மனு, நான்கு வகை குணம் கொண்ட மனிதர்களுக்கு தேவையான தர்மத்தை நிலைநாட்டினார்
ஸ்கந்தம் 8: அத்யாயம் 14
श्री-राजा उवाच
मन्वन्तरेषु भगवन् यथा मन्व्-आदयः तु इमे।
यस्मिन् कर्मणि ये येन नियुक्ताः तत् वदस्व मे ॥ १ ॥
श्री-ऋषिः उवाच
मनवः मनु-पुत्राः च मुनयः च मही-पते।
इन्द्राः सुर-गणाः च एव सर्वे पुरुष-शासनाः ॥ २ ॥
यज्ञ-आदयः याः कथिताः पौरुष्याः तनवः नृप।
मनु-आदयः जगत्-यात्राम् नयन्ति आभिः प्रचोदिताः ॥ ३ ॥
चतुर्-युग-अन्ते कालेन ग्रस्तान् श्रुति-गणान् यथा।
तपसा ऋषयः अपश्यन् यतः धर्मः सनातनः ॥ ४ ॥
ततः धर्मम् चतुष्-पादम् मनवः हरिणा उदिताः।
युक्ताः सञ्चारयन्ति अद्धा स्वे स्वे काले महीं नृप ॥ ५ ॥
पालयन्ति प्रजा-पालाः यावत् अन्तम् विभागशः।
यज्ञ-भाग-भुजः देवाः ये च तत्र अन्विताः च तैः ॥ ६ ॥
इन्द्रः भगवता दत्ताम् त्रि-लोक्य-श्रियम् ऊर्जिताम्।
भुञ्जानः पाति लोकान् त्रीन् कामम् लोके प्रवर्षति ॥ ७ ॥
ज्ञानम् च अनु-युगम् ब्रूते हरिः सिद्ध-स्वरूप-धृक्।
ऋषि-रूप-धरः कर्म योगम् योग-ईश-रूप-धृक् ॥ ८ ॥
सर्गम् प्रज-ईश-रूपेण दस्यून् हन्यात् स्व-राट्-वपुः।
काल-रूपेण सर्वेषाम् अभावाय पृथक्-गुणः ॥ ९ ॥
स्तूयमानः जनैः एभिः माया-या नाम-रूपया।
विमोहित-आत्मभिः नाना-दर्शनैः न च दृश्यते ॥ १० ॥
एतत् कल्प-विकल्पस्य प्रमाणम् परिकीर्तितम्।
यत्र मन्वन्तराणि आहुः चतुर्दश पुरा-विदः ॥ ११ ॥
No comments:
Post a Comment