Followers

Search Here...

Saturday, 7 March 2026

ஸ்கந்தம் 5: அத்யாயம் 6 (ரிஷப தேவரின் தேக தியாகம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ரிஷப தேவரின் தேக தியாகம்

ஸ்கந்தம் 5: அத்யாயம் 6

राजोवाच
न नूनं भगव आत्मारामाणां योग-समीरित-ज्ञान-आवभर्जित-कर्म-बीजानाम् ऐश्वर्याणि पुनः क्लेश-दानि भवितुम्र्हन्ति यदृच्छया उपगतानि ॥ १ ॥

ऋषिरुवाच
सत्यम् उक्तं किन्तु इह वा एके न मनसः अध्धा विश्रम्भ-मनवस्थानस्य शठ-किरात् इव सङ्गच्छन्ते ॥ २ ॥

तथा चोक्तम्
न कुर्यात् कर्हिचित् सख्यं मनसि हि अनवस्थिते ।
यद् विश्रम्भाच् चिराच् चीर्णं च स्कन्द तप ऐश्वर्यम् ॥ ३ ॥

नित्यं ददाति कामस्य छिद्रं तत् अनु येऽरयः।
योगिनः कृत-मैत्रस्य पत्युर्जाय एव पुंश्चली ॥ ४ ॥

कामः मन्युर्मदः लोभः शोक-मोह-भयादयः।
कर्म-बन्धश्च यत् मूलः स्वीकुर्यात् को नु तत् बुधः ॥ ५ ॥

अथैवम् अखिल-लोक-पाल-ललामोऽपि विलक्षणैः जड-वद-अवधूत-वेणु-भाषा-चरितैः अविलक्षित भगवत्-प्रभावः योगिनां साम्पराय-विधि-म् अनुशिक्षयन् स्व-कलेवरम् जिहा-असुरात्मनि आत्मानम् असं-व्यवहितम् अनर्थान्तर-भावेन अन्वीक्षमाण उपरता-नुवृत्ति-रुपरराम् ॥ ६ ॥

तस्य ह वा एवं मुक्त-लिङ्गस्य भगवत् ऋषभस्य योग-माया-वासना-या देह इमां जगतीम् अभिमान-आभासेन सङ्क्रम-माणः कोङ्कव-एङ्क-कुटकान् दक्षिण-कर्णाटका-न्देशान् यदृच्छया उपगतः कुटक-चल-उपवन आस्य कृताश्म-कल् उन्माद इव मुक्त-मूर्धजः असंवीत एव विचचार ॥ ७ ॥

अथ समीर-वॆग-विधूत-वेणु-विकर्षण-जात-ओग्र-दावानल-स्तद् वन-मालेलिहानः सह तेन ददाह ॥ ८ ॥

यस्य किल अनुचरितम् उपाकर्ण्य कोङ्कव-एङ्क-कुटकानाम् राजार्हन् नामोपशिक्ष्य कलाव-धर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्व-धर्म-पथ-मकुटोभयम् अपहाय कुपथ-पाखण्ड-समञ्जसं निज-मनीषया मन्दः सम्प्रवर्तयिष्यते ॥ ९ ॥

येन ह वाव कलौ मनुज-अपसदा देव-माया-मोहिताः स्व-विधि-नियोग-शौच-चारित्र-विहीना देव-हेलनानि अपव्रतानि निज-निजेच्छया गृह्णाना अस्नानानि अचमनाशौच-केश-उल्लुञ्चनादीनि कलिनाधर्म-बहु-लेनोपहत-धियो ब्रह्म-ब्राह्मण-यज्ञ-पुरुष-लोक-विदूषकाः प्रायेण भविष्यन्ति ॥ १० ॥

ते च हि RVाक्त-नया निज-लोक-यात्रा-आन्ध-परम्परयाऽऽश्वस्ता तस्यन्धे स्वयमेव प्रपतिष्यन्ति ॥ ११ ॥

अयं अवतारो रजस-उपप्लुत-कैवल्य-उप-शिक्षणार्थः ॥ १२ ॥

तस्य अनुगुणान् श्लोकान् गायन्ति –
अहो भुवः सप्त-समुद्र-वत्या
द्वीपेषु वर्षेषु अधि-पुण्यं एतत् ।
गायन्ति यत्र त्यजना मुरारेः
कर्माणि भद्राणि अवतारवन्ति ॥ १३ ॥

अहो नु वंशो यशसाव-दातः
प्रैयव्रतो यत्र पुमान् पुराणः ।
कृत-अवतारः पुरुषः स आद्य-
श्चचार धर्मं यद् कर्म-हेतुम् ॥ १४ ॥

को न्वस्य काष्ठम् अपरोऽनुगच्छे-
न मनोरथेन अपि अभवस्य योगी ।
यो योग-माया-आः स्पृहयति उदस्ता
हि असत्तया येन कृत-प्रयत्नाः ॥ १५ ॥

इति ह स्म सकल-वेद-लोक-देव-ब्राह्मण-गवाम् परम-गुरोः भगवत् ऋषभ-आख्यस्य विशुद्ध-चरितम् ईरितम् पुंसाम् समस्त-दुश्चरित-अभि-हरणम् परम-महा-मङ्गलायनम् इदम् अनु-श्रद्धया उपचित्या अनु-शृणोति आश्रावयति वा अवहितः भगवति तस्मिन् वासुदेव एकान्ततः भक्तिः अनयोः अपि समनुवर्तते ॥ १६ ॥

यस्याम् एव कवयः आत्मानम् अविरतम् विविध-वृजिन-संसार-परिताप-उप-तप्यमानम् अनुसवनम् स्नापयन्तः तया एव परया निर्वृत्या हि अपवर्गम् आत्यन्तिकम् परम-पुरुष-अर्थम् अपि स्वयम् आसादितम् न एव आद्रियन्ते भगवदीयत्वेन एव परिसमाप्त-सर्व-अर्थाः ॥ १७ ॥

राजन् पतिः गुरुः अलम् भवताम् यदूनाम्
दैवम् प्रियः कुल-पतिः क्व च किङ्करः वः ।
अस्तु एवम् अङ्ग भगवान् भजताम् मुकुन्दः
मुक्तिम् ददाति कर्हिचित् स्म न भक्ति-योगम् ॥ १८ ॥

नित्य-अनुभूत-निज-लाभ-निवृत्त-तृष्णः
श्रेयसि तत्-रचनया चिर-सुप्त-बुद्धेः ।
लोकस्य यः करुणया अभयम् आत्म-लोकम्
आख्यात् नमः भगवते ऋषभाय तस्मै ॥ १९ ॥

इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायाम् पञ्चम-स्कन्धे ऋषभ-देव-अनु-चरिते षष्ठः अध्यायः ॥ ६ ॥

Sunday, 14 December 2025

ஸ்கந்தம் 5: அத்யாயம் 5 (ரிஷபதேவரின் உபதேசம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ரிஷபதேவரின் உபதேசம்

ஸ்கந்தம் 5: அத்யாயம் 5

 

ऋषभ उवाच –

न अयं देहः देह-भाजां नृ-लोके कष्टान् कामान् अर्हते विट्-भुजां ये।
तपः दिव्यं पुत्रकाः येन सत्त्वं शुद्ध्येत् यस्मात् ब्रह्म-सौख्यं तु अनन्तम् ॥ १ ॥

महत्-सेवां द्वारम् आहुः विमुक्तेः तमः-द्वारं योषितां सङ्गि-सङ्गम्।
महान्तः ते सम-चित्ताः प्रशान्ताः विमन्यवः सुहृदः साधवः ये ॥ २ ॥

ये वा मयि ईशे कृत-सौहृद-अर्थाः जनेषु देहं-भर-वार्तिकेषु।
गृहेषु जाय-आत्मज-राति-मत्सु न प्रीति-युक्ताः यावत् अर्थाः च लोके ॥ ३ ॥

नूनं प्रमत्तः कुरुते विकर्म यत् इन्द्रिय-प्रीतयः आपृणोति।
न साधु मन्ये यत् आत्मनः अयम् असन् अपि क्लेश-दः आस्य देहः ॥ ४ ॥

पराभवः तावत् अबोध-जातः यावत् न जिज्ञासते आत्म-तत्त्वम्।
यावत् क्रियाः तावत् इदं मनः वै कर्म-आत्मकं येन शरीर-बन्धः ॥ ५ ॥

एवं मनः कर्म-वशं प्रयुङ्क्ते अविद्यया आत्मनि उपधीयमाने।
प्रीतिः न यावत् मयि वासुदेवे न मुच्यते देह-योगेन तावत् ॥ ६ ॥

यदा न पश्यति अयथा गुण-ईहां स्व-अर्थे प्रमत्तः सहसा विपश्चित्।
गत-स्मृतिः विन्दति तत्र तापान् आसाद्य मैथुन्यम् अगारम् अज्ञः ॥ ७ ॥

पुंसः स्त्रिया मिथुनी-भावम् एतं तयोः मिथः हृदय-ग्रन्थिम् आहुः।
अतः गृह-क्षेत्र-सुत-आप्त-वित्तैः जनस्य मोहः अयम् अहं ममेति ॥ ८ ॥

यदा मनः-हृदय-ग्रन्थिः अस्य कर्म-अनुबद्धः दृढः आश्लथेत।
तदा जनः सम्परिवर्तते अस्मात् मुक्तः परं याति अतिहाय हेतुम् ॥ ९ ॥

हंसे गुरौ मयि भक्ति-अनुवृत्या वितृष्णया द्वन्द्व-तितिक्षया च।
सर्वत्र जन्तोः व्यसन-अवगत्या जिज्ञासया तपसा ईहा-निवृत्त्या ॥ १० ॥

मत्-कर्मभिः मत्-कथया च नित्यं मत्-देव-सङ्गात् गुण-कीर्तनात् मे।
निर्वैर-साम्य-उपशमेन पुत्राः जिहासया देह-गेह-आत्म-बुद्धेः ॥ ११ ॥

अध्यात्म-योगेन विविक्त-सेवया प्राण-इन्द्रिय-आत्म-अभिजयेन साध्यक्।
सत्-श्रद्धया ब्रह्म-चर्येण शश्वत् असम्प्रमादेन यमेन वाचाम् ॥ १२ ॥

सर्वत्र मत्-भाव-विचक्षणेन ज्ञानेन विज्ञान-विराजितेन।
योगेन धृति-उद्यम-सत्त्व-युक्तः लिङ्गं व्यपोहेत् कुशलः अहम्-आख्यम् ॥ १३ ॥

कर्म-आशयं हृदय-ग्रन्थि-बन्धम् अविद्यया आसादितम् अप्रमत्‍तः।
अनेन योगेन यथा-उपदेशं सम्यक् व्यपोह्य उपरमेत् योगात् ॥ १४ ॥

पुत्रान् च शिष्यान् च नृपः गुरुः वा मत्-लोक-कामः मत्-अनुग्रह-अर्थः।
इत्थं विमन्युः अनुशिष्यात् अतत्-ज्ञान् न योजयेत् कर्मसु कर्म-मूढान्।
कं योजयन् मनुजः अर्थं लभेत निपातयन् नष्ट-दृशं हि गर्ते ॥ १५ ॥

लोकः स्वयं श्रेयसि नष्ट-दृष्टिः यः अर्थान् समीहेत् निकाम-कामः।
अन्योन्य-वैरः सुख-लेश-हेतोः अनन्त-दुःखं च न वेद मूढः ॥ १६ ॥

कः तम् स्वयं तत्-अभिज्ञः विपश्चित् अविद्यायाम् अन्तरे वर्तमानम्।
दृष्ट्वा पुनः तम् सघृणः कुबुद्धिं प्रयोजयेत् उत्-पथ-गं यथा अन्धम् ॥ १७ ॥

गुरुः न सः स्यात् स्व-जनः न सः स्यात् पिता न सः स्यात् जननी न सा स्यात्।
दैवं न तत् स्यात् न पतिः च सः स्यात् न मोचयेत् यः समुपेत-मृत्युम् ॥ १८ ॥

इदं शरीरं मम दुर्विभाव्यं सत्त्वं हि मे हृदयं यत्र धर्मः।
पृष्ठे कृतः मे यत् अधर्मः आरात् अतः हि माम् ऋषभं प्राहुः आर्याः ॥ १९ ॥

तस्मात् भवन्तः हृदयेन जाताः सर्वे महीयांसम् अमुं सनाभम्।
अक्लिष्ट-बुद्ध्या भरतं भजध्वं शुश्रूषणं तत्-भरणं प्रजानाम् ॥ २० ॥

भूतेषु वीरुद्भ्य उदुत्तमा ये सरीसृपास्तेषु सबोधनिष्ठाः।

ततो मनुष्याः प्रमथास्ततोऽपि गन्धर्वसिद्धा विबुधानुगा ये॥ २१

देवासुरेभ्यः मघवत्-प्रधाना दक्ष-आदयः ब्रह्म-सुताः तु तेषाम्।

भवः परः सः अथ विरिञ्च-वीर्यः सः मत्-परः अहं द्विज-देव-देवः॥ २२ ॥

न ब्राह्मणैः तुलये भूतम् अन्यत् पश्यामि विप्राः किम् अतः परं तु।
यस्मिन् नृभिः प्रहुतं श्रद्धया अहम् अश्नामि कामं न तथा अग्नि-होत्रे॥ २३ ॥

धृता तनुः उशती मे पुराणी येन इह सत्त्वं परमं पवित्रम्।
शमः दमः सत्यं अनुग्रहः च तपः तितिक्षा अनुभवः च यत्र॥ २४ ॥

मत्तः अपि अनन्तात् परतः परस्मात् स्वर्ग-अपवर्ग-अधिपतेः न किञ्चित्।
येषाम् किमु स्यात् इतरेण तेषाम् अकिञ्चनानां मयि भक्ति-भाजाम्॥ २५ ॥

सर्वाणि मत्-धिष्ण्यतया भवद्भिः चराणि भूतानि सुताः ध्रुवाणि।
सम्भावितव्यानि पदे पदे वः विविक्त-दृग्भिः तत् उ हार्हणं मे॥ २६ ॥

मनः-वचः-दृक्-करण-ईहितस्य साक्षात्-कृतं मे परिबर्हणं हि।
विना पुमान् येन महा-विमोहात् कृतान्त-पाशात् न विमोक्तुम् ईशेत्॥ २७ ॥


श्री-शुक उवाच

एवम् अनुशास्य आत्मजान् स्वयम् अनुशिष्टान् अपि लोक-अनुशासन-अर्थम्
महानुभावः परम-सुहृत् भगवान् ऋषभ-आदेशः

उपशम-शीलानाम् उपरत-कर्मणाम्
महा-मुनीनाम् भक्तिः–ज्ञान–वैराग्य-लक्षणम्
पारमहंस्य-धर्मम् उपशिक्षमाणः

स्व-तनय-शत-ज्येष्ठम् परम-भागवतम् भगवत्-जन-परायणम्
भरतम् धरणि-पालनाय अभिषिच्य

स्वयम् भवने एव उर्वरित-शरीर-मात्र-परिग्रहः
उन्मत्तः इव गगन-परिधानः प्रकीर्ण-केशः

आत्मनि आरोपित-आहवनीयः ब्रह्म-आवर्तात् प्रवव्राज ॥ २८ ॥

जड-अन्ध-मूक-बधिर-पिशाच-उन्मादकवत् अवधूत-वेषः
अभिभाष्यमाणः अपि जनानाम् गृहीत-मौन-व्रतः तूष्णीम् बभूव ॥ २९ ॥

तत्र तत्र पुर-ग्राम-आकर-खेट-वाट-खर्वट
शिबिर-व्रज-घोष-सार्थ-गिरि-वन-आश्रम-आदिषु

अनुपथम् अवनि-चर-अपसदैः परिभूयमानः
मक्षिकाभिः इव वन-गजः

तर्जन-ताडन-अवमेहन-ष्ठीवन-ग्राव-शकृत्-रजः
प्रक्षेप-पूति-वात-दुरुक्तैः तत् अविगणयन् एव

असत्-संस्थाने एतस्मिन् देह-उपलक्षणे
सत्-अपदेशः उभय-अनुभव-स्वरूपेण स्व-महिमा-अवस्थानेन

अस्मारोपित-अहं-मम-अभिमानत्वात् अविखण्डित-मनाः
पृथिवीम् एक-चरः परिबभ्राम ॥ ३० ॥

अति-सुकुमार-कर-चरण-उरः-स्थल
विपुल-बाहु-अंस-गल-वदन-आदि-अवयव-विन्यासः

प्रकृति-सुन्दर-स्वभाव-हास-सुमुखः
नव-नलिन-दल-आयमान-शिशिर-तार-अरुण-आयत-नयन-रुचिरः

सदृश-सुभग-कपोल-कर्ण-कण्ठ-नासः विगूढ-स्मित-वदन-मह-उत्सवेन

पुर-वनितानाम् मनसि कुसुम-शर-आसनम् उपदधानः

पराग-अवलम्बमान-कुटिल-जटिल-कपिश-केश-भूरि-भारः
अवधूत-मलिन-निज-शरीरेण ग्रह-गृहीतः इव अदृश्यत ॥ ३१ ॥

यर्हि वाव सः भगवान् लोकम् इमम् योगस्य आद्धा प्रतीपम् इव आचक्षाणः

तत्-प्रतिक्रिया-कर्म बीभत्सितम् इति व्रतम् आजगरम् आस्थितः

शयानः एव अश्नाति पिबति खादति अवमेहति हदति स्म
चेष्टमानः उच्चरित-आदि-ग्ध-उद्देशः ॥ ३२ ॥

तस्य ह यः पुरीष-सुरभि-सौगन्ध्य-वायुः तम् देशम् दश-योजनम्
समन्तात् सुरभिम् चकार ॥ ३३ ॥

एवम् गो-मृग-काक-चर्यया व्रजन् तिष्ठन् आसीनः शयानः

काक-मृग-गोचरितः पिबति खादति अवमेहति स्म ॥ ३४ ॥

इति नाना-योग-चर्या-आचरणः भगवान् कैवल्य-पतिः ऋषभः

अविरत-परम-महा-आनन्द-अनुभवः आत्मनि सर्वेषाम् भूतानाम् आत्म-भूते

भगवति वासुदेवे आत्मनः अव्यवधान-अनन्त-रोदर-भावेन

सिद्ध-समस्त-अर्थ-परिपूर्णः योग-ऐश्वर्याणि
वैहायस-मनोजव-अन्तर्धान पर-काय-प्रवेश-दूर-ग्रहण-आदीनि

यदृच्छया उपगतानि न अञ्जसा नृप हृदयेन अभ्यनन्दत् ॥ ३५ ॥

॥ इति श्रीमद्-भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चम-स्कन्धे ऋषभदेव-अनुचरिते पञ्चमोऽध्यायः ॥ ५ ॥

ஸ்கந்தம் 5: அத்யாயம் 4 (ரிஷபதேவரின் அரசாட்சி) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ரிஷபதேவரின் அரசாட்சி

ஸ்கந்தம் 5: அத்யாயம் 4

 

श्री-शुक उवाच –
अथ ह तम् उत्पत्ति-एव अभिव्यज्यमान-भगवत्-लक्षणं
साम्य-उपशम-वैराग्य-ऐश्वर्य-महा-विभूतिभिः
अनुदिनम् एधमान-अनुभावं प्रकृतयः प्रजा ब्राह्मणाः देवताः च
अवनि-तल-समवना-याति-तरां जगृधुः ॥ १ ॥

तस्य ह वा इत्थं वर्ष्मणा वरीयसा बृहद्-छ्लोकेन च
ओजसा बलेन श्रिया यशसा वीर्य-शौर्याभ्यां च
पिता ऋषभः इति इदं नाम चकार ॥ २ ॥

तस्य हि इन्द्रः स्पर्धमानः भगवान् वर्षे न ववर्ष
तत् अवधार्य भगवान् ऋषभदेवः योग-ईश्वरः
प्रहस्य आत्म-योग-मायया स्व-वर्षम् अजनाभं नाम अभ्यवर्षत् ॥ ३ ॥

नाभिः तु यथा-अभिलषितं सु-प्रजस्-त्वम् अवरुध्य
अति-प्रमोद-भर-विह्वलः गद्गद-अक्षरया गिरा
स्वैरं गृहीत-नर-लोक-सत्-धर्मं भगवन्तं पुराण-पुरुषं
माया-विलसित-मति: वत्स तात इति
सानुरागम् उपलालयन् परां निर्वृतिम् उपगतः ॥ ४ ॥

विदित-अनुरागम् आ-पुर-प्रकृति-जनपदः राजा नाभिः
आत्म-जं समय-सेतु-रक्षायाम् अभिषिच्य
ब्राह्मणेषु उपनिधाय सह मेरुदेव्या विशालायां
प्रसन्न-निपुणेन तपसा समाधि-योगेन
नर-नारायण-आख्यं भगवन्तं वासुदेवं
उपासीनः कालेन तत्-महिमानम् अवाप ॥ ५ ॥

यस्य ह पाण्डवेय श्लोकौ उदाहरन्ति –कः नु तत् कर्म 

राज-ऋषेः नाभेः अनु आचरेत् पुमान्।
अपत्यताम् अगात् यस्य हरिः शुद्धेन कर्मणा ॥ ६ ॥

ब्रह्मण्यः अन्यः कुतः नाभेः विप्राः मङ्गल-पूजिताः।
यस्य बर्हिषि यज्ञ-ईशं दर्शयामासुः ओजसा ॥ ७ ॥

अथ ह भगवान् ऋषभदेवः स्व-वर्षं कर्म-क्षेत्रम् अनुमन्यमानः
प्रदर्शित-गुरु-कुल-वासः लब्ध-वरैः गुरुभिः अनुज्ञातः
गृह-मेधिनां धर्मान् अनुशिक्षमाणः जयन्त्याम् इन्द्र-दत्तायाम्
उभय-लक्षणं कर्म समाम्नाय-आम्नातम् अभियुञ्जन्
आत्म-जानाम् आत्म-समानानां शतं जनयामास ॥ ८ ॥

येषां खलु महा-योगी भरतः ज्येष्ठः श्रेष्ठ-गुणः आसीत्
येन इदं वर्षं भारतं इति व्यपदिशन्ति ॥ ९ ॥

तम् अनु कुशावर्तः इलावर्तः ब्रह्मावर्तः मलयः
केतुः भद्रसेनः इन्द्र-स्पृक् विदर्भः कीकटः
इति नव नवति प्रधानाः ॥ १० ॥

कविः हविः अन्तरिक्षः प्रबुद्धः पिप्पलायनः।
आविर्होत्रः अथ द्रुमिलः चमसः करभाजनः ॥ ११ ॥

इति भागवत-धर्म-दर्शनाः नव महा-भागवताः
तेषां सु-चरितं भगवत्-महिमा-उपबृंहितं
वसुदेव-नारद-संवादम् उपशमायनम्
उपरिष्टात् वर्णयिष्यामः ॥ १२ ॥

यवीयांसः एकाशीति: जायन्ते याः पितुः आदेश-कराः
महा-शालीनाः महा-श्रोत्रियाः यज्ञ-शीलाः
कर्म-विशुद्धाः ब्राह्मणाः बभूवुः ॥ १३ ॥

भगवान् ऋषभ-संज्ञः आत्म-तन्त्रः
स्वयं नित्य-निवृत्त-अनर्थ-परम्परः
केवल-आनन्द-अनुभवः ईश्वरः एव
विपरीत-वत् कर्माणि आरभमाणः
कालेन अनुगतं धर्मम् आचरणेन उपशिक्षयन्
अ-तद्-विदां समः उपशान्तः मैत्रः कारुणिकः
धर्म-अर्थ-यशः-प्रजा-आनन्द-अमृत-आवरोधेन
गृहेषु लोकं नियमयत् ॥ १४ ॥

यत् यत् शीर्षणि आचरितं तत् तत् अनुवर्तते लोकः ॥ १५ ॥

यत् अपि स्व-विदितं सकल-धर्मं ब्राह्मं गुह्यं
ब्राह्मणैः दर्शित-मार्गेण साम-आदिभिः उपायैः
जनताम् अनुशशास ॥ १६ ॥

द्रव्य-देश-काल-वयः-श्रद्धा-ऋत्विक् विविध-उद्देश-उपचितैः
सर्वैः अपि क्रतुभिः यथा-उपदेशं
शत-कृत्वः इयाज ॥ १७ ॥

भगवत् ऋषभेण परिरक्ष्यमाणे एतस्मिन् वर्षे
न कश्चन पुरुषः वाञ्छति अविद्यमानम् इव
आत्मनः अन्यस्मात् कथञ्चन किमपि
कर्हिचित् अवेक्षते भर्तरि अनु-सवनं
विजृम्भित-स्नेह-अतिशयम् अन्तरेण ॥ १८ ॥

सः कदाचित् अटमानः भगवान् ऋषभः
ब्रह्मावर्त-गतः ब्रह्म-ऋषि-प्रवर-सभायां
प्रजानां निशामयन्तीनाम् आत्म-जान् अवहित-आत्मनः
प्रश्रय-प्रणय-भर-सुयन्त्रितान् अपि उपशिक्षयन् इति होवाच ॥ १९ ॥

॥ इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायां पञ्चम-स्कन्धे चतुर्थः अध्यायः ॥ ४ ॥

ஸ்கந்தம் 5: அத்யாயம் 3 (நாபி மகாராஜன் சரித்திரம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

நாபி மகாராஜன் சரித்திரம்

ஸ்கந்தம் 5: அத்யாயம் 3

 

श्रीशुक उवाच –
नाभिः अपत्य-कामः अ-प्रजया मेरु-देव्या
भगवन्तं यज्ञ-पुरुषम् अवहित-आत्मा अयजत् ॥ १ ॥

तस्य ह वा श्रद्धया विशुद्ध-भावेन यजतः प्रवर्ग्येषु प्रचरत्सु द्रव्य-देश-काल
मन्त्र-ऋत्विक्-दक्षिणा-विधान-योग-उपपत्त्या दुरधिगमः अपि भगवान्
भागवत-वात्सल्यतया सुप्रतीकः आत्मानम् अपराजितं
निज-जन-अभिप्रेत-अर्थ-विधित्सया गृहीत-हृदयः
हृदयङ्गमं मनः-नयन-आनन्दन अवयव-अभिरामम् आविश्चकार ॥ २ ॥

अथ ह तम् आविष्कृत-भुज-युगल-द्वयं हिरण्मयं पुरुष-विशेषं
कपिश-कौशेय-अम्बर-धरम् उरसि विलसत् श्री-वत्स-ललामम्
दर-वर-वन-रुह-वन-माला- अच्छूर्य-अमृत-मणि-गदा-आदिभिः
उपलक्षितं स्फुट-किरण-प्रवर-मुकुट- कुण्डल-कटक-कटि-सूत्र-हार-
केयूर-नूपुर-आदि-अङ्ग-भूषण-विभूषितम् ऋत्विक्-सदस्य-गृहपतयः
अधनाः इव उत्तम-धनम् उपलभ्य स-बहु-मानम् अर्हणेन
अवनत-शीर्षाणः उपतस्थुः ॥ ३ ॥

ऋत्विजः ऊचुः –
अर्हसि मुहुः अर्हत्-तम अर्हणम् अस्माकम् अनु-पथानाम्
नमः नमः इति एतावत् सत्-उपशिक्षितम् कः अर्हति पुमान्
प्रकृति-गुण-व्यतिकर-मतिः अनीशः ईश्वरस्य परस्य
प्रकृति-पुरुषयोः अर्वाक्-तनाभिः नाम-रूप-आकृतिभिः
रूप-निरूपणम् ॥ ४ ॥

सकल-जन-निकाय-वृजिन-निरसन शिव-तम-प्रवर-गुण-गण
एक-देश-कथनात् ऋते ॥ ५ ॥

परिजन-अनुराग-विरचित शबल-संशब्द-सलिल
सित-किसलय-तुलसिका दूर्वा-अङ्कुरैः अपि सम्भृतया
स-पर्यया किल परम् परितुष्यसि ॥ ६ ॥

अथ अनया अपि न भवतः इज्ययोः उभा-र-भरया
समुचितम् अर्थम् इह उपलभामहे ॥ ७ ॥

आत्मनः एव अनु-सवनम् अञ्जसा अव्यतिरेकेण बोभूयमान
अशेष-पुरुष-अर्थ-स्वरूपस्य किन्तु नाथ आशिष् आशासानानाम्
एतत् अभि-संराधन-मात्रम् भवितुम् अर्हति ॥ ८ ॥

तद् यथा बालिशानाम् स्वयम् आत्मनः श्रेयः परम-विदुषाम्
परम-परम-पुरुष प्रकर्ष-करुणया स्व-महिमानम् च
अपवर्ग-आख्यम् उपकल्पयिष्यन् स्वयम् न अपचितः एव
इतर-वत् इह उपलक्षितः ॥ ९ ॥

अथ अयम् एव वरः हि अर्हत्-तम यर्हि बर्हिषि
राज-ऋषेः वर-द-ऋषभः भवान् निज-पुरुष-ईक्षण-विषयः आसीत् ॥ १० ॥

असङ्ग-निशित-ज्ञान-अनल विधूत-अशेष-मलानाम् भवत्-स्वभावानाम्
आत्म-आरामाणाम् मुनीनाम् अनवरत-परिगुणित-गुण-गण
परम-मङ्गल-आयन- गुण-गण-कथनः असि ॥ ११ ॥

अथ कथञ्चित् स्खलन-क्षुत्-पतन-जृम्भण दुरवस्थान-आदिषु विवशानाम् नः
स्मरणाय ज्वर-मरण-दशायाम् अपि सकल-कश्मल-निरसनानि
तव गुण-कृत-नाम-धेयानि वचन-गोचराणि भवन्तु ॥ १२ ॥

किञ्च अयम् राज-ऋषिः अपत्य-कामः प्रजाम् भवत्-आदृशीम् आशासानः
ईश्वरम् आशिषाम् स्वर्ग-अपवर्गयोः अपि भवन्तम् उपधावति
प्रजायाम् अर्थ-प्रत्ययः धन-दम् इव अ-धनः फली-करणम् ॥ १३ ॥

को वा इह ते अ-पराजितः अ-पराजितया मायया
अनवसित-पदव्या अनावृत-मतिः
विषय-विष-रय-अनावृत-प्रकृतिः अनुपासित-महत्-चरणः ॥ १४ ॥

यदु ह वा तव पुनः अदभ्र-कर्तरि इह समाहूतः तत्र अर्थ-धियाम्
मन्दानाम् नः तत् यत् देव-हेलनम् देव-देव अर्हसि साम्येन
सर्वान् प्रति-वोढुम् अविदुषाम् ॥ १५ ॥

श्रीशुक उवाच –
इति निगदेन अभिष्टूयमानः भगवान् अनिमिष-ऋषभः
वर्ष-धर-अभिवादित-अभिवन्दित-चरणः स-दयम् इदम् आह ॥ १६ ॥

श्रीभगवान् उवाच –
अहो बत अहम् ऋषयः भवत्-भिः अवितथ-गीर्भिः वरम् असुलभम् अभियाचितः 
यत् अमुष्य आत्म-जः मया सदृशः भूयात् इति मम अहम् एव अभिरूपः
कैवल्यात् अथ अपि ब्रह्म-वादः न मृषा भवितुम् अर्हति
मम एव हि मुखम् यत् द्विज-देव-कुलम् ॥ १७ ॥

ततः आग्नीध्रिये अंश-कलया अवतारिष्यामि
आत्म-तुल्यम् अनुपलभमानः ॥ १८ ॥

श्रीशुक उवाच –
इति निशामयन्त्या मेरु-देव्याः पतिम् अभिधाय अन्तर्दधे भगवान् ॥ १९ ॥

बर्हिषि तस्मिन् एव विष्णु-दत्तः भगवान् परम-ऋषिभिः प्रसादितः
नाभेः प्रिय-चिकीर्षया तत् अवरोध-आयने मेरु-देव्याम्
धर्मान् दर्शयितु-कामः वात-रशनानाम् श्रमणानाम् ऋषीणाम्
ऊर्ध्व-मन्थिनाम् शुक्लया तनुवा अवततार ॥ २० ॥

॥ इति श्रीमद्-भागवते महापुराणे पारमहंस्यां संहितायां पञ्चम-स्कन्धे नाभि-चरिते ऋषभ-अवतारः नाम तृतीयः अध्यायः ॥ ३ ॥

ஸ்கந்தம் 5: அத்யாயம் 2 (ஆக்னித்ரன் சரித்திரம்) - ஸ்ரீமத் பாகவதம். Srimad Bhagavatham

ஆக்னித்ரன் சரித்திரம்

ஸ்கந்தம் 5: அத்யாயம் 2

 

श्री-शुक उवाच –
एवं पितरि सम्प्रवृत्ते तद्-अनु-शासने वर्तमानः आग्नीध्रः जम्बू-द्वीप-ओकसः प्रजाः
औरसवत् धर्म-अवेक्षमाणः पर्यगोपायत् ॥ १ ॥

सः च कदाचित् पितृ-लोक-कामः सुर-वर-वनिता-क्रीडा-अचल-द्रोण्याम्
भगवन्तं विश्व-सृजाम् पतिम् आभृत-परिचर्या-उपकरणः आत्म-एकाग्र्येण
तपस्वी आराधयाम् बभूव ॥ २ ॥

तत् उपलभ्य भगवान् आदि-पुरुषः सदसि गायन्तीम् पूर्व-चित्तिम् नाम
अप्सरसम् अभियापयाम् आस ॥ ३ ॥

सा च तत्-आश्रम-उपवनम् अति-रमणीयम् विविध-निबिड-विटपि-विटप-निकर-संश्लिष्ट
पुरट-लता-आरूढ-स्थल-विहङ्गम-मिथुनैः प्रोच्यमान-श्रुतिभिः प्रतिबोध्यमान
सलिल-कुक्कुट-कारण्डव-कलहंस-आदिभिः विचित्रम् उपकूजित
अमल-जल-आशय-कमल-आकरम् उपबभ्राम ॥ ४ ॥

तस्याः सु-ललित-गमन-पद-विन्यास गति-विलासायाः च अनु-पदम्
खण-खणायमान-रुचिर-चरण-आभरण-स्वनम्
उपाकर्ण्य नर-देव-कुमारः समाधि-योगेन आमीलीत
नयन-नलिन-मुकुल-युगलम् ईषत् विकचय्य व्यचष्ट ॥ ५ ॥

ताम् एव अविदूरे मधु-करीम् इव सुमनसः उपजिघ्रन्तीम्
दिविज-मनुज-मनः-नयन-आह्लाद-दुघैः गति-विहार-व्रीडा-विनय-अवलोक
सु-स्वर-अक्षर-अवयवैः मनसि नृणाम् कुसुम-आयुधस्य
विदधतीम् विवरम् निज-मुख-विगलित-अमृत-आसव
सहास-भाषणा-आमोद-मद-अन्ध मधुकर-निकर-उपरोधेन
द्रुत-पद-विन्यासेन वल्गु-स्पन्दन-स्तन-कलश-कबर-भार-रशनाम्
देवीं तत्-अवलोकनेन विवृत-अवसरस्य भगवतः
मकर-ध्वजस्य वशम् उपनीतः जडवत् इति होवाच ॥ ६ ॥

का त्वम् चिकीर्षसि च किम् मुनि-वर्य शैले माया असि कापि भगवत्-पर-देवतायाः।
विज्ये बिभर्षि धनुषी सुहृत्-आत्मनः अर्थे किम् वा मृगान् मृगयसे विपिने प्रमत्तान् ॥ ७ ॥

बाणौ इमौ भगवतः शत-पत्र-पत्रौ शान्तौ अपुङ्ख-रुचिरौ अवतितिग्म-दन्तौ।
कस्मै युयुङ्क्षसि वने विचरन् न विद्मः क्षेमाय नः जड-धियाम् तव विक्रमः अस्तु ॥ ८ ॥

शिष्याः इमे भगवतः परितः पठन्ति गायन्ति साम स-रहस्यम् अजस्रम् ईशम्।
युष्मत्-शिखा-विलुलिताः सुमनः-अभिवृष्टीः सर्वे भजन्ति ऋषि-गणाः इव वेद-शाखाः ॥ ९ ॥

वाचम् पराम् चरण-पञ्जर-तित्तिरीणाम् ब्रह्मन् अरूप-मुखराम् शृणवाम तुभ्यम्।
लब्धा कदम्ब-रुचिर-अङ्क-विटङ्क-बिम्बे यस्य अमल-आतप-परिधिः क्व च वल्कलम् ते ॥ १० ॥

किम् सम्भृतम् रुचिरयोः द्विज-शृङ्गयोः ते मध्ये कृशः वहसि यत्र दृशिः श्रिता मे।
पङ्कः अरुणः सुरभिः आत्म-विषाणः ईदृक् येन आश्रमम् सुभग मे सुरभीकरोषि ॥ ११ ॥

लोकम् प्रदर्शय सुहृत्-तम तावकम् मे यत्र अति इत्थम् उरसाव् अवयवौ अपूर्वौ।
अस्मत्-विधस्य मन-उन्नयनौ बिभर्ति बहु-अद्भुतम् सरस-रस-सुधा-आदि वक्त्रे ॥ १२ ॥

का वा आत्म-वृत्तिः अदानात् हविः अङ्ग वाति विष्णोः कला अस्य निमिष-उन्मकरौ च कर्णौ।
उद्विग्न-मीन-युगलम् द्विज-पङ्क्ति-शोचिः आसन्न-भृङ्ग-निकरम् सरः इत् मुखम् ते ॥ १३ ॥

यः असौ त्वया कर-सरोज-हतः पतङ्गः दिक्षु भ्रमन् भ्रमतः एजयते अक्षिणी मे।
मुक्तम् न ते स्मरसि वक्र-जटा-वरूथम् कष्टः अनिलः हरति लम्पटः एष नीवीम् ॥ १४ ॥

रूपम् तपोधन तपः-चरताम् तपः-घ्नम् हि एतत् तु केन तपसा भवता उपलब्धम्।
चर्तुम् तपः अर्हसि मया सह मित्र मह्यम् किम् वा प्रसीदति सः वै भव-भावनः मे ॥ १५ ॥

न त्वाम् त्यजामि दयितम् द्विज-देव-दत्तम् यस्मिन् मनः दृक् अपि नः न वियाति लग्नम्।
माम् चारु-शृङ्गि अर्हसि नेतुम् अनु-व्रतम् ते चित्तम् यतः प्रतिसरन्तु शिवाः सचिव्यः ॥ १६ ॥

श्री-शुक उवाच – 
इति ललना-अनुनय-अति-विशारदः ग्राम्य-वैदग्ध्यया परिभाषया
ताम् विबुध-वधूम् विबुध-मति: अधि-सभाजयाम् आस ॥ १७ ॥

सा च ततः तस्य वीर-यूथ-पतेः बुद्धि-शील-रूप-वयः-श्री-औदार्येण
पर-आक्षिप्त-मनाः तेन सह आयुत-आयुत-परिवत्सर-उपलक्षणम्
कालम् जम्बू-द्वीप-पतिना भौम-स्वर्ग-भोगान् बुभुजे ॥ १८ ॥

तस्याम् उ ह वा आत्म-जान् सः राज-वरः आग्नीध्रः
नाभि-किम्पुरुष-हरि-वर्ष-इलावृत रम्यक-हिरण्मय-कुरु-भद्र
श्वेतकेतु-माल-संज्ञान् नव पुत्रान् अजनयत् ॥ १९ ॥

सा सूत्वा अथ सुतान् नवान् अनुवत्सरम् गृहे एव अपहाय
पूर्व-चित्तिः भूयः एव अजम् देवम् उपतस्थे ॥ २० ॥

आग्नीध्र-सुताः ते मातुः अनुग्रहात् औत्पत्तिकेन एव संहनन-बल-उपेताः
पित्रा विभक्ताः आत्म-तुल्य-नामानि यथा-भागं जम्बू-द्वीप-वर्षाणि बुभुजुः ॥ २१ ॥

आग्नीध्रः राजा अत्रप्तः कामानाम् अप्सरसम् एव अनुदिनम् अधिमन्यमानः
तस्याः स-लोकतां श्रुतिभिः अवारुन्ध यत्र पितरः मादयन्ते ॥ २२ ॥

सम्परेते पितरि नव भ्रातरः मेरु-दुहितॄः मेरु-देवीं प्रति-रूपाम् उग्र-दंष्ट्रीं 

लतां रम्यां श्यामां नारीं भद्रां देव-वीतिम् इति संज्ञाः नव उदवहन् ॥ २३ ॥

॥ इति श्रीमद्-भागवते महा-पुराणे पारमहंस्यां संहितायां पञ्चम-स्कन्धे आग्नीध्र-वर्णनं नाम द्वितीयः अध्यायः ॥ २ ॥