Followers

Search Here...

Saturday, 12 April 2025

ஸ்கந்தம் 10: அத்யாயம் 41 (கண்ணனும் பலராமனும் மதுரா வருகிறார்கள் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

கண்ணனும் பலராமனும் மதுரா வருகிறார்கள்

ஸ்கந்தம் 10: அத்யாயம் 41

श्रीशुक उवाच –

स्तुवतः तस्य भगवान् दर्शयित्वा जले वपुः ।

भूयः समाहरत् कृष्णः नटः नाट्यम् इव आत्मनः ॥ १ ॥


सः अपि च अन्तर्हितम् वीक्ष्य जलात् उन्मज्य सत्वरः ।

कृत्वा च आवश्यकम् सर्वम् विस्मितः रथम् आगमत् ॥ २ ॥


तम् अपृच्छत् हृषीकेशः किम् ते दृष्टम् इव अद्‍भुतम् ।

भूमौ वियति तोये वा तथा त्वाम् लक्षयामहे ॥ ३ ॥


श्रीअक्रूर उवाच –

अद्‍भुतानि इह यावन्ति भूमौ वियति वा जले ।

त्वयि विश्व-आत्मके तानि किम् मे अदृष्टम् विपश्यतः ॥ ४ ॥


यत्र अद्‍भुतानि सर्वाणि भूमौ वियति वा जले ।

तम् त्वाम् अनुपश्यतः ब्रह्मन् किम् मे दृष्टम् इह अद्‍भुतम् ॥ ५ ॥


इति उक्त्वा च उदयामास स्यन्दनम् गान्दिनी-सुतः ।

मथुराम् अनयत् रामम् कृष्णम् च एव दिन-अत्यये ॥ ६ ॥


मार्गे ग्राम-जनाः राजन् तत्र तत्र उपसङ्‍गताः ।

वसुदेव-सुतौ वीक्ष्य प्रीताः दृष्टिम् न च आददुः ॥ ७ ॥


तावत् व्रज-औकसः तत्र नन्द-गोप-आदयः अग्रतः ।

पुर-उपवनम् आसाद्य प्रतीक्षन्तः अवतस्थिरे ॥ ८ ॥


तान् समेत्य आह भगवान् अक्रूरम् जगत्-ईश्वरः ।

गृहीत्वा पाणिना पाणिम् प्रश्रितम् प्रहसन् इव ॥ ९ ॥


भवान् प्रविशताम् अग्रे सह-यानः पुरीम् गृहम् ।

वयम् तु इह अवमुच्य अथ ततः द्रक्ष्यामहे पुरीम् ॥ १० ॥


श्रीअक्रूर उवाच –

न अहम् भवद्‌भ्याम् रहितः प्रवेक्ष्ये मथुराम् प्रभो ।

त्यक्तुम् न अर्हसि माम् नाथ भक्तम् ते भक्तवत्सल ॥ ११ ॥


आगच्छ याम् गेहान् नः सनाथान् कुरु अदोक्षज ।

सह अग्रजः स-गोपालैः सुहृत्‌भिः च सुहृत्-तम ॥ १२ ॥


पुनीहि पाद-रजसा गृहान् नः गृह-मेधिनाम् ।

यत्-शौचेन अनुतृप्यन्ति पितरः सा-अग्नयः सुराः ॥ १३ ॥


अवनिज्य अङ्‌घ्रि-युगलम् आसीत् श्लोक्यः बलिः महान् ।

ऐश्वर्यम् अतुलम् लेभे गतिम् च ऐकान्तिनाम् तु या ॥ १४ ॥


आपः ते अङ्‌घ्रि-अवनेजन्याः स्त्रीन् लोकान् शुचयः अपुनन् ।

शिरसा अधत्त याः शर्वः स्वर्याताः सगर-आत्मजाः ॥ १५ ॥


देव-देव जगत्-नाथ पुण्य-श्रवण-कीर्तन ।

यदु-उत्तम-उत्तम-श्लोक नारायण नमः अस्तु ते ॥ १६ ॥


श्रीभगवान् उवाच –

आयास्ये भवतः गेहम् अहम् आर्य-समन्वितः ।

यदु-चक्र-द्रुहम् हत्वा वितरिष्ये सुहृत्-प्रियम् ॥ १७ ॥


श्रीशुक उवाच –

एवम् उक्तः भगवता सः अक्रूरः विमनाः इव ।

पुरीम् प्रविष्टः कंसाय कर्म आवेद्य गृहम् ययौ ॥ १८ ॥


अथ अपराह्णे भगवान् कृष्णः सङ्‌कर्षण-अन्वितः ।

मथुराम् प्राविशत् गोपैः दिदृक्षुः परिवारितः ॥ १९ ॥


ददर्श ताम् स्फाटिक-तुङ्ग-गोपुर-

  द्वाराम् बृहत्-हेम-कपाट-तोरणाम् ।

ताम्र-अर-कोष्ठाम् परिखा-दुरासदाम्

  उद्यान-रम्य-उपवन-उपशोभिताम् ॥ २० ॥


सौवर्ण–शृङ्गाटक–हर्म्य–निष्कुटैः

श्रेणी-सभा-भिः भवनैः उपस्कृताम् ।

वैदूर्य-वज्र-अमल-नील-विद्रुमैः

मुक्ता-हरित्-भिः वलभीषु वेदिषु ॥ २१ ॥


जुष्टेषु जालामुख-रन्ध्र-कुट्टिमे-

षु आविष्ट-पारावत-बर्हि-नादिताम् ।

संसिक्त-रथ्या-अपण-मार्ग-चत्वराम्

प्रकीर्ण-माल्य-अङ्कुर-लाज-तण्डुलाम् ॥ २२ ॥


आपूर्ण-कुम्भैः दधि-चन्दन-उक्षितैः

प्रसून-दीप-आवलि-भिः स-पल्लवैः ।

स-वृन्द-रम्भा-क्रमुकैः स-केतुभिः

स्वलङ्कृत-द्वार-गृहाम् स-पट्टिकैः ॥ २३ ॥


ताम् सम्प्रविष्टौ वसुदेव-नन्दनौ

वृतौ वयस्यैः नरदेव-वर्त्मना ।

द्रष्टुम् समीयुः त्वरिताः पुर-स्त्रियः

हर्म्याणि च एव अरुहुः नृप-उत्सुकाः ॥ २४ ॥


काश्चित् विपर्यक्त-धृत-वस्त्र-भूषणाः

विस्मृत्य च एकम् युगलेषु अथ अपराः ।

कृत-एक-पत्र-श्रवण-एक-नूपुराः

न अङ्क्त्वा द्वितीयम् तु अपराः च लोचनम् ॥ २५ ॥


अश्नन्त्यः एकाः तत् अपास्य स-उत्सवाः

अभ्यज्यमानाः अकृत-उपमज्जनाः ।

स्वपन्त्यः उत्थाय निशम्य निःस्वनम्

प्रपाययन्त्यः अर्भम् अपोह्य मातरः ॥ २६ ॥


मनांसि तासाम् अरविन्द-लोचनः

प्रगल्भ-लीला-हसित-अवलोकनैः ।

जहार मत्त-द्विरद-इन्द्र-विक्रमः

दृशाम् ददत् श्री-रमण-आत्मनः उत्सवम् ॥ २७ ॥


दृष्ट्वा मुहुः श्रुतम् अनुद्रुत-चेतसः तम् ।

तत्-प्रेक्षण-उत्स्मित-सुधा-उक्षण-लब्ध-मानाः ।

आनन्द-मूर्तिम् उपगुह्य दृशा आत्म-लब्धम् ।

हृष्यत्-त्वचः जहुः अनन्तम् अरि-दम-आधिम् ॥ २८ ॥


प्रासाद-शिखर-आरूढाः प्रीति-उत्फुल्ल-मुख-अम्बुजाः ।

अभ्यवर्षन् सौमनस्यैः प्रमदाः बल-केशवौ ॥ २९ ॥


दधि-अक्षतैः स-उदपात्रैः स्रक्-गन्धैः अभ्युपायनैः ।

तौ अनर्चुः प्रमुदिताः तत्र तत्र द्विजातयः ॥ ३० ॥


ऊचुः पौराः –

अहो गोप्यः तपः किम् अचरन् महत् ।

या हि एतौ अनुपश्यन्ति नर-लोक-महोत्सवौ ॥ ३१ ॥


रजकम् कञ्चित् आयान्तम् रङ्गकारम् गदा-अग्रजः ।

दृष्ट्वा याचत वासांसि धौतानि अति-उत्तमानि च ॥ ३२ ॥


देहि आवयोः समुचितानि अङ्ग वासांसि च अर्हतोः ।

भविष्यति परम् श्रेयः दातुः ते न अत्र संशयः ॥ ३३ ॥


स याचितः भगवता परिपूर्णेन सर्वतः ।

साक्षेपम् रुषितः प्राह भृत्यः राज्ञः सुदुर्मदः ॥ ३४ ॥


ईदृशानि एव वासांसी नित्यम् गिरि-वने-चराः ।

परिधत्त किम् उद्वृत्ताः राज-द्रव्याणि अभीप्सथ ॥ ३५ ॥


यात अशु बालिशाः मा एवम् प्रार्थ्यम् यदि जिजीवीषा ।

बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तम् राज-कुलानि वै ॥ ३६ ॥


एवम् विकत्थमानस्य कुपितः देवकी-सुतः ।

रजकस्य कर-अग्रेण शिरः कायात् अपातयत् ॥ ३७ ॥


तस्य अनुजीविनः सर्वे वासः-कोशान् विसृज्य वै ।

दुद्रुवुः सर्वतः मार्गम् वासांसि जगृहे अच्युतः ॥ ३८ ॥


वसित्वा आत्म-प्रिये वस्त्रे कृष्णः सङ्कर्षणः तथा ।

शेषाणि आदत्त गोपेभ्यः विसृज्य भुवि कानिचित् ॥ ३९ ॥


ततः तु वायकः प्रीतः तयोः वेषम् अकल्पयत् ।

विचित्र-वर्णैः चैलेयैः आकल्पैः अनुरूपतः ॥ ४० ॥


नाना-लक्षण-वेषाभ्याम् कृष्ण-रामौ विरेजतुः ।
स्व-लङ्कृतौ बाल-गजौ पर्वणि इव सित-इतऱौ ॥ ४१ ॥


तस्य प्रसन्नः भगवान् प्रादात् सा-रूप्यम् आत्मनः ।
श्रियं च परमाम् लोके बल-ऐश्वर्य-स्मृति-इन्द्रियम् ॥ ४२ ॥


ततः सुदाम्नः भवनम् मालाकारस्य जग्मतुः ।
तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि ॥ ४३ ॥


तयोः आसनम् आनीय पाद्यम् च अर्घ्य-अर्हण-आदिभिः ।
पूजाम् स-अनुगयोः चक्रे स्रक्-ताम्बूल-अनुलेपनैः ॥ ४४ ॥


प्राह नः सार्थकम् जन्म पावितम् च कुलम् प्रभो ।
पितृ-देव-ऋषयः मह्यम् तुष्टाः हि आगमनेन वाम् ॥ ४५ ॥


भवन्तौ किल विश्वस्य जगतः कारणम् परम् ।
अवतीर्णौ इह अंशेन क्षेमाय च भवाय च ॥ ४६ ॥


न हि वाम् विषमा दृष्टिः सुहृदोः जगत्-आत्मनोः ।
समयोः सर्व-भूतेषु भजन्तम् भजतोः अपि ॥ ४७ ॥


तौ आज्ञापयताम् भृत्यम् किम् अहम् करवाणि वाम् ।
पुंसः अति-अनुग्रहः हि एषः भवद्‌भिः यत् नियुक्त्यते ॥ ४८ ॥


इति अभिप्रेत्य राजेन्द्र सुदामाः प्रीत-मानसः ।
शस्तैः सुगन्धैः कुसुमैः माला विरचिता ददौ ॥ ४९ ॥


ताभिः स्व-लङ्कृतौ प्रीतौ कृष्ण-रामौ स-अनुगौ ।
प्रणताय प्रपन्नाय ददतुः वरदौ वरान् ॥ ५० ॥


सः अपि वव्रे अचलाम् भक्तिम् तस्मिन् एव अखिल-आत्मनि ।
तत्-भक्तेषु च सौहार्दम् भूतेषु च दयाम् पराम् ॥ ५१ ॥


इति तस्मै वरम् दत्त्वा श्रियम् च अनुय-वर्धिनीम् ।
बलम् आयुः यशः कान्तिम् निर्जगाम सह-अग्रजः ॥ ५२ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे पुरप्रवेशो नाम एकचत्वारिंशोऽध्यायः ॥ ४१ ॥

ஸ்கந்தம் 10: அத்யாயம் 40 (அக்ரூரர் ஸ்துதி - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

அக்ரூரர் ஸ்துதி

ஸ்கந்தம் 10: அத்யாயம் 40

श्री अक्रूरः उवाच –

नतः अस्मि अहम् त्वा अखिल-हेतु-हेतुम् ।

नारायणम् पूरुषम् आद्यम् अव्ययम् ॥ १ ॥

यत्-नाभि-जातात् अरविन्द-कोशात् ।

ब्रह्मा आविर्-आसीत् यतः एषः लोकः ॥


भूः तोयम् अग्निः पवनः खम् आदि: ।

महा-अन्-अज-आदि: मनः इन्द्रियाणि ॥

सर्व-इन्द्रिय-अर्थाः विबुधाः च सर्वे ।

ये हेतवः ते जगतः अङ्ग-भूताः ॥ २ ॥


न एते स्वरूपम् विदुः आत्मनः ते ।

हि अज-आदयः अन्-आत्मतया गृहीताः ॥

अजः अनुबद्धः सः गुणैः अ-जायाः ।

गुणात् परम् वेद न ते स्वरूपम् ॥ ३ ॥


त्वाम् योगिनः यजन्ति अध्या महा-पुरुषम् ईश्वरम् ।

साधि-आत्मम् साधि-भूतम् च साधि-दैवम् च साधवः ॥ ४ ॥


त्रय्या च विद्यया केचित् त्वाम् वै वैतानिकाः द्विजाः ।

यजन्ते विततैः यज्ञैः नाना-रूप-अमर-आख्यया ॥ ५ ॥


एके त्वा अखिल-कर्माणि संन्यस्य उपशमम् गताः ।

ज्ञानिनः ज्ञान-यज्ञेन यजन्ति ज्ञान-विग्रहम् ॥ ६ ॥


अन्ये च संस्कृत-आत्मानः विधिना अभिहितेन ते ।

यजन्ति त्वत्-मयाः त्वाम् वै बहु-मूर्त्य् एक-मूर्तिकम् ॥ ७ ॥


त्वाम् एव अन्ये शिव-उक्तेन मार्गेण शिव-रूपिणम् ।

बहु-आचार्य-विभेदेन भगवन् समुपासते ॥ ८ ॥


सर्वे एव यजन्ति त्वाम् सर्व-देव-मय ईश्वरम् ।

ये अपि अन्य-देवता-भक्ताः यद्यपि अन्य-धियः प्रभो ॥ ९ ॥


यथा अद्रि-प्रभवाः नद्यः पर्जन्य-आपूरिताः प्रभो ।

विशन्ति सर्वतः सिन्धुम् तद्वत् त्वाम् गतयः अन्ततः ॥ १० ॥


सत्त्वम् रजः तमः इति भवतः प्रकृतेः गुणाः ।

तेषु हि प्राकृताः प्रोता: आ-ब्रह्म-स्थावर-आदयः ॥ ११ ॥


तुभ्यम् नमः अस्तु अविषक्त-दृष्टये ।

सर्व-आत्मने सर्व-धियाम् च साक्षिणे ॥

गुण-प्रवाहः अयम् अविद्यया कृतः ।

प्रवर्तते देव-नृ-तिर्यग्-आत्मसु ॥ १२ ॥


अग्निः मुखम् ते, अवनि: अङ्घ्रिः, ईक्षणम् सूर्यः ।

नभः नाभिः अथ दिशः श्रुतिः ॥

द्यौः कं, सुरेन्द्राः तव बाहवः, अर्णवाः कुक्षिः ।

मरुत् प्राण-बलम् प्रकल्पितम् ॥ १३ ॥


रोमाणि वृक्ष-औषधयः, शिरस्-उरुहाः ।

मेघाः परस्य अस्थि-नखानि, ते अद्रयः ॥

निमेषणम् रात्रि-अहनी, प्रजापतिः मेढ्रः तु ।

वृष्टिः तव वीर्यम् इष्यते ॥ १४ ॥


त्वयि अव्यय-आत्मन् पुरुषे प्रकल्पिताः ।

लोकाः स-पालाः बहु-जीव-सङ्कुलाः ॥

यथा जले संजिहते जल-औकसः अपि ।

उदुम्बरे वा मशकाः मनः-मये ॥ १५ ॥


यानि यानि इह रूपाणि क्रीडन-अर्थम् बिभर्षि हि ।

तैः अमृष्ट-शुचः लोकाः मुदा गायन्ति ते यशः ॥ १६ ॥


नमः कारणम्-अत्स्याय प्रलय-अब्धि-चराय च ।

हय-शीर्ष्णे नमः तुभ्यम् मधु-कैटभ-मृत्यवे ॥ १७ ॥


अकूपाराय बृहते नमः मन्दर-धारिणे ।

क्षित्-उद्धार-विहाराय नमः सूकर-मूर्तये ॥ १८ ॥


नमः ते अद्भुत-सिंहाय साधु-लोक-भय-अपह ।

वामनाय नमः तुभ्यम् क्रान्त-त्रिभुवनाय च ॥ १९ ॥


नमः भृगूणाम् पतये दृप्त-क्षत्र-वन-छिदे ।

नमः ते रघु-वर्याय रावण-अन्त-कराय च ॥ २० ॥


नमः ते वासुदेवाय, नमः सङ्कर्षणाय च ।

प्रद्युम्नाय अनिरुद्धाय सात्वताम् पतये नमः ॥ २१ ॥


नमः बुद्धाय शुद्धाय दैत्य-दानव-मोहिने ।

म्लेच्छ-प्राय-क्षत्र-हन्त्रे नमः ते कल्कि-रूपिणे ॥ २२ ॥


भगवन् जीव-लोकः अयम् मोहितः तव मायया ।

अहम्-मम इति असत्-ग्रहः भ्राम्यते कर्म-वर्त्मसु ॥ २३ ॥


अहम् च आत्म-आत्मज-आगार-दारा-अर्थ-स्वजन-आदिषु ।

भ्रामि स्वप्न-कल्पेषु मूढः सत्य-धिया विभो ॥ २४ ॥


अनित्य-अनात्म-दुःखेषु विपर्यय-मतिः हि अहम् ।

द्वन्द्व-आरामः तमः-विष्टः न जाने त्वा आत्मनः प्रियम् ॥ २५ ॥


यथा अबुधः जलम् हित्वा प्रतिच्छन्नम् तत् उद्‍भवैः ।

अभ्येति मृगतृष्णाम् वै, तत्-वत्तु अहम् पराङ्मुखः ॥ २६ ॥


न उत्सहे अहम् कृपण-धीः काम-कर्म-हतम् मनः ।

रोद्धुम् प्रमाथिभिः च अक्षैः ह्रियमाणम् इतः ततः ॥ २७ ॥


सः अहम् तव अङ्घ्रि-उपगतः अस्मि असताम् दुरापम् ।

तत् च अपि अहम् भवत्-अनुग्रहे ईश मन्ये ॥

पुंसः भवेत् यः हि संसरण-अपवर्गः ।

त्वयि अब्ज-नाभ सद्-उपासनया मतिः स्यात् ॥ २८ ॥


नमः विज्ञान-मात्राय सर्व-प्रत्यय-हेतवे ।

पुरुषे ईश-प्रधानाय ब्रह्मणे अनन्त-शक्तये ॥ २९ ॥


नमः ते वासुदेवाय सर्व-भूत-क्षयाय च ।

हृषीकेश नमः तुभ्यम् प्रपन्नम् पाहि माम् प्रभो ॥ ३० ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 

संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरस्तुतिर्नाम 

चत्वारिंशोऽध्यायः ॥ ४० ॥

ஸ்கந்தம் 10: அத்யாயம் 39 (அக்ரூரரின் எண்ணம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

அக்ரூரரின் எண்ணம்

ஸ்கந்தம் 10: அத்யாயம் 39

श्री शुक उवाच –
सुख-उपविष्टः पर्यङ्के राम-कृष्ण-उरु-मानितः
लेभे मनोरथान् सर्वान् यथि यान् सः चकार ॥ १ ॥

किम् अलभ्यम् भगवति प्रसन्ने श्री-निकेतने
तथापि तत्-पराः राजन् हि वाञ्छन्ति किञ्चन ॥ २ ॥

सायम्-तन-आशनम् कृत्वा भगवान् देवकी-सुतः
सुहृत्सु वृत्तम् कंसस्य पप्रच्छ अन्यत् चिकीर्षितम् ॥ ३ ॥

श्रीभगवान् उवाच –
तात सौम्य आगतः कच्चित् स्वागतम् भद्रम् अस्तु वः
अपि स्व ज्ञाति-बन्धूनाम् अनमीवम् अनामयम् ॥ ४ ॥

किम् नु नः कुशलम् पृच्छे एधमाने कुल-आमये
कंसे मातुल-नाम्नि अङ्ग स्वानाम् नः तत्-प्रजासु ॥ ५ ॥

अहो अस्मत् अभूत् भूरि पित्रोः वृजिनम् आर्ययोः
यत्-हेतोः पुत्र-मरणम् यत्-हेतोः बन्धनम् तयोः ॥ ६ ॥

दिष्ट्या अद्य दर्शनम् स्वानाम् मह्यम् वः सौम्य काङ्क्षितम्
सञ्जातम् वर्ण्यताम् तात तव आगमन-कारणम् ॥ ७ ॥

श्री शुक उवाच –
पृष्टः भगवता सर्वम् वर्णयामास माधवः
वैर-अनुबन्धम् यदुषु वसुदेव-वध-उद्यमम् ॥ ८ ॥

यत्-सन्देशः यत्-अर्थम् वा दूतः सम्प्रेषितः स्वयम्
यत्-उक्तम् नारदेन अस्य स्व-जन्म अनक-दुन्दुभेः ॥ ९ ॥

श्रुत्वा अक्रूर-वचः कृष्णः बलः पर-वीर-हा
प्रहस्य नन्दम् पितरम् राज्ञा आदिष्टम् विजज्ञतुः ॥ १० ॥


गोपान् समादिशत् सः अपि गृह्यताम् सर्व-गोरसः
उपायनानि गृह्णीध्वम् युज्यन्ताम् शकटानि ॥ ११ ॥

यास्यामः श्वः मधु-पुरीम् दास्यामः नृपतेः रसान्
द्रक्ष्यामः सुमहत् पर्व यान्ति जानपदाः किल
एवम् आघोषयत् क्षत्रा नन्द-गोपः स्व-गोकुले ॥ १२ ॥

गोप्यः ताः तत्-उपश्रुत्य बभूवुः व्यथिताः भृशम्
राम-कृष्णौ पुरीम् नेतुम् अक्रूरम् व्रजम् आगतम् ॥ १३ ॥

काश्चित् तत्-कृत-हृत्तापाः श्वास-अम्लान-मुख-श्रियः
स्रंसत्-दुर्द्दुकूल-वलय-केश-ग्रंथ्यः काश्चन ॥ १४ ॥

अन्याः तत्-अनुध्यान-निवृत्त-अशेष-वृत्तयः
अभ्यजानन् इमम् लोकम् आत्म-लोकम् गताः इव ॥ १५ ॥

स्मरन्त्यः अपराः शौरेः अनुराग-स्मित-इरिताः
हृदि-स्पृशः चित्र-पदाः गिरः संमुमुहुः स्त्रियः ॥ १६ ॥

गतिम् सुललिताम् चेष्टाम् स्निग्ध-हास-अवलोकनम्
शोक-अपहानि नर्माणि प्रोद्दाम-चरितानि ॥ १७ ॥

चिन्तयन्त्यः मुकुन्दस्य भीताः विरह-कातराः
समेताः सङ्घशः प्रोचुः अश्रु-मुख्यः अच्युत-आशयाः ॥ १८ ॥

श्री-गोप्यः ऊचुः
अहो विधातः तव क्वचित् दया
संयोज्य मैत्र्या प्रणयेन देहिनः
तान् अकृत-अर्थान् वियुनक्षि अ-पार्थकम्
विक्रीडितम् ते अर्भक-चेष्टितम् यथा ॥ १९ ॥

यः त्वम् प्रदर्श्य आसित-कुन्तल-आवृतम्
मुकुन्द-वक्त्रम् सुकपोलम् उन्नसम्
शोक-अपनोद-स्मित-लेश-सुन्दरम्
करोषि पारोक्ष्यम् असाधु ते कृतम् ॥ २० ॥


क्रूरः त्वम् अक्रूर-समाख्यया स्म नः
चक्षुः हि दत्तम् हरसे बतः अज्ञवत्
येन एक-देशे अखिल-सर्ग-सौष्ठवम्
त्वदीयम् अद्राक्ष्म वयम् मधु-द्विषः ॥२१॥

नन्द-सूनुः क्षण-भङ्ग-सौहृदः
समीक्षते नः स्व-कृत-आतुराः बतः
विहाय गेहान् स्व-जनान् सुतान् पतीन्
तत्-दास्यम् अद्धा उपगताः नव-प्रियः ॥२२॥

सुखम् प्रभाता रजनी आशिषः
सत्याः बभूवुः पुर-योषिताम् ध्रुवम्
याः संप्रविष्टस्य मुखम् व्रज-स्वपतेः
पास्यन्ति अपाङ्ग-उत्कलित-स्मित-आसवम् ॥२३॥

तासाम् मुकुन्दः मधु-मञ्जु-भाषितैः
गृहीत-चित्तः परवान् मनस्व्य्-अपि
कथम् पुनः नः प्रतियास्यते अबलाः
ग्राम्याः स-लज्ज-स्मित-विभ्रमैः भ्रमन् ॥२४॥

अद्य ध्रुवम् तत्र दृशः भविष्यते
दाशार्ह-भोज-अन्धक-वृष्णि-सात्वताम्
महा-उत्सवः श्री-रमणम् गुण-आस्पदम्
द्रक्ष्यन्ति ये अध्वनि देवकी-सुतम् ॥२५॥

मैतद्विधस्य अ-करुणस्य नाम भूत्
अक्रूरः इति एतत् अतीव दारुणः
यः असौ अनाश्वास्य सुदुःखितम् जनम्
प्रियात् प्रियं नेष्यति पारम् अध्वनः ॥२६॥

अनार्द्र-धीरः असौ समास्थितः रथम्
तम् अन्वमीय त्वरयन्ति दुर्-मदाः
गोपाः अनैः स्थविरैः उपेक्षितम्
दैवम् नः अद्य प्रतिकूलम् ईहते ॥२७॥

निवारयामः समुपेत्य माधवम्
किम् नः अकरिष्यन् कुल-वृद्ध-बान्धवाः
मुकुन्द-सङ्गात् निमिष-अर्ध-दुस्त्यजात्
दैवेन विध्वंसित-दीन-चेतसाम् ॥२८॥

यस्य अनुराग-ललित-स्मित-वल्गु-मन्त्र-
लीला-अवलोक-परिरम्भण-रास-गोष्ठाम्
नीताः स्म नः क्षणम् इव क्षणदा विना तम्
गोप्यः कथम् नु अतितरेम तमः दुरन्तम् ॥२९॥

यः अह्नः क्षये व्रजम् अनन्त-सखः परीतः
गोपैः विशन् खुर-रजः-छुरित-आलक-स्रक्
वेणुम् क्वणन् स्मित-कटाक्ष-निरीक्षणेन
चित्तम् क्षिणोति अमुम् ऋते नु कथम् भवेम ॥३०॥


श्रीशुक उवाच

एवं ब्रुवाणाः विरहातुराः भृशम्

व्रजस्त्रियः कृष्णविषक्तमानसाः

विसृज्य लज्जाम् रुरुदुः स्म सुस्वरम्

गोविन्द दामोदर माधव इति ॥३१॥


स्त्रीणाम् एवम् रुदन्तीनाम् उदिते सवितरि यथा

अक्रूरः च उदयामास कृतमैत्रः अदिकः रथम् ॥३२॥


गोपाः तम् अन्वसज्जन्त नन्दाद्याः शकटैः ततः

आदाय उपायनम् भूरि कुम्भान् गोरससम्भृतान् ॥३३॥


गोप्यः च दयितम् कृष्णम् अनुव्रज्य अनुरञ्जिताः

प्रत्यादेशम् भगवतः काङ्क्षन्त्यः च अवतस्थिरे ॥३४॥


ताः तथा तप्यतीः वीक्ष्य स्वप्रस्थाणे यदूत्तमः

सान्त्वयाम् आस सप्रेमैः आयास्ये इति दौत्यकैः ॥३५॥


यावत् आलक्ष्यते केतुः यावत् रेणुः रथस्य च

अनुप्रस्थापितात्मानः लेख्यानि इव उपलक्षिताः ॥३६॥


ताः निराशाः निववृतुः गोविन्दविनिवर्तने

विशोकाः अहनी निन्युः गायन्त्यः प्रियचेष्टितम् ॥३७॥


भगवान् अपि सम्प्राप्तः राम अक्रूर युतः नृप

रथेन वायुवेगेन कालिन्दीम् अघनाशिनीम् ॥३८॥


तत्र उपस्पृश्य पानीयम् पीत्वा मृष्टम् मणिप्रभम्

वृक्षषण्डम् उपव्रज्य सरामः रथम् आविशत् ॥३९॥


अक्रूरः तौ उपामन्त्र्य निवेश्य च रथ उपरि

कालिन्द्याः ह्रदम् आगत्य स्नानम् विधिवत् आचरत् ॥४०॥


निमज्ज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम् ।
तौ एव ददृशे अक्रूरः राम-कृष्णौ समन्वितौ ॥ ४१ ॥

तौ रथस्थौ कथम् इह सुतौ अनक-दुन्दुभेः ।
तर्हि स्वित् स्यन्दने न स्तः इति उन्मज्ज्य व्यचष्ट सः ॥ ४२ ॥

तत्र अपि च यथा पूर्वम् आसीनौ पुनः एव सः ।
न्यमज्जत् दर्शनम् यत् मे मृषा किम् सलिले तयोः ॥ ४३ ॥

भूयः तत्र अपि सः अद्राक्षीत् स्तूयमानम् मही-ईश्वरम् ।
सिद्ध-चारण-गन्धर्वैः असुरैः नत-कन्धरैः ॥ ४४ ॥

सहस्र-शिरसम् देवं सहस्र-फण-मौलिनम् ।
नील-अम्बरम् बिस-श्वेतम् शृङ्गैः श्वेतम् इव स्थितम् ॥ ४५ ॥

तस्य उत्सङ्गे घन-श्यामम् पीत-कौशेय-वाससम् ।
पुरुषम् चतुर्-भुजम् शान्तम् पद्म-पत्र-अरुण-ईक्षणम् ॥ ४६ ॥

चारु-प्रसन्न-वदनम् चारु-हास-निरीक्षणम् ।
सु-भ्रून्-नसम् चारु-कर्णम् सु-कपोल-अरुण-अधरम् ॥ ४७ ॥

प्रलम्ब-पीवर-भुजम् तुङ्ग-अंस-उरः-स्थल-श्रियम् ।
कम्बु-कण्ठम् निम्न-नाभिम् वलि-मत्-पल्लव-उदरम् ॥ ४८ ॥

बृहत्-कति-तट-श्रोणि-कर-भु-ऊरु-द्वय-अन्वितम् ।
चारु-जानु-युगम् चारु-जङ्घा-युगल-संयुतम् ॥ ४९ ॥

तुङ्ग-गुल्फ-अरुण-नख-व्रात-दीधितिभिः-वृतम् ।
नव-अङ्गुलि-अङ्गुष्ठ-दलैः विलसत्-पाद-पङ्कजम् ॥ ५० ॥


सुमह-अर्ह-मणि-व्रात-किरीट-कटक-अङ्गदैः ।
कटी-सूत्र-ब्रह्म-सूत्र-हार-नूपुर-कुण्डलैः ॥ ५१ ॥

भ्राजमानम् पद्म-करम् शङ्ख-चक्र-गदा-धरम् ।
श्रीवत्स-वक्षसम् भ्राजत्-कौस्तुभम् वन-मालिनम् ॥ ५२ ॥

सु-नन्द-नन्द-प्रमुखैः पर्षदैः सनक-आदिभिः ।
सुर-ईश्वरैः ब्रह्म-रुद्र-आद्यैः नवभिः च द्विज-उत्तमैः ॥ ५३ ॥

प्रह्लाद-नारद-वसु-प्रमुखैः भागवत-उत्तमैः ।
स्तूयमानम् पृथक्-भावैः वचोभिः अमल-आत्मभिः ॥ ५४ ॥

श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्या इलया उर्जया ।
विद्यया अविद्यया शक्त्या मायया च निषेवितम् ॥ ५५ ॥

विलोक्य सुभृशम् प्रीतः भक्त्या परमया युतः ।
हृष्यत्-तनु-उरुः भाव-परिक्लिन्न-आत्म-लोचनः ॥ ५६ ॥

गिरा गद्गदया अस्तोषीत् सत्त्वम् आलम्ब्य सात्वतः ।
प्रणम्य मूर्ध्नि अवहितः कृत-अञ्जलि-पुटः शनैः ॥ ५७ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरप्रतियाने एकोन्चत्वारिंशोऽध्यायः ॥ ३९ ॥

Friday, 11 April 2025

ஸ்கந்தம் 10: அத்யாயம் 38 (அக்ரூரர் பிருந்தாவனம் வருகை - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

அக்ரூரர் பிருந்தாவனம் வருகை

ஸ்கந்தம் 10: அத்யாயம் 38

श्री शुक उवाच –
अक्रूरः अपि च ताम् रात्रिम् मधुपुर्याम् महामतिः ।
उषित्वा रथम् आस्थाय प्रययौ नन्द-गोकुलम् ॥ १ ॥

गच्छन् पथि महाभागः भगवति अम्बुज-ईक्षणे ।
भक्तिम् पराम् उपगतः एवम् एतत् अचिन्तयत् ॥ २ ॥

किम् मया आचरितम् भद्रम् किम् तप्तम् परमम् तपः ।
किम् वा अथ अपि अर्हते दत्तम् यत् द्रक्ष्यामि अद्य केशवम् ॥ ३ ॥

मम एतत् दुर्लभम् मन्ये उत्तम-श्लोक-दर्शनम् ।
विषय-आत्मनः यथा ब्रह्म-कीर्तनम् शूद्र-जन्मनः ॥ ४ ॥

मा एवम् मम अधमस्य अपि स्यात् एव अच्युत-दर्शनम् ।
ह्रियमाणः कल-नद्या क्वचित् तरति कश्चन ॥ ५ ॥

मम आद्य-अङ्गलम् नष्टम् फलवान् च एव मे भवः ।
यत् नमस्ये भगवतः योगि-ध्येय-अङ्घ्रि-पङ्कजम् ॥ ६ ॥

कंसः बत आद्या अक्रत् मे अति-अनुग्रहम् ।
द्रक्ष्ये अङ्घ्रि-पद्मम् प्रहितः अमुना हरेः ॥
कृत-अवतारस्य दुरत्ययम् तमः ।
पूर्वे अतरण् यत् नख-मण्डल-त्विषा ॥ ७ ॥

यत् अर्चितम् ब्रह्म-भव-आदिभिः सुरैः ।
श्रिया च देव्या मुनिभिः स-सात्वतैः ॥
गो-चारणाय अनुचरैः चरत् वने ।
यत् गोपिकानाम् कुच-कुङ्कुम-अङ्कितम् ॥ ८ ॥

द्रक्ष्यामि नूनम् सु-कपोल-नासिकम् ।
स्मित-अवलोक-अरुण-कञ्ज-लोचनम् ॥
मुखम् मुकुन्दस्य गुड-आलक-आवृतम् ।
प्रदक्षिणम् मे प्रचरन्ति वै मृगाः ॥ ९ ॥

अपि अद्य विष्णोः मनुजत्वम् ईयुषः ।
भार-अवताराय भुवः निज-इच्छया ॥
लावण्य-धाम्नः भविता उपलम्भनम् ।
मह्यम् न न स्यात् फलम् अञ्जसा दृशः ॥ १० ॥

यः ईक्षित-अहम्-रहितः अपि असत्-सतः ।
स्व-तेजसा अपास्त-तमः अभिदा-अभ्रमः ॥
स्व-मायया आत्मन् रचितैः तत्-ईक्षया ।
प्राण-अक्ष-धीभिः सदनेषु अ‍भीयते ॥ ११ ॥

यस्मिन् अखिल-आमीव-भिः सु-मङ्गलैः ।
वाचः विमिश्राः गुण-कर्म-जन्मभिः ॥
प्राणन्ति शुम्भन्ति पुनन्ति वै जगत् ।
याः तत्-विरक्ताः शव-शोभनाः मताः ॥ १२ ॥

सः च अवतीर्णः किल सात्वत-आन्वये ।
स्व-सेतु-पाल-अमर-वर्य-शर्म-कृत् ॥
यशः वितन्वन् व्रज-आस्त ईश्वरः ।
गायन्ति देवा यत् अशेष-मङ्गलम् ॥ १३ ॥

तम् तु अद्य नूनम् महताम् गतिम् गुरुम् ।
त्रै-लोक्य-कान्तम् दृशि-मत्-महोत्सवम् ॥
रूपम् दधानम् श्रियः ईप्सित-आस्पदम् ।
द्रक्ष्ये मम आसन्न-उषसः सु-दर्शनाः ॥ १४ ॥

अथ अवरूढः सपदि ईशयः रथात् ।
प्रधान-पुंसः चरणम् स्व-लभ्दये ॥
धिया धृतम् योगिभिः अपि अहम् ध्रुवम् ।
नमस्य आभ्याम् च सखीन् वन-औकसः ॥ १५ ॥

अपि अङ्घ्रि-मूले पतितस्य मे विभुः ।
शिरसि अधास्यन् निज-हस्त-पङ्कजम् ॥
दत्त-अभयम् काल-भुज-अङ्ग-रंहसा ।
प्रोद्वेजितानाम् शरण-ईषिणाम् नृणाम् ॥ १६ ॥

समर्हणम् यत्र निधाय कौशिकः ।
तथा बलिः च अपि जगत्-त्रय-इन्द्रताम् ॥
यत् वा विहारे व्रज-योषिताम् श्रमम् ।
स्पर्शेन सौगन्धिक-गन्धि अपानुदत् ॥ १७ ॥

न मयि उपैष्यति अरि-बुद्धिम् अच्युतः ।
कंसस्य दूतः प्रहितः अपि विश्व-दृक् ॥
यः अन्तः बहिः चेतसः एतत् ईहितम् ।
क्षेत्रज्ञः ईक्षति अमलेन चक्षुषा ॥ १८ ॥

अपि अङ्घ्रि-मूले अवहितम् कृत-अञ्जलिम् ।
माम् ईक्षिता सस्मितम् आर्द्रया दृशा ॥
सपदि अप-ध्वस्त-समस्त-किल्बिषः ।
वोढा मुदम् वीत-विशङ्कः ऊर्जिताम् ॥ १९ ॥

सुहृत्-तमम् ज्ञातिम् अनन्य-दैवतम् ।
दोर्-भ्याम् बृहद्-भ्याम् परिरप्स्यते अथ माम् ॥
आत्मा हि तीर्थी-क्रियते तदा एव मे ।
बन्धः च कर्म-आत्मकः उच्छ्वसिति यतः ॥ २० ॥

लब्ध्वा-अङ्ग-सङ्गम् प्रणतम् कृत-अञ्जलिम् ।
माम् वक्ष्यते अक्रूर तते इति उरु-श्रवाः ॥
तदा वयम् जन्म-भृतः महीयसा ।
न एव आदृतः यः धिक् अमुष्य जन्म तत् ॥ २१ ॥

न तस्य कश्चित् दयितः सुहृत्-तमः ।
न च अप्रियः द्वेष्यः उपेक्ष्यः एव वा ॥
तथा अपि भक्तान् भजते यथा तथा ।
सुर-द्रुमः यत्-वत् उपाश्रितः अर्थ-दः ॥ २२ ॥

किञ्च अग्रजः माम् अवनतम् यदू-उत्तमः ।
स्मयन् परिष्वज्य गृहीत-अञ्जलौ ॥
गृहम् प्रवेश्य आप्त-समस्त-सत्कृतम् ।
सम्प्रक्ष्यते कंस-कृतम् स्व-बन्धुषु ॥ २३ ॥

श्री-शुकः उवाच —
इति सञ्चिन्तयन् कृष्णम् श्वफल्क-तनयः अध्वनि ।
रथेन गो-कुलम् प्राप्तः सूर्यः च अस्त-गिरिम् नृप ॥ २४ ॥

पदानि तस्य अखिल-लोक-पाल-
किरीट-जुष्ट-अमल-पाद-रेणोः ।
ददर्श गोष्ठे क्षिति-कौतुकानि ।
विलक्षितानि अब्ज-यव-अङ्कुश-आद्यैः ॥ २५ ॥

तत्-दर्शन-आह्लाद-विवृद्ध-सम्भ्रमः ।
प्रेम्णा ऊर्ध्व-रोम अश्रु-कलाकुल-ईक्षणः ॥
रथात् अवस्कन्द्य सः तेषु अचेष्टत ।
प्रभोः अमूनि अङ्घ्रि-रजांसि अहो इति ॥ २६ ॥

देह-अम्भृताम् इयान्-अर्थः हित्वा दम्भम् भियम् शुचम् ।
सन्देशात् यः हरेः लिङ्गम् दर्शन-श्रवण-आदिभिः ॥ २७ ॥

ददर्श कृष्णम् रामम् च व्रजे गो-दोहनम् गतौ ।
पीत-नील-अम्बर-धरौ शरद्-अम्बु-रुह-ईक्षणौ ॥ २८ ॥

किशोरौ श्यामल-श्वेतौ श्री-निकेतौ बृहद्-भुजौ ।
सुमुखौ सुन्दर-वरौ बल- द्वि-रद-विक्रमौ ॥ २९ ॥

ध्वज-वज्र-अङ्कुश-अम्भोजैः चिह्नितैः अङ्घ्रिभिः व्रजम् ।
शोभयन्तौ महात्मानौ अनुक्रोश-स्मित-ईक्षणौ ॥ ३० ॥

उदार-रुचिर-क्रीडौ स्रग्विणौ वन-मालिनौ ।
पुण्य-गन्ध-अनुलिप्त-अङ्गौ स्नातौ विरज-वाससौ ॥ ३१ ॥

प्रधान-पुरुषौ आद्यौ जगत्-हेतू जगत्-पती ।
अवतीर्णौ जगति अर्थे स्व-अंशेन बल-केशवौ ॥ ३२ ॥

दिशः वि-तिमिराः राजन् कुर्वाणौ प्रभया स्वया ।
यथा मारकतः शैलः रौप्यः च कनक-आचितौ ॥ ३३ ॥

रथात् तूर्णम् अवप्लुत्य सः अक्रूरः स्नेह-विह्वलः ।
पपात चरण-उपान्ते दण्डवत् राम-कृष्णयोः ॥ ३४ ॥

भगवत्-दर्शन-आह्लाद-बाष्प-पर्याकुल-ईक्षणः ।
पुलक-चित-अङ्गः औत्कण्ठ्यात् स्व-अख्याने न अशकन् नृप ॥ ३५ ॥

भगवान् तम् अभिप्रेत्य रथ-अङ्ग-अङ्कित-पाणिना ।
परिरेभे अभ्युपाकृष्य प्रीतः प्रणत-वत्सलः ॥ ३६ ॥

सङ्कर्षणः च प्रणतम् उपगुह्य महा-मनाः ।
गृहीत्वा पाणिना पाणी अनयत् स-अनुजः गृहम् ॥ ३७ ॥

पृष्ट्वा अथ स्वागतं तस्मै निवेद्य च वर-आसनम् ।
प्रक्षाल्य विधिवत् पादौ मधु-पर्क-अर्हणम् आहरत् ॥ ३८ ॥

निवेद्य गां च अतिथये संवाह्य श्रान्तम् आदृतः ।
अन्नम् बहु-गुणम् मेध्यम् श्रद्धया उपाहरत् विभुः ॥ ३९ ॥

तस्मै भुक्तवते प्रीत्या रामः परम-धर्म-वित् ।
मख-वासैः गन्ध-माल्यैः पराम् प्रीतिम् व्यधात् पुनः ॥ ४० ॥

पप्रच्छ सत्कृतं नन्दः कथं स्थ निरनुग्रहे ।
कंसे जीवति दाशार्ह सौनपाला इव अवयः ॥ ४१ ॥

य: अवधी: स्व-स्वसुः तोकान् क्रोशन्त्याः असुतृप् खलः ।
किं नु स्वित् तत् प्रजानां वः कुशलं विमृशामहे ॥ ४२ ॥

इत्थं सूनृतया वाचा नन्देन सुसभाजित: ।
अक्रूर: परिपृष्टेन जहौ अध्व-परिश्रमम् ॥ ४३ ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे अक्रूरागमनं नाम 
अष्टत्रिंशोऽध्यायः ॥ ३८ ॥ 

ஸ்கந்தம் 10: அத்யாயம் 37 (கேசீ மற்றும் வ்யோமனின் வதம் - ஸ்ரீமத் பாகவதம் - Srimad Bhagavatham)

கேசீ மற்றும் வ்யோமனின் வதம்

ஸ்கந்தம் 10: அத்யாயம் 37

श्री शुक उवाच
केशी तु कंस-प्रहितः खुरैः महीम्
महाहयः निर्जरयन् मनः-जवः ।
सटा-अवधूत-अभ्र-विमान-सङ्कुलम्
कुर्वन् नभः हेषित-भीषित-अखिलः ॥ 1 ॥


विशाल-नेत्रः विकट-आस्य-कोटरः
बृहद्-गलः नील-महाम्बुद-उपमः ।
दुराशयः कंस-हितम् चिकीर्षुः
व्रजम् स नन्दस्य जगाम कम्पयन् ॥ 2 ॥

तम् त्रासयन्तम् भगवान् स्व-गोकुलम्
तत्-हेषितैः वाल-विघूर्णित-अम्बुदम् ।
आत्मानम् आजौ मृगयन्तम् अग्रणीः
उपाह्वयत् सः व्यनदत् मृगेन्द्रवत् ॥ 3 ॥

सः तम् निशाम्य अभिमुखः मखेन खम्
पिबन् इव अभ्यद्रवत् अत्य-अमर्षणः ।
जघान पद्‍भ्याम् अरविन्द-लोचनम्
दुरासदः चण्ड-जवः दुरत्ययः ॥ 4 ॥

तत् वञ्चयित्वा तम् अधोक्षजः रुषा
प्रगृह्य दोर्भ्याम् परिविध्य पादयोः ।
सावज्ञम् उत्सृज्य धनुः-शत-अन्तरे
यथा उरगम् तार्क्ष्य-सुतः व्यवस्थितः ॥ 5 ॥

सः लब्ध-संज्ञः पुनः उत्थितः रुषा
व्यादाय केशी तरसा आपतत् हरिम् ।
सः अपि अस्य वक्त्रे भुजम् उत्तरम् स्मयन्
प्रवेशयामास यथा उरगम् बिले ॥ 6 ॥

दन्ताः निपेतुः भगवत्-भुज-स्पृशः
ते केशिनः तप्त-मयः-स्पृशः यथा ।
बाहुः च तत्-देहगतः महा-आत्मनः
यथा आमयः संववृधे उपेक्षितः ॥ 7 ॥

समेधमानेन सः कृष्ण-बाहुना
निरुद्ध-वायुः चरणान् च विक्षिपन् ।
प्रस्विन्न-गात्रः परिवृत्त-लोचनः
पपात लेण्डम् विसृजन् क्षितौ व्यसुः ॥ 8 ॥

तत्-देहतः कर्कटिका-फल-उपमात्
व्यसुः अपाकृष्य भुजम् महा-भुजः ।
अविस्मितः अयत्न-हत-अरिः उत्स्मयैः
प्रसून-वर्षैः दिविषद्‍भिः ईडितः ॥ 9 ॥

देव-ऋषिः उपसङ्गम्य भागवत-प्रवरः नृप
कृष्णम् अक्लिष्ट-कर्माणम् रहस्य एतत् अभाषत ॥ 10 ॥

कृष्ण कृष्ण-अप्रमेय-आत्मन् योगेश जगत्-ईश्वर ।
वासुदेव-अखिल-आवास सात्वताम् प्रवर प्रभो ॥ 11 ॥

त्वम् आत्मा सर्व-भूतानाम् एकः ज्योतिः इव ऐधसाम् ।
गूढः गुहा-आशयः साक्षी महा-पुरुषः ईश्वरः ॥ 12 ॥

आत्मना आत्म-आश्रयः पूर्वम् मायया ससृजे गुणान् ।
तैः इदम् सत्य-सङ्कल्पः सृजसि अच्युत अवसी ईश्वरः ॥ 13 ॥

सः त्वम् भूधर-भूतानाम् दैत्य-प्रमथ-रक्षसाम् ।
अवतीर्णः विनाशाय सेतूनाम् रक्षणाय च ॥ 14 ॥

दिष्ट्या ते निहतः दैत्यः लीलया अयम् हय-आकृतिः ।
यस्य हेषित-सन्त्रस्ताः त्यजन्ति अनिमिषाः दिवम् ॥ 15 ॥

चाणूरम् मुष्टिकम् च एव मल्लान् अन्यान् च हस्तिनम् ।
कंसम् च निहतम् द्रक्ष्ये परश्वः अहनि ते विभो ॥ 16 ॥

तस्य अनु शङ्ख-यवन-मुराणाम् नरकस्य च ।
पारिजात-अपहरणम् इन्द्रस्य च पराजयम् ॥ 17 ॥

उद्वाहम् वीर-कन्यानाम् वीर्य-शुल्क-आदि-लक्षणम् ।
नृगस्य मोक्षणम् पापात् द्वारकायाम् जगत्-पते ॥ 18 ॥

स्यमन्तकस्य च मणेः आदानम् सह भार्यया ।
मृत-पुत्र-प्रदानम् च ब्राह्मणस्य स्व-धामतः ॥ 19 ॥

पौण्ड्रकस्य वधम् पश्चात् काशि-पुर्याः च दीपनम् ।
दन्तवक्रस्य निधनम् चैद्यस्य च महा-क्रतौ ॥ 20 ॥

यानि च अन्यानि वीर्याणि द्वारका-आवासन् भवान् ।
कर्ता द्रक्ष्यामि अहं तानि गेयानि कविभिः भुवि ॥ 21 ॥

अथ ते काल-रूपस्य क्षपयिष्णोः अमुष्य वै ।
अक्षौहिणीनाम् निधनम् द्रक्ष्यामि अर्जुन-सारथेः ॥ 22 ॥

विशुद्ध-विज्ञान-घनम् स्व-संस्थया
समाप्त-सर्व-अर्थम् अमोघ-वाञ्छितम् ।
स्व-तेजसा नित्य-निवृत्त-माया-
गुण-प्रवाहम् भगवन्तम् ईमहि ॥ 23 ॥

त्वाम् ईश्वरम् स्व-आश्रयम् आत्म-मायया
विनिर्मित-अशेष-विशेष-कल्पनम् ।
क्रीडा-अर्थम् अद्य-आत्त-मनुष्य-विग्रहम्
नतः अस्मि धुर्यम् यदु-वृष्णि-सात्वताम् ॥ 24 ॥

श्री-शुकः उवाच —
एवम् यदु-पतिम् कृष्णम् भागवत-प्रवरः मुनिः ।
प्रणिपत्य अभ्यनुज्ञातः ययौ तत्-दर्शन-उत्सवः ॥ 25 ॥

भगवान् अपि गोविन्दः हत्वा केशिनम् आहवे ।
पशून् पालयत् पालैः प्रीतैः व्रज-सुख-आवहः ॥ 26 ॥

एकदा ते पशून् पालाः चारयन्तः अद्रि-सानुषु ।
चक्रुः निलायन-क्रीडाम् चोर-पाल-आपदेशतः ॥ 27 ॥

तत्र आसन् कतिचित् चोराः पालाः च कतिकिन् नृप ।
मेषायिताः च तत्र ऐके विजह्रुः अकुतः-भयाः ॥ 28 ॥

मय-पुत्रः महा-मायः व्योमः गोपाल-वेष-धृक् ।
मेषायितान् अपोवाह प्रायः चोरायितः बहून् ॥ 29 ॥
 
गिरि-दर्याम् विनिक्षिप्य नीतम् नीतम् महा-असुरः ।
शिलया पिदधे द्वारम् चतुः-पञ्च अवशेषिताः ॥ 30 ॥

तस्य तत् कर्म विज्ञाय कृष्णः शरण-दः सताम् ।
गोपान् नयन्तम् जग्राह वृकं हरिः इव औजसा ॥ 31 ॥

स निजम् रूपम् आस्थाय गिरि-इन्द्र-सदृशं बली ।
इच्छन् विमोक्तुम् आत्मानम् न अशक्नोत् ग्रहण-अतुरः ॥ 32 ॥

तम् निगृह्य अच्युतः दोर्भ्यां पातयित्वा मही-तले ।
पश्यताम् दिवि देवानाम् पशु-मारम् अमारयत् ॥ 33 ॥

गुहा-अपिधानम् निर्भिद्य गोपान् निःसार्य कृच्छ्रतः ।
स्तूयमानः सुरैः गोपैः प्रविवेश स्व-गोकुलम् ॥ 34 ॥

इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां 
संहितायां दशमस्कन्धे पूर्वार्धे व्योमासुरवधो नाम 
सप्तत्रिंशोऽध्यायः ॥ ३७ ॥