சிவன் மோஹினியிடம் மனதை கொடுத்தார்
ஸ்கந்தம் 8: அத்யாயம் 12
श्री-बादरायणिः उवाच –
वृष-ध्वजः निशम्य इदं योषित्-रूपेण दानवान्।
मोहयित्वा सुर-गणान् हरिः सोमम् अपाययत्॥ १ ॥
वृषम् आरुह्य गिरिशः सर्व-भूत-गणैः वृतः।
सह देव्याः ययौ द्रष्टुम् यत्र आस्ते मधुसूदनः॥ २ ॥
स-भाजितः भगवता स-आदरम् सोमया भवः।
सूपविष्टः उवाच इदं प्रतिपूज्य स्मयन् हरिम्॥ ३ ॥
श्री-महादेवः उवाच –
देव-देव जगत्-व्यापिन् जगत्-ईश जगत्-मय।
सर्वेषाम् अपि भावानाम् त्वम् आत्मा हेतुः ईश्वरः॥ ४ ॥
आदि-अन्तौ अस्य यत्-मध्यम् इदम् अन्यत् अहम् बहि:।
यतः अव्ययस्य न एतानि तत् सत्यं ब्रह्म चित् भवान्॥ ५ ॥
तव एव चरण-अम्भोजम् श्रेयः-कामाः निराशिषः।
विसृज्य उभयतः सङ्गम् मुनयः समुपासते॥ ६ ॥
त्वम् ब्रह्म पूर्णम् अमृतम् विगुणम् वि-शोकम्
आनन्द-मात्रम् अविकारम् अनन्य-अन्यत्।
विश्वस्य हेतुः उदय-स्थिति-संयमानाम्
आत्मा-ईश्वरः च तत्-अपेक्षतया अनपेक्षः॥ ७ ॥
एकः त्वम् एव सत्-असत् द्वयम् अद्वयम् च
स्वर्णम् कृत-अकृतम् इव इह न वस्तु-भेदः।
अज्ञानतः त्वयि जनैः विहितः विकल्पः
यस्मात् गुणैः व्यतिकरः नि-रुपाधिकस्य॥ ८ ॥
त्वाम् ब्रह्म केचित् अवयन्ति उतः धर्मम् एके।
एके परम् सत्-असतोः पुरुषम् परेशम्।
अन्ये अवयन्ति नव-शक्ति-युतम् परम् त्वाम्
केचित् महा-पुरुषम् अव्ययम् आत्म-तन्त्रम्॥ ९ ॥
न अहम् पर-अयुः ऋषयः न मरीचि-मुख्याः
जानन्ति यत्-विरचितम् खलु सत्त्व-सर्गाः।
यत्-मायया मुषित-चेतसः ईश दैत्य-
मर्त्य-आदयः किम्-उत शश्वत्-अभद्र-वृत्ताः॥ १० ॥
सः त्वम् समीहितम् अदः स्थिति-जन्म-नाशम्
भूत-इहितम् च जगतः भव-बन्ध-मोक्षौ।
वायुः यथा विशति खम् च चर-अचर-आख्यम्
सर्वम् तत्-आत्म-कतया अवगमः अवरुन्द्से॥ ११ ॥
अवताराः मया दृष्टाः रममाणस्य ते गुणैः।
सः-अहम् तत् द्रष्टुम् इच्छामि यत् ते योषित्-वपुः धृतम्॥ १२ ॥
येन सम्मोहिताः दैत्याः पायिताः च अमृतम् सुराः।
तत् दिदृक्षवः आयाताः परम् कौतूहलम् हि नः॥ १३ ॥
श्री-शुकः उवाच –
एवम् अभ्यर्थितः विष्णुः भगवान् शूल-पाणिना।
प्रहस्य भाव-गम्भीरम् गिरिशम् प्रत्यभाषत॥ १४ ॥
श्री-भगवान् उवाच –
कौतूहलाय दैत्यानाम् योषित्-वेषः मया कृतः।
पश्यता सुर-कार्याणि गते पीयूष-भाजने॥ १५ ॥
तत् ते अहम् दर्शयिष्यामि दिदृक्षोः सुर-सत्तम।
कामिनाम् बहु मन्तव्यम् सङ्कल्प-प्रभव-उदयम्॥ १६ ॥
श्री-शुकः उवाच –
इति ब्रुवाणः भगवान् तत्र एव अन्तरधीयत।
सर्वतः चारयन् चक्षुः भवः आस्ते सह उमया॥ १७ ॥
ततः ददर्श उपवने वर-स्त्रियम्
विचित्र-पुष्प-अरुण-पल्लव-द्रुमे।
विक्रीडतीम् कन्दुक-लीलया लसत्
दुकूल-पर्यस्त-नितम्ब-मेखलाम्॥ १८ ॥
आवर्तन-उद्वर्तन-कम्पित-स्तन-
प्रकृष्ट-हार-ऊरु-भरैः पदे पदे।
प्रभज्यमानाम् इव मध्यतः चलत्
पद-प्रवालम् नयतीम् ततः ततः॥ १९ ॥
दिक्षु भ्रमत्-कन्दुक-चापलैः भृशम्
प्रोद्विग्न-तारा-आयत-लोल-लोचनाम्।
स्व-कर्ण-विभ्राजित-कुण्डल-उल्लसत्
कपोल-नील-अलक-मण्डित-आननाम्॥ २० ॥
श्लथद्-दुकूलं कबरीं च विच्युताम्
सन्नह्यतीम् वाम-करेण वल्गुना।
विनिघ्नतीम् अन्य-करेण कन्दुकम्
विमोहयन्तीम् जगत्-आत्म-मायया ॥ २१ ॥
ताम् वीक्ष्य देवः इति कन्दुक-लीलया-ईषत्
व्रीडा-स्फुट-स्मित-विसृष्ट-कटाक्ष-मुष्टः।
स्त्री-प्रेक्षण-प्रतिसमीक्षण-विह्वल-आत्मा
न आत्मानम् अन्तिके उमाम् स्व-गणान् च वेद ॥ २२ ॥
तस्याः कर-अग्रात् सः तु कन्दुकः यदा
गतः विदूरम् तम् अनुव्रजत् स्त्रियाः।
वासः स-सूत्रम् लघु-मारुतः अहरत्
भवस्य देवस्य किल अनुपश्यतः ॥ २३ ॥
एवम् ताम् रुचिर-आपाङ्गीम् दर्शनीयाम् मनोरमाम्।
दृष्ट्वा तस्याम् मनः चक्रे विषज्जन्त्याम् भवः किल ॥ २४ ॥
तया अपहृत-विज्ञानः तत्-कृत-स्मर-विह्वलः।
भव-अन्याः अपि पश्यन्त्याः गत-ह्रीः तत्-पदम् ययौ ॥ २५ ॥
सा तम् आयान्तम् आलोक्य विवस्त्रा व्रीडिता भृशम्।
निलीयमाना वृक्षेषु हसन्ती न अन्वतिष्ठत ॥ २६ ॥
ताम् अन्वगच्छत् भगवान् भवः प्रमुषित-इन्द्रियः।
कामस्य च वशम् नीतः करेणुम् इव यूथपः ॥ २७ ॥
सः अनु-व्रज्या अति-वेगेन गृहीत्वा अनिच्छतीम् स्त्रियम्।
केश-बन्धम् उपानीय बाहुभ्याम् परिषस्वजे ॥ २८ ॥
सा उपगूढा भगवता करिणा करिणी यथा।
इतः ततः प्रसर्पन्ती विप्रकीर्ण-शिरो-रुहा ॥ २९ ॥
आत्मानम् मोचयित्वा अङ्गात् सुर-ऋषभ-भुज-अन्तरात्।
प्राद्रवत् सा पृथु-श्रोणी माया देव-विनिर्मिता ॥ ३० ॥
तस्याः असौ पदवीं रुद्रः विष्णोः अद्भुत-कर्मणः।
प्रत्यपद्यत कामेन वैरिणा इव विनिर्जितः ॥ ३१ ॥
तस्य अनु-धावतः रेतः चस्कन्द अमोघ-रेतसः।
शुष्मिणः यूथपस्य इव वासिताम् अनु धावतः ॥ ३२ ॥
यत्र यत्र अपतत् महीम् रेतः तस्य महा-आत्मनः।
तानि रूप्यस्य हेम्नः च क्षेत्राणि आसन् मही-पते ॥ ३३ ॥
सरित्-सरस्सु शैलेषु वनेषु उपवनेषु च।
यत्र क्व च आसन् ऋषयः तत्र संनिहितः हरः ॥ ३४ ॥
स्कन्ने रेतसि सः अपश्यत् आत्मानम् देव-मायया।
जडी-कृतम् नृप-श्रेष्ठ संन्यवर्तत कश्मलात् ॥ ३५ ॥
अथ अवगत-माहात्म्यः आत्मनः जगत्-आत्मनः।
अपरिज्ञेय-वीर्यस्य न मेने तत् अद्भुतम् ॥ ३६ ॥
तम् अविक्लवम् अव्रीडम् आलक्ष्य मधु-सूदनः।
उवाच परम-प्रीतः बिभ्रत् स्वाम् पौरुषीम् तनुम् ॥ ३७ ॥
श्री-भगवान् उवाच –
दिष्ट्या त्वम् विबुध-श्रेष्ठ स्वाम् निष्ठाम् आत्मना स्थितः।
यत् मे स्त्री-रूपया स्वैरम् मोहितः अपि अङ्ग मायया ॥ ३८ ॥
कः नु मे अति-तरेत् मायाम् विषक्तः त्वत्-ऋते पुमान्।
ताम् ताम् विसृजतीम् भावान् दुस्तराम् अ-कृत-आत्मभिः ॥ ३९ ॥
सा इयम् गुण-मयी माया न त्वाम् अभिभविष्यति।
मया समेता कालेन काल-रूपेण भागशः ॥ ४० ॥
श्रीशुक उवाच –
एवम् भगवता राजन् श्रीवत्स-अङ्केन सत्कृतः।
आमंत्र्य तम् परिक्रम्य स-गणः स्व-आलयं ययौ॥ ४१ ॥
आत्म-अंश-भूताम् ताम् मायाम् भवानीम् भगवान् भवः।
शंसताम् ऋषि-मुख्यानाम् प्रीत्या आचष्ट अथ भारत॥ ४२ ॥
अयि व्यपश्यः त्वम् अजस्य मायाम्
परस्य पुंसः पर-देवतायाः।
अहम् कलानाम् ऋषभः विमुह्ये
या-या अवशः अन्ये किम् उ तु अस्वतन्त्राः॥ ४३ ॥
यम् माम् अपृच्छः त्वम् उपेत्य योगात्
स-मा-असहस्र-अन्त उपारतम् वै।
सः एषः साक्षात् पुरुषः पुराणः
न यत्र कालः विशते न वेदः॥ ४४ ॥
श्रीशुक उवाच –
इति ते अभिहितः तात विक्रमः शार्ङ्ग-धन्वनः।
सिन्धोः निर्मथने येन धृतः पृष्ठे महा-अचलः॥ ४५ ॥
एतत् मुहुः कीर्तयतः अनुश्रृण्वतः
न रिष्यते जातु समुद्यमः क्वचित्।
यत् उत्तम-श्लोक-गुण-अनुवर्णनम्
समस्त-संसार-परिश्रम-आपहम्॥ ४६ ॥
असत्-विषयम् अङ्घ्रिम् भाव-गम्यम् प्रपन्नानाम्
अमृतम् अमर-वर्यान् आशयत् सिन्धु-मथ्यम्।
कपट-युवति-वेषः मोहयन् यः सुर-आरीन्
तम् अहम् उपसृतानाम् काम-पूर्णम् नतः अस्मि॥ ४७ ॥
No comments:
Post a Comment