः ॥ 17 अथ आह सुरभिः कृष्णम् अभिवन्द्य मनस्विनी। स्व-सन्तानैः उपामन्त्र्य गोप-रूपिणम् ईश्वरम् ॥ 18 सुरभिः उवाच - कृष्ण कृष्ण महा-योगिन् विश्व-आत्मन् विश्व-सम्भव। भवता लोक-नाथेन सनाथाः वयम् अच्युत ॥ 19 त्वं नः परमकम् दैवम् त्वं न इन्द्रः जगत्-पते। भवाय भव गो-विप्र-देवानाम् ये च साधवः ॥ 20

इन्द्रं नः त्वा अभिषेक्ष्यामः ब्रह्मणा चोदिताः वयम्।
अवतीर्णः असि विश्व-आत्मन् भूमेः भार-अपनुत्तये॥ 21

श्री शुक उवाच -
एवं कृष्णम् उपामन्त्र्य सुरभिः पयसाः आत्मनः।
जलैः आकाश-गङ्गायाः ऐरावत-कर-उद्धृतैः॥ 22

इन्द्रः सुर-ऋषिभिः साकं चोदितः देव-मातृभिः।
अभ्यसिञ्चत दाशार्हम् गोविन्दः इति च अभ्यधात्॥ 23

तत्र आगताः तुम्बुरु-नारद-आदयः
गन्धर्व-विद्याधर-सिद्ध-चारणाः।
जगुः यशः लोक-मल-अपहं हरेः
सुर-अङ्गनाः सन्-ननृतुः मुदा-अन्विताः॥ 24

तं तुष्टुवुः देव-निकाय-केतवः
व्यवाकिरन् च अद्भुत-पुष्प-वृष्टिभिः।
लोकाः परां निर्वृतिम् आप्नुवन् त्रयः
गावः तदा गाम् अनयन् पयः-द्रुताम्॥ 25

नाना-रस-ओघाः सरितः वृक्षाः आसन् मधु-स्रवाः।
अकृष्ट-पच्य-औषधयः गिरयः अभिभ्रत् उन्मणीन्॥ 26

कृष्णे अभिषिक्ते एतानि सत्त्वानि कुरु-नन्दन।
निर्वैराणि अभवन् तात क्रूराणि अपि निसर्गतः॥ 27

इति गो-गोकुल-पतिम् गोविन्दम् अभिषिच्य सः।
अनुज्ञातः ययौ शक्रः वृतः देव-आदिभिः दिवम्॥ 28

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे इन्द्रस्तुतिर्नाम सप्तविंशोऽध्यायः ॥ 27